श्रीरामकृष्णवचनामृतम्/१०
दक्षिणेश्वरे नरेन्द्रादिभिः अन्तरङ्गभक्तैः सह 1 श्रीमुखकथितम् आत्मचितामृतम्। श्रीरामकृष्णस्य प्रथमप्रेमोन्मादावस्था अद्य श्रीरामकृष्णस्य आनन्दस्य सीमा नास्ति। तस्य प्रियः नरेन्द्रनाथः अद्य कालीवाडीम् आगतः। इतोऽपि केचन अन्तरङ्गभक्ताः अपि उपस्थिताः। नरेन्द्रः तत्रैव स्नात्वा प्रसादं भुक्तवान्। आश्विनमासे शुक्लपक्षस्य चतुर्थी तिथिः। 1882तमवर्षस्य ऑक्टोबरमासस्य 16 दिनाङ्कः। सोमवासरः। आगम्यमाने गुरुवासरे सप्तमीतिथिः श्रीदुर्गापूजा। श्रीरामकृष्णस्य समीपे राखालः, रामलालः,हाजना च वर्तन्ते। नरेन्द्रनाथेन सह इतोऽपि एकद्वौ ब्राह्मसमाजबालकौ आगतौ। अद्य मास्तरः अपि उपस्थितः अस्ति। नरेन्द्रः श्रीरामकृष्णेन सह भोजनं कृतवान्। भोजनानन्तरं श्रीरामकृष्णः स्वप्रकोष्ठे एव भूमौ शय्यां प्रसारयितुं सूचितवान्। नरेन्द्रादयः भक्ताः - विशेषतः नरेन्द्रः - किञ्चित् वामकुक्षीं कुर्युः इति मत्वा कटे ऊर्णाच्छादानं प्रसार्य तस्योपरि उपाधानानि स्थापितानि सन्ति। बालकवत् श्रीरामकृष्णः नरेन्द्रस्य पार्श्वे उपविष्टवान्। भक्तैः सह -विशेषतः नरेन्द्रनाथेन - सह तान् सम्मुखीकृत्य स्मयमुखेन वार्तालापम् आरब्धवान्। अद्य सः आनन्देन परिपूर्णः। कथाप्रवाहे स्वावस्थां स्वचरित्रं सः कथयन् अस्ति। श्रीरामकृष्णः – (नरेन्द्रादीन् उद्दीश्य) यदा अहम् एनां समाध्यवस्थां प्राप्तवान् तदा ईश्वरकथाः श्रोतुं जीवः अतीव व्याकुलः भवति स्म। भागवतम्, अध्यात्मरामायणं, महाभारतं च क्व कथयन्ति वर्तन्ते इति सदा अन्विष्यन् आसम्। आरियादाहे कृष्णकिशोरस्य गृहम् अध्यात्मरामायणं श्रोतुं गच्छामि स्म। “अहा! कियान् प्रगाढः विश्वासः कृष्णकिशोरस्य। कदाचित् वृन्दावनं गतवान्। तत्र तस्य अतीव पिपासा जाता। कूपं दृष्टवान्। तत्र कश्चन स्थितः आसीत्। तस्मिन् जलं याचिते सति सः उदतरत्, “अहं निम्नज्ञातियः। अहं कथं जलम् उद्धृत्य ददामि?” तदा कृष्णकिशोरः अवदत्, “अरे शिवनाम उच्चरतु। शिव शिव इति उच्चरणमात्रेण शुद्धः भविष्यसि भवान्”। सः दीनः शिवनाम उच्चार्य जलं निष्कासितवान्। एषः कर्मकठोरः ब्राह्मणः तत् पीतवान्। कियान् विश्वासः तु! “आरियादाहे घट्टं कश्चन मुनिः आगतः आसीत्। तस्य दर्शनार्थं गन्तुम् आवां चिन्तिववन्तौ। हलधारी कालीवाड्याम् आसीत्। तम् अहं पृष्टवान्, “कृष्णकुमारः अहं च मुनिदर्शनार्थं गमिष्यावः। अपि भवान् आगच्छति किम्?” हलधारी अवदत्, “अं, सः तु मृद्मूर्तिः। वृथा गमनेन किम्?” हलधारी