श्रीरामकृष्णवचनामृतम्/२
द्वितीयदर्शनं गुरुशिष्यसंवादः च अखण्डमण्डलाकारं व्याप्तं येन चराचरम्। तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः।। श्रीदर्शनस्य द्वितीयः प्रसङ्गः।( फेब्रुवारी 27, सोमवासरः) उषःकालः। प्रायः अष्टवादनं स्यात्। श्रीरामकृष्णः तदा श्मश्रुकर्तनार्थं सिद्धतां कुर्वन् आसीत्। शैत्यं तु स्वल्पम् आसीत् एव। अतः तेन शरीरं केनापि रक्ततटोष्णप्रावारकेण आच्छादितम् आसीत्। मास्तरं दृष्ट्वा सः अवदत्, “ आगतः? बाढम्! आगच्छतु। उपविश्यताम् अत्र”। इदं संभाषणं श्रीरामकृष्णस्य प्रकोष्ठे आग्नेयदीर्घिकायां प्रचलत् आसीत्। नापितः आगतः आसीत्। तत्रैव सः श्मश्रुकर्तनार्थम् उपाविशत्। मध्ये मध्ये मास्तरेण सह वार्तालापं कुर्वन् आसीत्। अङ्गे उपरि उल्लिखितम् उष्णं प्रावारकं, पादयोः ‘चढावा’ इति आख्ये पादरक्षे, मुखे निरागसं हास्यं, भाषणं किञ्चित् स्खलत्... श्रीरामकृष्णः – (मास्तरं) अस्तु, किं भोः, भवतः गृहं कुत्र? मास्तरः – कलकत्तानगरे, महाराज। श्रीरामकृष्णः – अत्र कस्य गृहम् आगतः? मास्तरः – अत्र वराहवगरे अग्रजायाः गृहं.... कविराज-ईशानस्य गृहमागतोस्मि। श्रीरामकृष्णः – ओहो, ईशानस्य गृहं… अस्तु। श्रीसेनकेशवचन्द्रस्य श्रीरामकृष्णस्य च जगन्मातुः पादतले क्रन्दनम्। श्रीरामकृष्णः – किं भोः, केशवः कथमस्ति अधुना? अतीव रुग्णः आसीत् सः। मास्तरः – आम्। मया अपि तथा श्रुतम्। अहं मन्ये, अधुना सः स्वस्थः स्यात्। श्रीरामकृष्णः – अत्र अहं तस्य स्वास्थाय मात्रे गुडनारिकेलं प्रतिश्रुतवान्। उत्तररात्रौ निद्राभङ्गः भवति स्म। अहं मातुः समीपे रोदिमि स्म। वदामि स्म यत्, “मातः, केशवं तु सम्यक् करोतु। केशवात् ऋते कलकत्तानगरे अहं केन सह वार्तालापं करोमि?” अतः एव गुडनारिकेलं प्रतिश्रुतवान्। “अस्तु, किं भोः, कुकमहोदयः इति कश्चन आगतः अस्ति ननु? सः व्याख्यानं करोति इति श्रुतम्। यदा केशवः मां नौकां नीतवान् तदा भवदीयः सः कुकमहोदयः अपि आसीत्”। मास्तरः – आम्, महाराज,। तथा श्रुतमस्ति। परं तस्य व्याख्यानं मया न श्रुतम् अद्ययावत्। तत्सम्बद्धां इतोऽपि विशिष्टां वार्ताम् अहं न जानामि”। गृहस्थस्य पितुः च कर्तव्यम्। श्रीरामकृष्णः – प्रतापस्य भ्राता आगतः आसीत्। बहूनि दिनानि अत्र न्यवसत्। न कार्यम्, न वा उद्योगः। निरुद्योगः, कार्यरहितः च। ‘अहम् अत्रैव वसामि’ इति वदति स्म। दारपुत्रादयः श्वश्रुगृहे स्थापिताः। अस्तु, पुत्राणां संख्या अपि न अल्पा। अहं सम्यक् तर्जितवान्। पश्यन्तु, पुत्रादयः स्वस्यैव, तर्हि तेषाम् निभालनं ग्रामस्थैः करणीयं किम्? स्वदारपुत्राणां पालनं अन्यः कश्चित् करोति, एषः तान् श्वशुरगृहे संस्थाप्य मुक्तः च, इत्यस्मिन् विषये लज्जा अपि नास्ति। बहु तर्जितवान्, कामपि वृत्तिम् अन्वेष्टुं सूचितवान् च। तदा एषः महाराजः इतः पलायितः। पश्यन्तु”। 