५१...५५
ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः।नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति॥५१
ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये।मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः॥५२
पदच्छेद: -
ये भूत-विष-वायु-अग्नि-सम्प्रहार-आदिसम्भवाः।नृणाम् आगन्तवः रोगाः प्रज्ञा तेषु अपराध्यति॥५१
ईर्ष्या-शोक-भय-क्रोध-मान-द्वेष-आदयः च ये।मनोविकाराः ते अपि उक्ताः सर्वे प्रज्ञापराधजाः॥५२
अन्वयः -
नृणां ये रोगाः भूत-विष-वायु-अग्नि-सम्प्रहार-आदिसम्भवाः, (ते)आगन्तवः।तेषु प्रज्ञा अपराध्यति॥५१
ईर्ष्या-शोक-भय-क्रोध-मान-द्वेष आदयः च ये मनोविकाराः, ते सर्वे अपि प्रज्ञापराधजाः उक्ताः॥५२
सरलार्थः -
नृणां ये रोगाः भूत-विष-वायु-अग्नि-सम्प्रहार-आदिसम्भवाः, (ते)आगन्तवः रोगाः।तेषु रोगेषु प्रज्ञा अपराधं करोति।५१ईर्ष्या-शोक-भय-क्रोध-मान-द्वेष-आदयः च ये मनोविकाराः, ते सर्वे अपि प्रज्ञापराधजाः उक्ताः॥५२
आयुर्वेददीपिका-पदच्छेदः -
ये भूतः इत्यादि। भूताः पिशाच-आदयः, आदिग्रहणात् पातबन्धनादीनां ग्रहणम्। प्रज्ञा बुद्धिः तद्-अपराधः अज्ञानदुर्ज्ञाने, एतन्मूलाः च एते भूत-अभिषङ्ग-आदयः ईर्ष्यादयः च । यदि अपि च निजाः अपि प्रज्ञापराधमूला एव; यद् उक्तं- “प्रज्ञापराधात् हि अहितानर्थान् पञ्च निषेवते” (सू.अ.२८) इति, तथा अपि ते प्राधान्यात् प्रज्ञापराधजनितबाह्यवातादिरूक्षभोजनादिजन्यत्वेन तथा अन्तरा वातादिजन्यत्वेन पृथक्त्वेन उच्यन्ते॥५१-५२
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः।देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्॥५३
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः।प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः॥५४
पदच्छेदः -
त्यागः प्रज्ञापराधानाम् इन्द्रिय-उपशमः स्मृतिः।देश-काल-आत्मविज्ञानं सद्वृत्तस्य अनुवर्तनम्॥५३
आगन्तूनाम् अनुत्पतौ एषः मार्गः निदर्शितः।प्राज्ञः प्राक् एव तत् कुर्यात् हितं विद्यात् यद् आत्मनः॥५४
अन्वयः -
आगन्तूनाम् अनुत्पतौ प्रज्ञापराधानां त्यागः, ,इन्द्रिय-उपशमः, ,स्मृतिः, देश-काल-आत्मविज्ञानं, सद्वृत्तस्य अनुवर्तनम् (इति) एष मार्गः निदर्शितः।प्राज्ञः (नरः) यद् आत्मनः हितं विद्यात्, तत् प्राक् एव कुर्यात्॥५४
सरलार्थः -
आगन्तूनाम् अनुत्पतौ प्रज्ञापराधानां त्यागः, इन्द्रियाणाम् उपशमः, ,स्मृतिः, देशविज्ञानं, कालविज्ञाण्, आत्मविज्ञानं, सद्वृत्तस्य अनुवर्तनम् (इति) एषः मार्गः कथितः।प्राज्ञः (नरः) यद् आत्मनः हितं विद्यात्, तत् रोगोत्पत्तेः पूर्वम् एव कुर्यात्॥५४
आयुर्वेददीपिका-पदच्छेदः -
आगन्तुमानसपरिहारे हेतुम् आह- त्यागः इत्यादि। इन्द्रिय-उपशमः इन्द्रियाणां स्वविषये अलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वस्वभाव-आदि-अनुस्मरणं; यद् उक्तम्- “स्मृत्वा स्वभावं भावानां स्मरन् दुःखात् विमुच्यते” (शा.अ.१); एतत् च द्वयं मानसरोगप्रतिघातकम्। देशज्ञानात् शून्यगृह-अटवी-उपसर्गगृहीतदेशवर्जन-आदि भवति, कालज्ञानात् पौर्णमास्य-आदिवक्ष्यमाणभूत-आदि- अभिघातकाल-आदिवर्जनम्, आत्मज्ञानात् स्वशक्तिपर्यालोचनया प्रचरतो बलवत् अग्निघात- आदिपरिवर्जन-आदि व्याख्येयम्। सद्वृत्तम् इन्द्रियोपक्रमणीये वक्ष्यमाणम्। प्राक् एव् इति अनुत्पन्नेषु एव रोगेषु॥५३-५४
आप्तोपदेशप्रज्ञानं प्रतिपत्तिश्च कारणम्।विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये॥५५
पदच्छेदः -
आप्त-उपदेश-प्रज्ञानं प्रतिपत्तिः च कारणम्।विकाराणाम् अनुत्पत्तौ उत्पन्नानां च शान्तये॥५५
अन्वयः -'
विकाराणाम् अनुत्पत्तौ उत्पन्नानां च शान्तये आप्त-उपदेशप्रज्ञानं,प्रतिपत्तिः च कारणं (भवति)॥५५
सरलार्थः -
विकाराणाम् अनुत्पत्तौ तथा उत्पन्नानां विकाराणां शान्तये च आप्त-उपदेशप्रज्ञानं, प्रतिपत्तिः च कारणं भवति॥५५
आयुर्वेददीपिका-पदच्छेदः -
अथ किं हितम् इति आह- आप्त-उपदेश इत्यादि। आप्ताः ज्ञानवन्तः रागद्वेषरहिताः पुरुषाः, यद् वक्ष्यति- “रजस्-तमोभ्यां निर्मुक्ताः” (सू.अ.११) इत्यादि; प्रतिपत्तिः उपदिष्टार्थस्य सम्यक् अवबोधः; एतद् द्वयं कारणं विकाराणाम् अनुत्पत्तौ हेतुवर्जनेन, उत्पन्नानां च शान्तये कारणं तत्-चिकित्सा-अनुष्ठानेन इति अर्थः॥५५
०१...०४ ०५...२५ २६...३० ३१...३५ ३६...३८ ३९...४१ ४२...४४ ४५...५० चरकसंहितायां सूत्रस्थाने नवेगान्धारणीयाध्यायः ५६...६० ६१...६२ ६३...६६