गीतां वेदान्तं च पठति स्म नु। अतः मुनिं मृद्मूर्तिम् उक्तवान्। अहं सर्वं कृष्णकिशोरं कथितवान्। श्रुत्वा सः अतीव कुपितः। आरक्तः जातः। अवदत् च, “किं हलधारी एवम् उक्तवान्? यः भगवतः रामस्य चिन्तनं करोति, तदर्थं सर्वस्वं त्यजति च तस्य देहः किं मृद्मूर्तिः? सः जानाति किं यत् भक्तस्य देहः चिन्मयः वर्तते?” कृष्णकिशोरः एतावत् कुपितः यत् कालीवाडीं पुष्पाणि त्रोटितुम् यदा आगच्छति स्म तदा हलधारौ दृष्टे सति मुखं परिवर्तयति स्म। तेन सह एकमपि शब्दं सः न वदति स्म। “कदाचित् माम् उक्तवान्, यज्ञोपवितं किमर्थं क्षिप्तम्? तदा मम एतादृशी अवस्था जाता आसीत्। तदा आश्वायुजस्य झंझावातेन सदृशं किमपि क्वचित् आगतम्। सर्वम् उध्वस्तं जातम्। पूर्वं किमपि चिह्नं न अवशिष्टम्। न किमपि भानम्। वेष्टि अपि गलिता तु यज्ञोपवितस्य का कथा? मया सः उत्तरितः, एकदा भवतः एतादृशः उन्मादः भवेत्, तदा अवच्छेत्। तथैव अभवत्। तस्य अपि प्रेमोन्मादः जातः। तदा सः सततम् ओम् ओम् इति वदति स्म। एकस्मिन् प्रकोष्ठे तूष्णीम् उपविशति स्म। सर्वे चिन्तितवन्तः यत् अस्य मतिभ्रमः जातः। नाटागडतः वैद्यः रामः आगतः। कृष्णकिशोरः तं वदति अहो, मां सम्यक् करोतु। परम् अवधातव्यं यत् मम ओङ्कारः अपि तेन सह विरामं न कुर्यात्!( सर्वे हसन्ति) कदाचित् दृष्टवान् महाशयः तलहस्ते गल्लं स्थापयित्वा उपविष्टः आसीत्। अहं पृष्टवान्, किं भोः, का चिन्ता बाधते? सः उक्तवान्, करसंग्राहकः आगतः। सा एव चिन्ता। धनं न दीयते चेत् स्थालिकाः कंसान् च विक्रीय धनं स्वीकरोमि इति भायितवान्। तदा अहम् उक्तवान्, तदनु किमर्थं खिन्नता? स्थालिकाः कं सान् च नयेत्। हस्तपादौ बद्ध्वा नयेत्। भवन्तं तु न नेतुं शक्नोति। भो भवान् खस्वरूपः। ( नरेन्दादयः हसन्ति।) कृष्णकिशोरः वदति स्म, अहम् आकाशवत्। अध्यात्मरामायणं नित्यं पठति स्म। कदाचित् भवान् ख इति उक्त्वा एबम् उपहासं करोमि स्म। हासं हासं मया उच्यते स्म, भवान् तु ख। करसंग्राहकः भवन्तं कथं नेतुं शक्नुयात्? तस्याम् उन्माददशायां कस्यापि अहं पर्वां न करोमि स्म। मानसन्मानं न चिन्तयित्वा साक्षात् उत्तरामि स्म। महापुरुषः इति मत्वा न बिभेमि स्म। यदुमल्लिकस्य वाटिकायां कदाचित् ठाकुरयतीन्द्रः आगतः। अहमपि तत्र आसम्। अहं तं पृष्टवान्, जनस्य कर्तव्यं किम्? भगवच्चन्तनं हि कर्तव्यं नु? यतीन्द्रः उक्तवान्, वयं संसारिणः जनाः। अस्माकं कृते क्व मुक्तिः। राजायुधिष्ठिरः अपि नरकं दृष्टवान्। युधिष्ठिरस्य नरकदर्शनम् एव