2 अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः।। मास्तरस्य तर्जनम् अहङ्कारनिर्मूलनं च। श्रीरामकृष्णः – भवतः विवाहः जातः किम्? मास्तरः – आम्, महाराज। श्रीरामकृष्णः – ( रोमाञ्चितः) हा हन्त, हन्त, हे रामलाल, एषः विवाहितः रे। श्री. रामलालः श्रीरामकृष्णस्य भ्रात्रीयः कालीवाड्याम् अर्चकः च। कश्चित् महान् अपराधी इव अधोमुखः मास्तरः एकमपि शब्दम् अनुच्चार्य स्तब्धः उपविष्टः आसीत्। मनसा चिन्तितवान् यद् विवाहकरणम् एतादृशम् असाधु किम्? श्रीरामकृष्णः पुनः अपृच्छत्, “अस्तु, तत् भवतु नाम। पुत्रादयः अपि जाताः किम्? मास्तरस्य वक्षः धडधडायितम्। भीतभीतः सः मन्दमब्रवीत्, “आम्, महाराज। पुत्रादयः सन्ति मम”। श्रीरामकृष्णः दुःखविषादपूर्णैः स्वरैः प्रत्यवदत्, “च्....च्! पुत्रादयः अपि जाताः”। एतेन खिन्नः मास्तरः तूष्णीं स्थितवान्। तस्य अहंकारः चूर्णीभूतः। स्वल्पेन समयेन तं कृपया पश्यन् अतीव प्रेमपूर्णेन आत्मीयतापूर्णेन च स्वरेण श्रीरामकृष्णः अवदत्, “पश्यतु, भवति कानिचित् साधुलक्षणानि पश्यामि अहम्। मनुष्यस्य भालं, नेत्रे चेत्यादि दृष्ट्वा अहं ज्ञातुं शक्नोमि। भवतु, तत् अस्तु नाम। भवतः भार्यायाः स्वभावः कथमस्ति? विद्याशक्तिः वा अविद्याशक्तिः?” ज्ञानं किम्? मास्तरः – तथा स्वभावः शोभनः, परम् सा अज्ञा एव। श्रीरामकृष्णः – (तिरस्कारेण) तन्नाम भवान् तु ज्ञानी! इत्येव ननु? ‘ज्ञानं किम्, अज्ञानं किम् च’ इति मास्तरः अद्यावधिः न जानाति स्म। लेखनपठनं जानाति तथा च पुस्तकानि पठितानि चेत् ज्ञानी भवति इत्येव सः अमन्यत। एषः तस्य भ्रमः अग्रे अपगतः। अनन्तरं सः ज्ञातवान् यत् ईश्वरज्ञानमेव ज्ञानम्। तं न जानीमः चेत् अज्ञानम्। अतः यदा श्रीरामकृष्णः ‘भवान् तु ज्ञानी’ इति तम् अवदत् तदा तस्य अहंकारेण पुनः कश्चन बलपूर्णः आघातः अनुभूतः।
मूर्तिपूजा
