श्रीरामकृष्णवचनामृतम्/९
दक्षिणेश्वरे भक्तैः सह 1 गुरुवासरः। श्रावणमासस्य शुद्धदशमी तिथिः। 1882तमवर्षस्य ऑगस्टमासस्य चतुर्विंशः दिनाङ्कः। साम्प्रतं श्रीरामकृष्णेन सह हाजरः, रामलालः, राखालः इत्यादयः निवसन्ति। श्रीरामलालः श्रीरामकृष्णस्य भ्रात्रीयः कालीवाड्याम् अर्चकः। प्रविष्टः मास्तरः पश्यति यत् ईशान्यदिशि प्रशस्ते अलिन्दे श्रीरामकृष्णः हाजरेण सह स्थित्वा वार्तालापं कुर्वन् अस्ति। मास्तरः श्रीरामकृष्णस्य पादपद्मं प्रणम्य उपाविशत्। श्रीरामकृष्णः स्मयमुखेन मास्तरम् अवदत्, “इतोऽपि एकद्विवारम् ईश्वरचन्द्रस्य दर्शनं भवेत् चेत् उत्तमम्। चित्रकारः आदौ रेखाचित्रं लिखति। अनन्तरं यथासमयं तस्मिन् वर्णं पूरयति। मूर्तिकारः आरम्भे आकारं निर्माति, तदनन्तरं मृद्लेपनं कृत्वा मूर्तिं निर्माति। अन्ते परिष्कृत्य वर्णं लिम्पति। एते सर्वे विषयाः अनुक्रमेण भवेयुः। विद्यासागरस्य सर्वं सिद्धं वर्तते। केवलम् आवृतमस्ति इत्येव। सः सत्कार्ये मग्नः। परन्तु अन्तः किम् आवृतं वर्तते तद् न जानाति। ज्ञाते सति सर्वकार्याणि अपाकृत्य व्याकुलः भूत्वा तं परमात्मानं आह्वयेत्”। श्रीरामकृष्णः स्थित्वा एव मास्तरेण सह वार्तालापं कुर्वन् अस्ति। मध्ये मध्ये इतस्ततः भ्रममाणः भवति। साधना – कामिनीकाञ्चनरूपझंझावातात् पारयितुम्। श्रीरामकृष्णः – (मास्तरं प्रति) अन्तः किं विद्यते इति अवगन्तुम् अल्पा साधना अपेक्ष्यते। मास्तरः – का साधना सततं कर्तव्या? श्रीरामकृष्णः – अं हं, ..आदौ किञ्चित् कटिं बद्ध्वा करणीया। अथ बहुपरिश्रमाः नावश्यकाः। यावत् उत्तुङ्गतरङ्गाः झञ्झावातः, इत्यादीनि सम्मुखीकृत्य नौका नेतव्या तावत् चालकेन दिक्दर्शिकां यष्टिं धृत्वा स्थातव्यम्। अग्रे गच्छति चेत् मार्गः रिक्तः। सर्पमार्गः अतीतः, वातः अनुकूलः चेत् चालकः विश्राम्यति। केवलं यष्टेः हस्तस्पर्शं करोति। वातपटारोहणस्य सिद्धतां कृत्वा धूमनलिकां सेवते! कामिनीकाञ्चनस्य झंझावातः उत्तीर्णः चेत् केवलं शान्तिरेव शान्तिः।
भगवान् श्रीरामकृष्णः योगरहस्यं च। योगावस्था – ‘निवातनिष्कम्पः इव प्रदीपः। योगभ्रष्टः, - योगमार्गे विघ्नाः
केषुचित् जनेषु योगलक्षणानि दृश्यन्ते। परन्तु तैः अपि सावधानैः भवितव्यम्। कामिनी काञ्चनं च योगमार्गे अन्तरायौ। साधकः योगभ्रष्टः भूत्वा पुनः संसारे पतति। बहुधा स्वल्पा वा भोगवासना अवशिष्टा वर्तते एव। अतः तस्याः शमनानन्तरं साधकः पुनः ईश्वरमार्गम् आगच्छेत्। पुनः पूर्वतनी योगावस्था लभ्येत। मीनान् धर्तुं ‘सटका’ नाम्ना किमपि बडिशं वर्तते। भवद्भिः दृष्टम् वा? मास्तरः – न महाराज, न दृष्टम्। श्रीरामकृष्णः – अस्माकं देशे तत् उपयुज्यते। वंशं वक्रीकृत्य भूमौ निखनन्ति। कोणे कीलयुतां रज्जुं बध्नन्ति। कीले आमिषं वर्तते। मीनः आमिषं मुखेन स्पृशति चेत् वंशः ‘सट्’शब्देन सरलः भवति। यथापूर्वं तस्य कोणः उपरि भवति।