भवन्तः पश्यन्ति। तस्य सत्यनिष्ठा, क्षमा, धैर्यं, विवेकवैराग्यं, ईश्वरभक्तिः च इति भवन्तः न स्मरन्ति। इतोऽपि बहु किमपि श्रावणीयमासीत्। हृदयः अवरुणद्धि। किञ्चिदेव कालात् सः ततः मन्दं निर्गतः! “ तदनन्तरं बहुकालान्तरम् एषः प्रसङ्गः। कप्तानेन सह राजाठाकुरसौरीन्द्रेण मेलितुम् अहं गतवान्। मेलनमात्रात् अहं तम् उक्तवान्, पश्यतु, अहं भवन्तं राजा वा तथा किमपि संबोधयितुं न शक्नोमि। यतो हि तथा आह्वानं पूर्णतः असत्यमेव। मया सह सः स्वल्पम् वार्तालापं कृतवान्। तदनन्तरं मया दृष्टं यत् महान्तः जनाः तत्र गमनागमनम् कुर्वन्तः सन्ति इति। रजोगुणी जनः। विविधकार्ये व्यापृतः। यतीन्द्रम् आव्हानं प्रेषितम्। सः सन्देशं प्रेषितवान् यत् तस्य कण्ठे वेदना अस्ति। “तस्याम् उन्मादावस्थायामेव वराहनगरघट्टे कदाचित् दृष्टं यत् मुखर्जीजयः जपन् अस्ति, परं मनः अन्यत्र विहरति। साक्षात् समीपं गतवान्। द्वे चपेटिके दत्ते। “कदाचित् राणीरासमणी दक्षिणेश्वरम् आगताः। कालीमातुः मन्दिरं दर्शनार्थं आगता। पूजासमये आगत्य मां द्विचत्वारि गीतानि गातुं सा सूचयति स्म। तथा तस्याः अभ्यासः। अहं गायन् आसम्। तस्याः मनः अन्यत्र आसीत्। (अन्यमनस्का सा) पुष्पाणि चिन्वन्ती सा उपविष्टा आसीत्। द्वे चपेटिके मया दत्ते। तदा सम्भ्रान्ता सा हस्ताभ्यां नमस्कृत्य उपविष्टा। “हलधारिः मया उक्तः, “आर्य, पश्यतु कथं विचित्रः स्वभावः जातः मम। कः उपायः करणीयः इति एव न ज्ञायते। अथ मातरं प्रार्थं प्रार्थं सः स्वभावः कथञ्चित् नष्टः”। बाबुमथुरेण सह तीर्थयात्रा 1868 काशीक्षेत्रे प्रापञ्चिकविषयानां श्रवणेन श्रीरामकृष्णस्य रोदनम् “तस्याम् अवस्थायाम् ईश्वरसम्बन्धिनां विषयान् विना न किमपि रोचते स्म। सासांरिकानां मिथ्याकथाः श्रुत्वा रोदिमि स्म। बाबुमथुरः मां स्वीकृत्य तीर्थयात्रार्थं प्रस्थितः। काशीनगरे बाबुराजामहोदयस्य गृहे कानिचिन दिनानि वयम् आस्म। कदाचित् बाबुमथुरेण सह स्वागतकक्षे वार्तालापः प्राचलत्। बाबुराजा अपि आसीत्। सः प्रापञ्चिकविषयानां संभाषणम् आरब्धवान्। एवं हानिः जाता इत्यादयः। मम रोदनम् आगतम्। उक्तं मया, मातः कुत्र आनीतः अहम्? रासमण्याः वाटिकायां समीचीनः आसम्। अत्र तीर्थयात्रार्थम् आगतः परम् अत्र एपि कामिनीकाञ्चनयोः वार्ता। दक्षिणेश्वरे इदं तु श्रोतव्यं न भवति स्म। श्रीरामकृष्णः भक्तान् विशेषतः नरेन्द्रं विश्रामं कर्तुं सूचितवान्। स्2 वयमपि लघुपर्यङ्के स्वल्पं विरमतुं शयानः जातः। 