श्रीरामकृष्णः – अस्तु, भवतः साकारे विश्वासः उत निराकारे? मास्तरः सम्भ्रान्तः आत्मनि विचारमग्नः जातः। - ‘ साकारे विश्वस्य निराकारे अपि विश्वासः शक्यः वा? ‘ईश्वरः निराकारः’ इति विश्वासः वर्तते चेत् पुनः ‘सः साकारः अपि अस्ति’ इति विश्वासः कथं शक्यः? परस्परविरोधिनौ विषयौ यथार्थौ कथं भवितुमर्हतः? क्षीरं श्वेतं, पुनः तदेव च कृष्णं कथं भवितुमर्हति?’ मास्तरः – विश्वासः वा? निराकारे एव मम विश्वासः। सः एव मह्यं रोचते। श्रीरामकृष्णः – बहु उत्तमम्। कस्मिन्नपि एकस्मिन् विषये विश्वासः भवेत् चेत् पर्याप्तम्। निराकारे भवतः विश्वासः इति अतीव साधु। परं भवतः मतम् एव सत्यम्, अन्यत् सर्वं मिथ्या इति न मन्यताम्। दृढम् अवधार्यताम् यत् निराकारः सत्यः, साकारः अपि सत्यः। यस्मिन् विश्वसिति तदेव दृढं धरतु, तत् साधु। द्वावपि विषयौ यथोर्थौ इति श्रुत्वा मास्तरः स्तब्धः जातः। तस्य ग्रान्थिकज्ञानस्य भाण्डारे ईदृशं वस्तु अद्यापि न प्राप्तम्। त्रीन् आघातान् प्राप्य तस्य अहंकारः अधुना चूर्णसात् जातः आसीत्। तथापि स्वल्पः अवशिष्टः आसीत् एव। पूर्णतः न अपगतः। अतः पुनः सः वादार्थं सिद्धः जातः। मास्तरः – महाराज, ईश्वरः साकारः इति कश्चन विश्वसिति चेदपि मृण्मूर्तिः तु सः न, किल? श्रीरामकृष्णः – किमेतत्? मृण्मयी किमर्थं भोः! चिन्मयी प्रतिमा। प्रतिमायाः चिन्मयत्वेन मास्तरेण न किमपि अवबुद्धम् । सः अवदत्, “अङ्गीकृतम्। परं ये वस्तुतः मृण्मूर्तिं पूजयन्ति ते तु न्यूनातिन्यूनं बोधनीयाः यत् मृण्मूर्तिः ईश्वरः न, इति उचितं खलु। तथैव प्रतिमाम् उद्दिश्य ईश्वरं पूजयन्तु। मृत्तिकायाः पूजा अयोग्या खलु”। व्याख्यानं श्रीरामकृष्णः च श्रीरामकृष्णः – (तिरस्कारेण) भवतां कलकत्ताजनानां मस्तिष्कम् इदं किं प्रविष्टं न जाने। एकमेव पुनःपुनः... सदा व्याख्यानं (बोधनीयम्) च। आत्मानं कः बोधयेत् इति न जानन्ति। आदौ स्वकार्यं पश्यन्तु। ‘बोधनम् अपेक्ष्यते’ किल! बोधकाः भवन्तः के? एतत् विश्वं यस्य सः एव बोधयेत्। येन इदं जगत् निर्मितं – चन्द्रमसः, सूर्याः, ऋतवः, मनुष्याः जीवाः जन्तवः, च एतस्य सृष्टस्य प्राणिमात्रस्य उदरनिर्वाहस्य व्यवस्था कृता, सस्यनिर्माणार्थं वृष्टिः आरब्धा, शिशूनां लालनपालनार्थं पितरौ निर्मितौ, तयोः हृदये दया प्रेम च संचारिते, सः एव आवश्यकं चेत् बोधयेत् अपि। एतावन्तः उपायाः येन योजिताः, सः किम् एतत् अपि न कुर्यात्? वस्तुतः बोधनम् अपेक्षितं चेत् सः बोधयेत्। भवतः किमर्थं आटोपः? भगवान् अन्तर्यामी वर्तते। सः अन्तरङ्गं जानाति। मृण्मूर्तिपूजने प्रमादः भवति चेत् सः किं तं न जानाति? भक्तः प्रमादं कुर्यात्, पूजा तु आत्मऩः एव भवति। अनया पूजया अपि सः सन्तुष्टः एव भवति। वृथा व्यापारस्य भवतः का आवश्यकता? येन स्वात्मनि वास्तवं ज्ञानं भक्तिः च जागृयात् तदर्थं प्रयतताम्। अधुना तु मास्तरस्य अहंकारः पूर्णतया भस्मीभूतः। सः स्वयं