श्रीरामकृष्णवचनामृतम्

भगवतः श्रीरामकृष्णस्य लीलासहधर्मिणी परमाराध्या माता श्रीसारदादेवी ‘श्रीरामकृष्णकथामृत’स्य संकलकं श्रीगुप्तमहेन्द्रनाथं तथा श्री’म’महोदयं श्रीरामकृष्णकथामृतविषये एतानि वचनानि लिखितवती

“तस्मात् ( श्रीरामकृष्णात् ) भवान् यत् श्रुतवान् तत् सत्यमेव अस्ति। ततः भवतः किमपि भयं न विद्यते। कस्मिञ्चित् समये सः एव भवतः समीपे एतान् विषयान् उपस्थापितवान्। अधुना आवश्यकतानुरूपं सः एव तान् प्रकटीकुर्वन् अस्ति। एते सर्वे विषयाः व्यक्ताः न कृताः चेत् जनचैतन्यं न जागृयात् इति अवगच्छतु। भवतः समीपे तस्य ये विषयाः सन्ति ते सर्वे सत्याः एव। कदाचित् भवतः मुखात् श्रुण्वती अहम् अमन्ये यत् सः एव एतान् सर्वान् विषयान् वदन् अस्ति”।