2 नरेन्द्रादिभिः सह कीर्तनानन्दः। नरेन्दाय प्रेमालिङ्गनम् तृतीयः प्रहरः। राखालः,लाटु, नरेन्द्रस्य ब्राह्ममित्रं प्रियः,हाजरा च इत्यादयः सर्वे उपस्थिताः आसन्। नरेन्द्रेण गायनम् आरब्धम्। मृदङ्गवादनम् अपि आरब्धम्। (गीतस्य भावार्थः) – हे मनः, ध्यायतां तं निरञ्जनं, चिद्घनं, चिन्मयं हरिम्। अनुपमः तस्य प्रकाशः। भुवनमोहना तस्य मूर्तिः! भक्तानां हृदयघनः सः श्रीहरिः- तस्य सौन्दर्यसुषमा कोटिकोटिचन्द्रबिम्बानपि लाजयेत्! तेन लावण्यदर्शनेन प्राणाः कथं रोमाञ्चिताः भवन्ति! हृदयकमलासने स्थितौ तस्य चरणकमलौ ध्यायताम्। शान्ततया प्रेमनयनैः तस्य अरूपस्य प्रियदर्शनस्य दर्शनसुखं सुखं लुण्ठतु। भक्त्यावेगेन तस्मिन् चिदानन्दरसे चिरनिमग्नः भवतु। नरेन्द्रः पुनः गायति। (भावार्थः) – ‘सत्यं शिवं सुन्दरं रूपं मम हृदयमन्दिरे कदा अनावृतं भवेत् किल? अनुदिनं दर्शं दर्शं तस्मिन् रूपसागरे अहं कदा निमज्जितः भवेयम्? हे नाथ, अस्य दीनस्य भाग्ये सः शुभदिवसः कदा उदेत्? प्राणनाथः, अनन्तज्ञानरूपे भवान् मम हृदयं स्पृशेत्,, मम अधीरं मनः स्तब्धीभूय भवतः श्रीचरणयोः आश्रयं कुर्यात्?(आश्रयेत्) मम हृदयाकाशे भवान् अमृतानन्दरूपे उदेत्। तदनु चन्द्रोदयानन्तरं यथा चकोरः प्रमुद्य क्रीडति तथा नाथ, अहमपि भवतः प्रकटनेन उन्मत्तः भविष्यामि।(उन्मदिष्यामि।) हे प्राणप्रिय, शान्तः, शिवः, अद्वितीयः राजाधिराजः भवान्, - तव चरणौ स्वजीवनं समर्प्य तस्य सार्थक्यम् अहं करोमि। अस्मिन् एव जीवने स्वर्गानन्दं प्राप्स्यामि। एतादृशः दुर्लभः अधिकारः मया अन्यत्र कुत्र लभ्येत? हे जीवनेश्वर, भवतः शुद्धं अपापविद्धं रूपं दृष्ट्वा प्रकाशे पश्यति सति यथा अन्धकारः त्वरया नश्यति तथा मम पापरूपः अन्धकारः पलायेत्। हे मम जीवनस्य ध्रुवतारके, हे अनाथनाथ, मम हृदये ज्वाज्वल्यविश्वासस्य वन्हीं प्रज्वाल्य मम मनसः इच्छां प्रपूरय। अहम् अनिशं प्रेमानन्दं मग्नः भविष्यामि तथा च आत्मानं विस्मृत्य भवन्तं लप्स्ये। सः सुवर्णदिवसः मम जीवने उदेत् ननु? (भावार्थः) आनन्दोत्फुल्लमुखेन भगवतः मधुरनाम जपतु। नाम जापं जापं हृदये सततं सुधासिंधुः आन्दोलयेत्। (उद्गच्छेत्) तां सुधां पिबतु। ददातु। विषयाणां रणभूमौ कदाचित् हृदयं शुष्कं भवेत् चेत् नाम गायतु। हृदयं प्रेमरसेन क्लिन्नं भवेत्। हे मनः, तस्य महामन्त्रस्य भवतः कदापि विस्मरणं न भवेत्। आपद्काले तं हे दयामय पिता इति आव्हयतु। तस्य नामजयघोषेण सर्वाणि पापबन्धनानि छिनत्ति। अस्मिन् ब्रह्मानन्दे उन्मत्ताः