“तुलायां एकस्मिन् पक्षे भारः अधिकः भवति चेत् अधस्तनी सूचिः उपरितन्या सूच्या सह न युज्यते। अधस्तनी सूचिः मनः इव। द्वयोः सम्यक् योजनम् इत्युक्ते योगः। मनः स्थिरं न भवति चेत् योगः न सिद्ध्यति। संसारवातेन मनोरूपं ज्योतिः सततं कम्पते। एतत् ज्योतिः यदि न किञ्चिदपि कम्पेत तर्हि वास्तविकीं योगावस्थां प्राप्नुयात्।
“कामिनी काञ्चनं च योगे विघ्नकरौ। सततं वस्तुविचारः करणीयः। स्त्रीशरीरे किं वर्तते? रक्तं, मासं, मेदः, आन्त्रं, कृमयः, विष्ठा, मूत्रं च इत्येव ननु! एतादृशे शरीरे एतावती आसक्तिः? “कदाचित् अहं राजसिकभावं धरामि स्म – त्यागभावं सम्यक् मनसि विधातुम्। कदाचित् मनसि विचारः आगतः यत् वास्तविकः वर्णमयः वेषः परिधर्तव्यः। अङ्गूलीयकं धरणीयम्। धूमनलिकया गुडगुडायितं करणीयम्। तदनु किमर्थं विलम्बः? सपदि रञ्जितवस्त्राणां परिधानं कृतवान्। तेन बाबुमथुरेण दत्तानि आसन्। किञ्चित् कालानन्तरं मनः अवदम्, “हे मनः, एतानि रञ्जितवस्त्राणि। अनन्तरं वस्त्राणि निष्कास्य प्रक्षिप्तानि। तेषां विषये जिहासा आगता। पुनः मनः अवदम्, “मनः, एतत् राङ्कवम्, एतत् अङ्गूलीयकम्। तथा च एतत् एव धूमनलिकया गुडगुडायनम्”। “एकवारं प्रक्षिप्तं चेत् पुनः मनसि न स्फुरितम्”। सायङ्कालः जातः। आग्नेयदिशि आलिन्दे प्रकोष्ठद्वारे श्रीरामकृष्णः मणिना ( इत्युक्ते मास्तरः। कदाचित् मास्तरः स्वोल्लेखं मणिः नाम्ना करोति।) सह एकान्ते वार्तालापं कुर्वन् आसीत्। श्रीरामकृष्णः – योगिनः मनः सततम् ईश्वरे लग्नं वर्तते। सर्वदा आत्मस्थम्। दृष्टिः कुत्रचित् वर्तते... नेत्रद्वयोः दर्शनेन ज्ञायते। यथा कुक्कुटी अण्डं सेवते। मनः सततं तत् अण्डं प्रति। उपरि दृष्टिः केवलं नाममात्रम्! अस्तु, एवं चित्रं दर्शयितुं शक्नोति किम्? मणिः – यथा आज्ञा। प्रयतिष्ये। क्वचित् लभ्यते चेत् पश्यामि। 2 गुरुशिष्यसंवादः, गुह्यकथा सायङ्कालः जातः। कालीराधाकान्तादिषु मन्दिरेषु सायंदीपाः प्रज्वालिताः। श्रीरामकृष्णः मञ्चे उपविश्य जगन्मातुः चिन्तनं कृत्वा ईश्वरस्य नामस्मरणं कुर्वन् आसीत्। प्रकोष्ठे धूपः धूमायितः। एकस्मिन् पार्श्वे दीपस्तम्भे दीपः ज्वलन् अस्ति। किञ्चित् कालानन्तरं शङ्खानां घण्टानां च वादनम् आरब्धम्। कालीमन्दिरे नीराजनं प्रवर्तते। अद्य शुक्लदशमी। सर्वत्र पिष्ठवत् शुभ्रा चन्द्रिका विराजते। नीराजनानन्तरं गतवति किञ्चित्काले श्रीरामकृष्णः