चिन्तितवान्,“सत्यम्, एषः यत् वदति तत् न अनृतम्। अन्यस्मै उपदेशस्य मम का आवश्यकता? न मया ईश्वरः ज्ञातः, न वा मम हृदये विशुद्धा ईश्वरभक्तिः उदिता। भिक्षुकेण भिक्षुकस्य याच्ञा। धर्मविषये ज्ञानं तु आमलकपरिमितम्, परम् अन्यान् शिक्षयितुमिच्छामि। कियत् लज्जास्पदं बालिशं वर्तनं ननु! इदं किं गणितं, इतिहासः साहित्यं वा, यदा कदापि यं कमपि पाठनार्थम्? इदम् अध्यात्मशास्त्रम्। स्वानुभवेन एव लभ्यते। एषः यत् वदति तत् मनः सम्यक् अङ्गीकरोति। श्रीरामकृष्णेन सह मास्तरस्य एषः प्रथमः तथा च अन्तिमः अपि वादः। श्रीरामकृष्णः – भवान् मृण्मूर्तेः पूजाविषये वदन् आसीत्। अहं वदामि, भवेत् मृदः पूजा। तस्याः अपि प्रयोजनं वर्तते। भिन्नभिन्नपूजानाम् आयोजनं साक्षात् भगवता एव कृतम्। एतस्य विश्वब्रह्माण्डस्य यः अधिनायकः, तेन एव अधिकारभेदानुसारम् इदं सर्वं रचितम्। यस्य यथा अधिकारः तस्य तथा व्यवस्था। यस्य प्रकृतेः कृते यत् अनुकूलं सह्यं च तथा व्यवस्थां तस्य कृते माता करोति। चिन्तयन्तु, काचित् पञ्चपुत्राणां माता। गृहे आलुकाः आनीताः। सा विभिन्नानि शाकानि उपसेचनानि च पचति। यस्य उदरं यत् सहते तत् तस्य कृते । कस्यचित् कृते रस्यं शाकम्, अपरस्य कृते शुष्कं शाकम्। कस्यचित् केवलं क्वथिताः आलुकाः, तु कस्यचित् सामान्यम् उपसेचनम्। यस्मै यत् रोचते, यस्य यत् जीर्यते च तत् तस्य कृते, अवगतम् ननु? मास्तरः – आम्, महाराज। 3 संसारार्णवघोरे यः कर्णघारस्वरूपकः। नमोऽस्तु रामकृष्णाय तस्मै श्रीगुरवे नमः।। भक्तिलाभाय उपायः। मास्तरः – चित्तम् ईश्वरे कथं लगेत्? श्रीरामकृष्णः – सर्वदा नामस्मरणं तस्य गुणसंकीर्तनं च करणीयम्। अपि च सत्संगः। भगवत्भक्तानां सत्पुरुषाणां च समीपे कालान्तरेण गन्तव्यम्। यदि अहोरात्रं संसारे व्यापृतः सर्वदा विषयेषु रतः च तर्हि मनः ईश्वरे न लगति। अतः कालान्तरेण एकान्तं सेवित्वा तस्य चिन्तनं करणीयमिति अत्यन्तमावश्यकम्। आरम्भे तु मध्ये मध्ये एकान्तवासं विना ईश्वरे मनः स्थिरं करणीयं बहु कठिनम्। आरम्भे वृक्षाय कृत्तिः आवश्यकी। अन्यथा गावः तं कदापि खादन्ति खलु! ध्यानं मनसि कोणे वने च करणीयम् तथा च सदा सदसद्विवेकः करणीयः। एकः ईश्वरः एव सत् इत्युक्ते नित्यवस्तु, अन्यत् सर्वम् असत् इत्युक्ते अनित्यम्। पुनः पुनः एतादृशं चिन्तनं कृत्वा अनित्यविषयाः मनसः निष्कासनीयाः। मास्तरः – ( नम्रतया) संसारे कथं स्थातव्यम्? गृहस्थः संन्यासः च। उपायः – विविक्तदेशे साधना श्रीरामकृष्णः – “स्वकर्तव्यं पूर्णं करणीयम्, परं मनः