भूत्वा वयं पूर्णकामाः भवामः। प्रेमयोगस्य योगिनः भवामः। झल्लरीमृदङ्गयोः मधुरनिनादे संकीर्तनं भवन् वर्तते। कदा गायति प्रेमानन्द रसे होओ रे चिरमगन! तु कदा गायति सत्य शिव सुन्दर रूप भाति हृदयमन्दिरे अन्ते नरेन्द्रेण स्वहस्ते मृदङ्गं स्वीकृत्य मत्तः भूत्वा श्रीरामकृष्णेन सह गायनम् आरब्धम्। आनन्दवदने बोलो मधुरहरिनाम। संकीर्तनान्तरं श्रीरामकृष्णः वारं वारं नरेन्द्रं प्रेमालिङ्गनं कृत्वा उक्तवान्, “अद्य भवान् मह्यं कियान्तम् आनन्दं दत्तवान्!” श्रीरामकृष्णस्य हृदये विद्यमानः प्रेमानन्दः अद्य उद्गच्छन् अस्ति। रात्रौ अष्टवादनोत्तरं जातम्; तथापि प्रेमोन्मत्तेन भूत्वा आलिन्दे एकाकी एव बाभ्रमन् अस्ति। उत्तरदिशि विद्यमानं विशालं आलिन्दम् आगत्य आवेगेन इतस्ततः बाभ्रमति। मध्ये मध्ये जगन्मात्रा सह किमपि वदति। मध्ये एव केनचित् उन्मत्तेन सदृशं अवदत्, अये, भवती मम किं करिष्यति? जगदम्बा यस्य पृष्ठतः वर्तते, तस्य माया किम् अहितं कर्तुं शक्नुयात्? – श्रीरामकृष्णः बहुधा इदमेव वदन् स्यात्! नरेन्द्रः मास्तरः प्रियः च अद्य रात्रौ तत्रैव वसेयुः। नरेन्द्रः निवसति अतः श्रीरामकृष्णस्य आनन्दस्य सीमा नास्ति। भोजनव्यञ्जनानि सिद्धानि। श्रीमाता नौबतखाने निवसति स्म। भक्तजनाः अत्र भुञ्जन्ते सा रोटिकाः, (हरबरा डाळीचे ) सूपं इत्यादीनि व्यञ्जनानि पाचित्वा प्रेषितवती। भक्तजनाः मध्ये मध्ये दक्षिणेश्वरे निवसन्ति स्म। सुरेन्द्रः(मित्रसुरेन्द्रः) प्रतिमासं व्ययार्थं ददाति स्म। भोजनं सिद्धम्। प्रकोष्ठस्य आग्नेयदिशि आलिन्दे स्थालिकाः स्थापिताः। प्रकोष्ठस्य पूर्वदिशि द्वारे नरेन्द्रादयः वार्तालापं कुर्वन्तः सन्ति। नरेन्द्रः – अद्यस्तनीयानां छात्राणां विषये भवतः मतं किम्? मास्तरः – तथा ते न असाधवः। परं तेषां धर्मशिक्षणं किमपि न वर्तते। नरेन्द्रः – यथा अहं पश्यामि तथा मन्ये सर्वत्र अधःपातः एव वर्तते। धूम्रपानं, यद् वा तद् वा अर्थहीनः उपहासः( अचकट विचकट थट्टा), विलासिता, शालातः पलायनं इत्यादयः विषयाः सर्वत्र दृश्यन्ते। न केवलं एतावत्, अपि तु यत्र न गन्तव्यं तत्र(भलभलत्या) अपि एते गच्छन्ति इति मया दृष्टम्। मास्तरः – यदा वयं शालायाम् स्म, तदा एतादृशः व्यवहाराः न दृष्टाः, न कदापि श्रुताः। नरेन्द्रः – भवान् तैः सह कदाचित् न सम्मिलितः स्यात्। मया तु दृष्टं यत् दुर्जनाः तान् नाम्ना आह्वयन्ति। कदा तेषां सख्यं जातं न जाने! मास्तरः – अहो आश्चर्यम्! नरेन्द्रः – नैकानां