पर्यङ्के उपविश्य मणिना सह एकान्ते विविधेषु विषयेषु संभाषमाणः अस्ति। मणिः पुरतः भूमौ उपविश्य शृण्वन् अस्ति। निष्कामकर्म विद्यायाः सारः च श्रीरामकृष्णः – (मणिं प्रति) निष्कामभावेन कर्म करणीयम्। ईश्वरः विद्यासागरः यानि कर्माणि करोति, तानि समीचीनानि एव, - निष्कामकर्माचरणं सः प्रयतते। मणिः – आम् महाराज। परन्तु एवं कार्यव्यापृत्वे सति परमेश्वरस्य प्राप्तिः कथं शक्येत? रामः कार्यं च युगपत् कथं संभवेत्? हिन्दीभाषायां किञ्चन चरणं विद्यते। मया पठितम् आसीत् ‘जहॉं राम तहॉं नहीं काम, जहॉं काम तहॉं नही राम’ श्रीरामकृष्णः – आम्, अनुमतम्। किन्तु कर्म कः न करोति? भगवतः नामगुणसंकीर्तनम् अपि कर्म एव। ‘सोऽहं’वादिनानाम् ‘अहं सः एव’ इति चिन्तनमपि कर्म एव। निःश्वासः अपि कर्म ननु? अतः वदामि कर्म करणीयं परन्तु फलं परमेश्वराय अर्पणीयम्। मणिः – अस्तु महाराज, परन्तु अधिकं धनं प्राप्तुम् अस्माभिः प्रयत्नाः करणीयाः किम्? श्रीरामकृष्णः – विद्यामयसंसारार्थं कर्तुम् अर्हन्ति। आयं वर्धयितुं प्रयत्नान् कुर्वन्तु, परन्तु शुचित्वेन, प्रामाणिकमार्गेण च। धनार्जनं तु जीवनस्य उद्देशः न। भगवत्सेवाकरणमेव उद्देशः। तया सम्पदा ईश्वरसेवा एव भवति तर्हि तस्यां सम्पदि न कोऽपि दोषः। कुटुम्बं, पुत्रादयः इति एतेषु कर्तव्यम् मणिः – महाराज, कुटुम्बविषये कर्तव्यं कियत्? श्रीरामकृष्णः – ते अन्नवस्त्रादि पर्याप्तं प्राप्नुयुः तावदेव। परन्तु पुत्रादयः स्वबलेन समर्थाः जाताः चेत् तेषां भारवहनं न अपेक्ष्यते। बालखगाः स्वयं धान्यकणान् विचेतुं यदा अभ्यस्ताः भवन्ति, तदा यदि भोक्तुं मातृसमीपं गच्छन्ति तर्हि तान् पक्षिण्यः चञ्च्वा ताडयित्वा अपसारयन्ति! मणिः – कर्म कदापर्यन्तं करणीयम्? श्रीरामकृष्णः – फले उत्पद्यमाने सति पुष्पं स्वाभाविकं गलति। तथैव ईश्वरलाभानन्तरं कर्म नावश्यकम् – तत् कर्तुम् इच्छापि न भवति। “आकण्ठं मद्यप्राशनानन्तरं मद्यपः भानम् अनुवर्तयितुं न शक्नोति, परन्तु द्वित्रभिः नाणकैः मद्यं स्वीकरोति चेत् कार्यं कर्तुं प्रभवति! ईश्वरं प्रति भवन्तः यावत् गच्छन्ति तावत् सः भवतां कर्म न्यूनीकुर्यात्। मा भैषीः। गर्भवत्याः स्नुषायाः कर्म श्वश्रूः क्रमेण न्यूनीकरोति। नवमासानन्तरं किमपि कर्तुं न अनुमन्यते। शिशुलाभानन्तरं तु न पृच्छन्तु, आदिनं तस्यैव कुर्वती भवति। “विद्यमानानि कार्याणि पूर्णानि भवन्ति चेत् चिन्ता नास्ति। गृहस्वामिनी पाचनपरिवेषणादि कार्याणि पूर्णानि कृत्वा स्नानार्थं गता चेत् न प्रत्यागच्छति एव। अनन्तरं तस्याः नाम्ना भवन्तः कियन्तमपि आक्रोशं कुर्वन्तु!” ईश्वरलाभः ईश्वरदर्शनं