तत्र श्लोकाः-
वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्।येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्॥६
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः।यथाप्रकृति चाहारो मलायनगदौषधम्॥६४
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्।वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना॥६५
विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः।नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः॥६६

पदच्छेदः -
तत्र श्लोकाः-
वेगाः वेगसमुत्थाः च रोगाः तेषां च भेषजम्।येषां वेगाः विधार्याः च यद्-अर्थं यद्-हित-अहितम्॥६३
उचिते च अहिते वर्ज्ये सेव्ये च अनुचिते क्रमः।यथाप्रकृति च आहारो मलायनगद-औषधम्॥६४
भविष्यताम् अनुत्पत्तौ रोगाणाम् औषधं च यत्।वर्ज्याः सेव्याः च पुरुषाः धीमता आत्मसुखार्थिना॥
विधिना दधि सेव्यं च येन यस्मात् तद् अत्रिजः।नवेगान्-धारणे अध्याये सर्वम् एव अवदत् मुनिः॥

अन्वयः -
वेगाः, वेगसमुत्थाः रोगाःच , तेषां भेषजं च,येषां वेगाः विधार्याः च, यद्-अर्थं यद्-हित-अहितम्, उचिते च अहिते वर्ज्ये क्रमः, सेव्ये च अनुचिते क्रमः,यथाप्रकृति आहारः च मलायनगद-औषधं, भविष्यतां रोगाणाम् अनुत्पत्तौ यद् औषधं च, धीमता आत्मसुखार्थिना वर्ज्याः पुरुषाः, सेव्याः च पुरुषाः, येन विधिना दधि सेव्यं च, यस्मात् विधिना दधि सेव्यं च तत् सर्वम् एव अत्रिजः मुनिः नवेगान्-धारणे अध्याये अवदत् ॥६६

सरलार्थः -
अस्मिन् नवेगान्धारणीयाध्याये आत्रेयः मुनिः यान् विषयान् उक्तवान, ते विषयाः एते - वेगाः, वेगसमुत्थाः रोगाः च, तेषां रोगाणां भेषजं च,धारणीयवेगाः, कस्य कृते किं हितं, किमहितं, उचितम् अहितं वर्जनीयं चेत् तस्य क्रमः, अनुचितं सेवनीयं चेत् तस्य क्रमः, यथाप्रकृति आहारः च मलायनस्य रोगाः, तेषाम् औषधं,भविष्यतां रोगाणाम् अनुत्पत्तौ औषधं च, धीमता आत्मसुखार्थिना वर्ज्याः पुरुषाः, सेव्याः च पुरुषाः, दधिसेवनविधिः, दधिसेवनविधेः प्रयोजनं च।६६

आयुर्वेददीपिका-पदच्छेदः -
अध्यायार्थसङ्ग्रहे हित-अहितम् इति सेव्य-असेव्यं व्यायाम-हास्य आदि। भविष्यताम् अनुत्पत्तौ भेषजम् इति माधवप्रथमे मासि इत्यादिना उत्पन्नानां च शान्तये इति अन्तेन॥६३-६६॥

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः॥७
पदच्छेदः -
इति अग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयः नाम सप्तमः अध्यायः७

आयुर्वेददीपिका-पदच्छेदः -
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीका-आयुर्वेददीपिकाख्यायां द्वितीये स्वस्थचतुष्के नवेगान्धारणीयो नाम सप्तमः अध्यायः॥७

०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० ५१...५५ ५६...६० ६१...६२ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः

"https://sa.wikibooks.org/w/index.php?title=६३...६६&oldid=7167" इत्यस्माद् प्रतिप्राप्तम्