द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च।मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः॥४२
मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्।मलायनानां बुध्येत सङ्गोत्सर्गादतीव च॥४३

पदच्छेदः -
द्वे अधः सप्त शिरसि खानि स्वेदमुखानि च।मल-अयनानि बाध्यन्ते दुष्टैः मात्रा-अधिकैः मलैः॥४२
मलवृद्धिं गुरुतया लाघवात् मलसङ्क्षयम्।मल-अयनानां बुध्येत सङ्ग-उत्सर्गात् अतीव च॥४३

अन्वयः -
अधः द्वे, शिरसि सप्त खानि, स्वेदमुखानि च मल-अयनानि (सन्ति)।(एतानि) दुष्टैः मात्राधिकैः मलैः बाध्यन्ते ॥४२
अयनानां गुरुतया मलवृद्धिं, लाघवात् मलसङ्क्षयं बुध्येत ।मलस्य अतीव सङ्ग-उत्सर्गात् च मलवृद्धिं, मलसङ्क्षयं बुध्येत॥४३

सरलार्थः -
अधः द्वे छिद्रे स्तः।शिरसि सप्त छिद्राणि सन्ति।तानि छिद्राणि तथा सर्वाणि स्वेदमुखानि च मल-अयनानि भवन्ति।(एतानि मलायनतानि) दुष्टैः मात्राधिकैः मलैः दुष्टानि भवन्ति॥४२अयनानां गुरुतया मलवृद्धिं बुध्येत,तेषां लाघवात् मलसङ्क्षयं बुध्येत । मलस्य अतीव सङ्गात् मलवृद्धिं, बुध्येत।मलस्य अतीव उत्सर्गात् मलसङ्क्षयं बुध्येत॥४३

आयुर्वेददीपिका-पदच्छेद:-
स्वास्थ्य-उत्पत्तिकारणम् अभिधाय स्वास्थ्यप्रतिबन्धकदोषसञ्चयनिर्हरणम् अभिधातुं दोषसञ्चयस्य लक्षणानि एव तावद् वक्तुम् आह- द्वे अधः इत्यादि। द्वे गुदलिङ्गे। खानि छिद्राणि। सप्त शिरसि इति द्वे श्रोत्रे, द्वौ नासापुटौ, द्वे अक्षिणी, मुखं च; स्वेदमुखानि इति लोमकूपानि; एतानि सर्वाणि मलस्य अयनानि। दुष्टैः इति गोबलीवर्दन्यायेन क्षीणैः, मात्रा-अधिकैः इति वृद्धैः; येन उत्तरत्र क्षयवृद्ध्योः अपि लक्षणं वदति। मलवृद्धिं गुरुतया मलायनगुरुतया इति अर्थः, लाघवात् मल-अयनानां सङ्क्षयं मलस्य स्वमानात् अपि क्षयम् इति अर्थः; यदि वा दुष्टैः इति मात्रा-अधिकैः इति अस्य विशेषणम्, एवं सति लाघवात् मलसङ्क्षयम् इति प्रकृतिस्थात् लाघवात् मलक्षयम् इति अधिकस्य मलस्य क्षयं प्रकृतिस्थत्वम् इति अर्थः व्याख्येयः। सङ्ग-उत्सर्गात् अतीव च इति अतीवसङ्गात् अप्रवृत्तेः मलक्षयम्, अतीव उत्सर्गात् मलवृद्धिं जानीयात् इति अर्थः॥४२-४३


तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्।व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्॥४४

पदच्छेदः -
तान् दोषलिङ्गैः आदिश्य व्याधीन् साध्यान् उपाचरेत्।व्याधिहेतुप्रतिद्वन्द्वैः मात्राकालौ विचारयन्॥४४

अन्वयः -
तान् दोषलिङ्गैः आदिश्य साध्यान् व्याधीन् व्याधिहेतुप्रतिद्वन्द्वैः मात्राकालौ विचारयन् उपाचरेत्।४४

सरलार्थः -
तान् मलवृद्धिक्षयजनितान् रोगान् दोषलक्षणैः बुद्ध्वा साध्यान् व्याधीन् व्याधिप्रतिद्वन्द्वैः हेतुप्रतिद्वन्द्वैः तथा व्याधिहेतु-उभयप्रतिद्वन्द्वैः उपाचरेत्।तदा मात्रायाः कालस्य व विचारः कार्यः।मात्राकालौ विचारयन् ।४४

आयुर्वेददीपिका-पदच्छेदः -
तान् इति मलवृद्धिक्षयात्मकान् मलवृद्धिक्षयजनितान् इति यावत्, दोषाणां वातादीनां, लिङ्गैः क्षयवृद्धिसम्बन्धैः, आदिश्य बुद्ध्वा, ये साध्याः तान् उपाचरेत्। व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः; प्रतिद्वन्द्वशब्देन च विपरीतार्थकारिणाम् अपि ग्रहणम्। मात्राकालग्रहणं च प्राधान्यात्; तेन, दोषभेषजादीनाम् अपि ग्रहणं बोद्धव्यं; यदि वा कालग्रहणे एव दोषादीनाम् अवरोधः व्याख्येयः॥४४

०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ४५...५० ५१...५५ ५६...६० ६१...६२ ६३...६६

"https://sa.wikibooks.org/w/index.php?title=४२...४४&oldid=7170" इत्यस्माद् प्रतिप्राप्तम्