च इत्युक्ते किम्? कः उपायः? मणिः – महाराज, ईश्वरलाभः इत्युक्ते किम्? तथा च ईश्वरदर्शनं किमर्थम् उच्यते? तत् कथं लभ्येत? श्रीरामकृष्णः – वैष्णवानां मतानुसारम् ईश्वरप्राप्तिमार्गं ये अनुसरन्ति तथा च ये ईश्वरस्य दर्शनं लभन्ते तेषां केचन वर्गाः सन्ति। यथा प्रवर्तकः, साधकः, सिद्धः, तथा च सिद्धेषु सिद्धः। ये सद्यः एव मार्गं प्रविष्टाः ते प्रवर्तकाः, ये साधनं भजनं च कुर्वन्ति, पूजां, जपं, ध्यानं, नामगुणकीर्तनं च कुर्वन्ति ते साधकाः, तथा च ये स्वात्मनि परमात्मबोधं प्राप्तवन्तः ते सिद्धाः। वेदान्ते एका उपमा वर्तते। कश्चन तमोमयः प्रकोष्ठः। तस्मिन् गृहस्वामी सुप्तः। कश्चन तम् अन्विष्यति। कमपि सुखासन्दं स्पृष्ट्वा वदति ‘एषः न’। वातायनं हस्तेन स्पृष्ट्वा वदति ‘एषः न’। द्वारं स्पृष्ट्वा वदति ‘अं, हं, न. एषः अपि न’। नेति नेति.। अन्ते स्वामिनं स्पृशति तदा उच्चारयति ‘अरे प्राप्तः। एषः एव गृहस्वामी’। ‘अस्ति’ इति ज्ञातम्। स्वामी प्राप्तः। परन्तु विशेषम् अभिज्ञानं न जातम्। इतोऽपि एकः वर्गः अस्ति। ते सिद्धेषु सिद्धाः। स्वामिना सह सघनं मित्रत्वं, विशेषः संवादः च इति भिन्नः विषयः। तद्वत् भगवता सह प्रेमभक्त्या विशेषपरिचयानन्तरं काचित् भिन्ना एव अवस्था प्राप्यते। सिद्धेन अपि परमेश्वरः प्राप्तः। परन्तु यः सिद्धेषु सिद्धः – तस्य ईश्वरेण सह विशेषः परिचयः वर्तते। भगवन्तं प्राप्तुं कश्चन एकः भावः आश्रयणीयः भवति – शान्तः दास्यम्, सख्यम्, वात्स्यल्यं वा मधुरः। शान्तः – प्राचीनानाम् ऋषीणां भावः। कमपि वैश्विकभोगं भोक्तुं तेषां वासना नासीत्। यथा पतिविषये सतीनिष्ठा। मम पतिदेवः एव मदनमूर्तिः इति सा मन्यते। दास्यभावः - यथा हनुमतः। रामकार्यं चेत् तत् कर्तुं सिंहवत् भावः। सत्यामपि दास्यभावः वर्तते। प्राणादपि सा पतिसेवां करोति। मातरि अपि सः स्वल्पः वा अस्ति। यशोदामातरि सः आसीत्। सख्यभावः – यथा मित्रप्रेम। ‘आगच्छतु ,मम समीपे उपविश’। सुदामादि मित्राणि कृष्णाय कदाचित् उच्छिष्टानि फलानि भोजयन्ति स्म, कदाचित् तस्य शरीरे आरोहन्ति स्म। वात्सल्यम् – यथा यशोदायाः। स्वल्पांशेन पत्न्यामपि वर्तते। प्रयत्नानां पराकाष्ठां कृत्वा सा पत्युः कृते पाचनं करोति। पुत्रः आकण्ठं भुङ्क्ते तदा एव मातुः पञ्चप्राणाः शान्ताः भवन्ति। कान्हा नवनीतं खादेत् इति मत्वा नन्दराणी तम् अनुधावति स्म। मधुरभावः – यथा राधाराण्याः। पत्न्याः अपि मधुरभावः। अस्मिन् भावे सर्वे भावाः समाविष्टाः। शान्तः दास्यम् सख्यम् वात्सल्यम् इत्यादयः सर्वे। मणिः - ईश्वरदर्शनं किम् एताभ्यां चर्मनेत्राभ्यामेव भवति? श्रीरामकृष्णः – तम् एताभ्याम् नेत्राभ्यां द्रष्टुं न शक्नुयुः। साधनां कारं कारं काचित् प्रेममयी काया भवति। तस्याः प्रेमनेत्रे प्रेमकर्णौ च। ताभ्यां नेत्राभ्यां सः दृश्यते। ताभ्यां कर्णाभ्यां सः श्रूयते। एतावत् एव न, अपि तु प्रेमलिङ्गं प्रेमयोनिः च उद्भवतः”। इदं श्रुत्वा मणिः उच्चैः अहसत्। यत्किञ्चिदपि रुष्टः न भूत्वा श्रीरामकृष्णः अग्रे अभाषत, “अस्मिन् शरीरे आत्मना सह रममाणः वर्तते। मणिः पुनः गभीरः जातः। श्रीरामकृष्णः – ईश्वरे यदि भृशं प्रेम न संलगति तर्हि किमपि न भवितुमर्हति। प्रगाढः अनुरागः उत्पद्यते तदा एव सर्वत्र ईश्वरमयं दृश्येत ननु। प्रचुरमात्रं पीतरोगः भवति तदा तु सर्वत्र पीतं दृश्येत। तदा ‘सः(ईश्वरः) एव अहम्’ इति बोधः भवति। चषकानुचषकाणां प्राशनानन्तरं पूर्णः भानरहितः मद्यपः जल्पति ‘अहमेव काली’। प्रेमोन्मत्ताः गोपबालिकाः वदन्ति ‘अहमेव कृष्णः’। तस्यैव अनिशं चिन्तनेन सः सर्वत्र दृश्यते। दीपज्योतिः सततं निरीक्षामहे चेत् किञ्चित् कालात् सर्वत्र ज्योतिः एव ज्योतिः दृश्यते। ईश्वरदर्शनं किं मतिभ्रमः? ‘संशयात्मा विनश्यति’ मणिः स्वगतं वदति, परन्तु तानि ज्योतींषि वास्तविकानि न। अन्तर्दर्शी श्रीरामकृष्णः वदति, “चैतन्यस्य चिन्तनेन यदि कस्यचित् किमपि भवति चेत् अचेतनं न भवितुमर्हति। कदाचित् शिवनाथः उक्तवान् यत्सततम् ईश्वरचिन्तनेन मतिभ्रमः भवेत्, तदा अहं तम् अपृच्छम्, “चैतन्यचिन्तनेन कोऽपि कदाचित् अचेतनः जातः किम्?” मणिः – हं, अवगतं महाराज, इदं तु कस्यापि अनित्यविषयस्य चिन्तनं नास्ति। यः नित्यः, चैतन्यस्वरूपः, - तस्मिन् मनः दृढीभवति चेत् मनुष्यः कथम् अचेतनः भवेत्? श्रीरामकृष्णः – (प्रसन्नतया) तस्यैव कृपा एषा। सः यदि कृपां न कुर्यात् तर्हि कथमपि संशयनिवृत्तिः न भवितुमर्हति। “आत्मसाक्षात्कारं विना शंकाकुशंकानां नर्तनं न स्थगति। “एकदा तस्य कृपा भवति चेत् किमपि भयं न। “पितुः हस्तं धृत्वा यदि बालकः चलति तर्हि सः पतितुं शक्नोति। परन्तु बालकस्य हस्तं पिता धरति चेत् किमपि भयं नास्ति। सः एव दयां कृत्वा संशयान् निरस्य दर्शनं ददाति तर्हि किमपि दुःखं न भवति। तथापि तस्य प्राप्त्यर्थम् अतीव व्याकुलता अपेक्ष्यते। आर्ततया सः प्रार्थितः सततं साधना कृता तर्हि एव सः कृपां करोति। शिशुम् अन्वेष्टुं बहु प्रयतते, सः धावति इति दृष्ट्वा माता बहिः आगत्य शिशुं स्वीकरोति”। मणिः चिन्तयति यत् तदनु एतत् धावनं सः किमर्थं कारयति। सपदि श्रीरामकृष्णः वदति, “तस्यैव इच्छा यत् किञ्चित् कालं धावनं कुर्यात्। तेन एव विनोदः। तस्य एव एषा सर्वा लीला। लीलया एषः सर्वः विस्तारः रचितः। तस्य एव नाम महामाया। अतः तां शक्तिरूपिणीं मायां शरणं गन्तव्यम्। मायापाशैः निगृहीताः वयम्। मायापाशान् छित्त्वा एव ईश्वरं द्रष्टुं शक्यते”। आद्या शक्तिः महामाया शक्तिसाधना च