भगवच्चरणौ संस्थाप्य। मातापितरौ, दारपुत्रादयः च इति एतान् आत्मना सह नेतव्यम्। ते सेवनीयाः। बहु आत्मीयतया तैः सह वर्तनीयं, परं मनसि दृढं भवेत् यत् ते न स्वकीयाः। “श्रीमतां गृहे दासी वर्तते। स्वामिनः सर्वाणि कार्याणि करोति। परं तस्याः चित्तं ग्रामे स्वगृहे आसक्तं भवति। स्वामिनः कन्यापुत्रान् आत्मीयतया निभालयति। ‘मम प्रियः, मम कान्हा” इति उक्त्वा लालयति, परं मनसि सम्यक् जानाति यत् तेषां तस्याः यत्किञ्चिदपि सम्बन्धः नास्ति। “भक्ष्यार्थं कच्छपी जले सर्वत्र अटति, परं तस्याः चेतः तटे स्थापितेषु तस्याः अण्डेषु वर्तते। संसारे सर्वाणि कार्याणि करणीयानि, परं चेतः ईश्वरचरणौ भवेत्। “ईश्वरभक्तिं विना गार्हस्थ्यं करोति चेत् अधिकः निगृहितः भविष्यति। संङ्कटानाम् आवेगेन पीडितः भविष्यति। शोक-दुःखानां वर्षावेण धैर्यं नश्येत्। विषयचिन्तने यावत् रमते तावती आसक्तिः अत्र अपि वर्धेत। “आदौ हस्ताभ्यां तैलं संयुज्य अनन्तरं पनसं कर्तयतु। अन्यथा अङ्गरसः(चीक) हस्तयोः श्लिष्येत्। ईश्वरप्रेम्णः तैलं संयुज्य अनन्तरं गार्हस्थ्यकार्यम् आरभताम्। “परन्तु एतां भक्तिं लब्धुम् एकान्तवासः आवश्यकः। नवनीतम् अपेक्ष्यते चेत् स्थिरतया दुग्धे आतञ्चनं योजनीयं भवति। दुग्धं सततं आन्दोलितं चेत् सम्यक् दधि न लभ्यते। अनन्तरं सर्वाणि कार्याणि अपाकृत्य एकस्मिन् पार्श्वे उपविश्य दध्यान्दोलनं करणीयं भवति। तदा एव सम्यक् नवनीतं हस्तम् आयाति। पश्यतु, विविक्तदेशे एकाग्रमनसा कृतेन ईश्वरध्यानेन मनसि ज्ञानं वैराग्यं भक्तिं च उदेति। “परं संसारगर्ते एव निहितं भवति चेत् मनः अधमं भवति। संसारे केवलम् एकमेव चिन्तनम् – कामिनि-काञ्चनम्। “संसारः जलम् इव, मनः दुग्धमिव। जलेन मिलति चेत् दुग्धं जलेन सह एकरसं भवति। अनन्तरं शुद्धं दुग्धं प्रयत्नेन अपि न लभ्येत। परं तस्य एव दुग्धस्य दधि कृत्वा ततः प्राप्तं नवनीतं जलेन न मिलति, तरङ्गायते च। अतः निर्जने स्थाने साधनां कृत्वा आदौ ज्ञानभक्तिरूपं नवनीतं प्राप्तव्यम्। अथ तत् नवनीतं संसारजले त्यजामः चेत् तेन न मिलेत्, तरेत् एव। “एतेन सह विवेकः अपि आवश्यकः। कामिनिकाञ्चने अनित्ये। ईश्वरः एकमात्रं नित्यवस्तु। धनेन अधिकाधिकं किं लभ्यते? भोज्यव्यञ्जनानि, नववस्त्राणि, भवनम् ... पर्याप्तम् एतदेव नु? धनेन परमेश्वरः न लभ्यते। अतः धनम् आयुषः ध्येयं भवितुं न अर्हति। एषः एव विवेकः। अवगतम्?” मास्तरः – सद्यः एव मया ‘प्रबोधचन्द्रोदयः’ नाम नाटकं पठितम्। तस्मिन् वर्तते एषः वस्तुविचारः। श्रीरामकृष्णः – हम्..। वस्तुविचारः। इदं पश्यतु किल। धने किं वर्तते, सुन्दरे शरीरे अपि तु किम्? चिन्तयतु, सुन्दर्याः युवत्याः शरीरे अपि केवलं अस्थीनि, मांसं, मेदः, मलः, मूत्रं च पूरितम् अस्ति। अतः भगवन्तं विहाय किमर्थम् एतादृशाणि वस्तूनि धातव्यानि? किमर्थं तं दयाघनं विस्मरेम? ईश्वरदर्शनस्य उपायः मास्तरः - ईश्वरस्य दर्शनं भवितुमर्हति किम् ननु? श्रीरामकृष्णः – अस्मिन् कः संशयः? अवश्यम्.. अवश्यं भवितुमर्हति। तदर्थं मध्ये मध्ये एकान्तसेवनं, तस्य नामगुणगानं, नित्यानित्यवस्तुविवेकः च इति एतेषाम् उपायानाम् अवलम्बः करणीयः। मास्तरः - कस्याम् अवस्थायां तस्य दर्शनं भवति? श्रीरामकृष्णः – बहु आकुलः भूत्वा रोदिति चेत् तस्य दर्शनं भवितुमर्हति। दारपुत्राणां कृते जनाः रुदन्ति। कुम्भकुम्भ परिमितम् अश्रूणि स्त्रावयन्ति। धनार्थम् आक्रन्द्य नेत्रे शोथः आयाति। परम् ईश्वराय कः रोदिति? तम् आर्ततया आह्वयतु। इति उक्त्वा श्रीरामकृष्णः गीतगायनम् आरब्धवान्। तस्य आशयः आसीत्... ‘हे मनः, नितराम् अन्तःकरणतः आर्ततया श्यामामातरम् आह्वयतु। पश्य, सा दर्शनदानं विना कथं स्थातुं शक्नोति? कदापि सा स्थातुं न शक्नुयात्। हे मनः, तस्याः दर्शनस्य यथार्था सिषाधयिषा वर्तते चेत् जपाकुसुमं बिल्वदलं च अञ्जुल्यां स्वीकृत्य भक्तिचंदनं लेपयित्वा तस्याः चरणाभ्यां रसमर्पयतु। ‘आकुलता आयाति चेत् अरुणोदयः जातः इति जानातु। तदनन्तरं शीघ्रमेव सूर्यः उदेत्। व्याकुलतायाः उत्पन्ने सति दर्शनस्य विलम्बः न। ‘तिस्त्रः आकर्षणशक्त्यः एकत्रम् आगच्छन्ति चेत् ईश्वरः दर्शनं ददाति - विषयीजनस्य विषयाकर्षणं, मातुः पुत्रस्य आकर्षणं, तथा च सत्याः पत्युः आकर्षणम्। एताः तिस्त्रः आकर्षणशक्त्यः केनचित् युगपत् लभ्यन्ते चेत् तेन ईश्वरदर्शनं शक्यम्। सारांशः ईश्वरे प्रेम अपेक्ष्यते। माता यथा पुत्रे, सती यथा पतौ, विषयी यथा विषये च प्रेम करोति तथैव ईश्वरे प्रेम करणीयम्। एतेषां त्रयाणां प्रेम - आकर्षणम् एकत्रीकृत्य यावत् आकर्षणं भवति, तावत् यदि आकर्षणं ईश्वरविषये वर्तते तर्हि अवश्यम् अवश्यं तेन मेलनं भवेत्। ‘व्याकुलत्वेन भूत्वा तस्य आव्हानं करणीयम्। बिडालीशावकः केवलं ‘मॅंव मॅंव’ इति आह्वयति। केवलं मातुः आव्हानं सः जानाति। परं यत्र माता स्थापयति तत्र तिष्ठति। क्वचित् पाकगृहे, क्वचित् भूमौ, वा क्वचित् पर्यङ्के सा स्थापयति, एषः तिष्ठति। क्लेशः भवति तर्हि ‘मॅंव मॅंव’ इति आह्वयति। अन्यत् किमपि सः न जानाति। तस्य माता अपि कुत्रापि भवेत् तस्य ध्वनिश्रवणमात्रेण तत्कालम् आयाति’।