श्रीरामकृष्णः – ईश्वरस्य कृपां संपादयितुम् आद्याशक्तिरूपिणी प्रसन्ना करणीया। सा एव महामाया। स्वशक्त्या जगत् मोहयित्वा सृष्टिस्थितिप्रलयानां क्रियाकलापं सा करोति। तया एव सर्वे अज्ञाने मुग्धाः कृता। सा महामाया यदि मार्गं ददाति तर्हि अन्तः गन्तुं शक्यते। बहिः एव सा अवरुणद्धि, तर्हि बाह्यदर्शनम् एव भवेत्। तम् आनन्दमयं सनातनं पुरुषं ज्ञातुमेव न शक्नुमः। अतः पुराणेषु उक्तमस्ति यत् मधुकैटभयोः निर्दलनं कर्तुं ब्रह्मादिकैः देवैः महामाया प्रार्थिता। सप्तशतीग्रन्थे सा कथा वर्तते।
शक्तिः एव सर्वजगतः मूलाधारः। तस्याम् आद्याशक्त्यां विद्या अविद्या द्वे अपि स्तः। अविद्या मोहयति। सर्वं जगत् याभ्यां मोहितं तयोः कामिनीकाञ्चनयोः उत्पत्तिः एतस्याः अविद्यायाः एव। विद्या – या भक्तिः, दया, ज्ञानं, प्रेम इत्यादीन् जनयति सा। एषा जीवान् ईश्वरं प्रति नयति। एषा अविद्या प्रसन्ना कारणीया। अतः शक्तिपूजापद्धतिः। तां प्रसन्नां कर्तुं विविधैः भावैः तस्याः पूजा क्रियते। - दासीभावः, सखीभावः, वीरभावः च। वीरभावः इत्युक्ते संभोगद्वारा सा प्रसन्ना करणीया। शक्तिसाधना सर्वाः अति दुष्कराः। सरलं कार्यं न। जगन्मातुः दासीभावे तथा च सखीभावे अहं वर्षद्वयं यापितवान्। परन्तु मम तु सन्ततिभावः. नारीस्तनं मम कृते मातृस्तनसमानम्. प्रत्येकं स्त्री शक्तेः एकैकं रूपम्। पश्चिमदिशि विवाहसमये वरस्य हस्ते छुरिका वर्तते। वङ्गदेशे पूगीफलकर्त्तरी। तेन सूचितम् अस्ति यत् एतया कन्यायाः साहाय्येन वरः मायापाशच्छेदनं कुर्यात्। एषः वीरभावः। अहं वीरभावेन साधनां न कृतवान्। मम तु सन्ततिभावः। वधूः शक्तिस्वरूपिणी। विवाहसमये न दृष्टं किम्? वरः मूर्खः मन्दः इव, पृष्ठतः भवति, परन्तु वधूः तु निश्शङ्का। ईश्वरलाभः तथा च ऐहिकज्ञानं वा अपरा विद्या ईश्वरलाभानन्तरं भक्तः ईश्वरस्य बाह्यं ऐश्वर्यं जागतिकं वैभवं पूर्णतः विस्मरति। तं दृष्ट्वा तस्य ऐश्वर्यस्य विस्मरणं भवति। एकवारं ब्रह्मानन्दे तल्लीनता प्राप्ता चेत् बाह्य वस्तूनां गणनां कर्तुं कस्य समयः वर्तते! नरेन्द्रे दृष्टे सति ‘तव नाम किं? कुत्र निवसति? गृहं कुत्र?’ इत्यादीनां पृच्छा न अपेक्ष्यते एव। प्रष्टुं अवधिः तु आवश्यकः ननु? हनुमन्तं कश्चन पृष्टवान्, “अद्य का तिथिः?” हनुमान् उदतरत्, “तात, तिथिं वासरं नक्षत्रं इति द्रष्टुं वृथा व्यापारं अहं न करोमि। केवलं राममेव अहं जानामि। तमेव सदा चिन्तयामि”।