पदभ्रष्टतां जानामि अहम्। शालाधिकारिणः तथा च छात्राणाम् अभिभावकाः अस्मिन् विषये अवधानं दद्युः चेद् उत्तमम्। ईश्वरविषय़े भाषणम् एव भाषणम् – आत्मानं वा विजानथ अन्यां वाचं विमुचथ एतादृशः वार्तालापः प्रावर्तत तदा एव श्रीरामकृष्णः स्वप्रकोष्ठतः तत्र आगतः। तान् हासं हासं अवदत्, “किं भो, कः वार्तालापः प्रवर्तते?” नरेन्द्रः उक्तवान्, एतेन सह शालाछात्राणां विषये वार्ता प्रवर्तिता आसीत्। साम्प्रतं छात्राणां चारित्र्यं यथा भवितव्यं तथा न भवति एव। इदं स्वल्पं श्रुत्वा श्रीरामकृष्णः किञ्चित् गभीरतया मास्तरम् उक्तवान्, एतादृश्यः वार्ता न योग्या। एकम् ईश्वरं विहाय अन्यत् सर्वं भाषणं वृथा जल्पनम्। भवान् तु ज्यायान्। ज्ञाता। एतादृश्यः वार्तायाः आरम्भः एव न करणीया। नैतद् उचितम्। ( नरेन्द्रस्य वयः तदा आसीत् 19-20, मास्तरस्य 27-28.) मास्तरः नितरां खिन्नः(चांगलेच वरमले) जातः। नरेन्दादयः तूष्णीं स्थितवन्तः। यदा नरेन्द्रादयः भोजनं कुर्वन्तः आसन् तदा श्रीरामकृणः समीपे स्थित्वा स्मयमुखेन सर्वान् आग्रहं कुर्वने आसीत्। अद्य तेषां आनन्दः हृदये उद्गच्छन् अस्ति! नरेन्द्रादयः भोजनं समाप्य श्रीरामकृष्णस्य प्रकोष्ठे भूमौ कटं प्रसार्य तस्योपरि उपविश्य विश्रामं कुर्वन्तः श्रीरामकृष्णेन सह संभाषन्तः सन्ति। आनन्दस्य झंझावातः एव प्रवहन् अस्ति। भाषं भाषं श्रीरामकृष्णः नरेन्दम् अवदत्, “चिदाकाशे होलो पूर्ण प्रेमचंन्द्रोदय’ इदं गीतं गायतु नु”। नरेन्दः गायनम् आरब्धवान्। सपदि अन्ये भक्ताः तेन सह झल्लरीमृदुङ्गवादनम् आरब्धवन्तः। (भावार्थः) – ‘चिदाकाशे पूर्णप्रेमचन्द्रः उदितः। प्रेमसिन्धुः उद्गच्छन् अस्ति। हे आनन्दमय प्रभो, हे दयामय, तव जयजयकारः। चन्द्रं परितः यथा ताराङ्गणः तथा तं परितः भक्ताः शोभन्ते। भक्तैः सह सः लीलारसमयः भक्तसखा क्रीडति। जय दयामयः, जय दयामयः’। संकीर्तनं कारं कारं श्रीरामकृष्णः भावावेशे नृत्यति तं परितः भक्ताः अपि नृत्यम् कुर्वन्ति। संकीर्तनगानानन्तरं श्रीरामकृष्णः ईशान्यदिशि आलिन्दे बाभ्रमन् अस्ति। कोणे हाजरा उपविष्टः। श्रीरामकृष्णः तत्रैव उपविष्टवान्। मास्तरः अपि तत्रैव हाजरेण सह वार्तां कुर्वन् अस्ति। श्रीरामकृष्णः कञ्चिद् भक्तं पृष्टवान्, “किं भवान् स्वप्नं पश्यति नु?” भक्तः – हं, तद्दिने एकम् अद्भुतं स्वप्नं दृष्टं मया। दृष्टं यत् सर्वं जगत् जलेन पूर्णम् अस्ति। अनन्ता जलराशिः। काश्चन नौकाः तस्यां तरन्ति स्म। परम् अकस्मात् सर्वाः जले निमज्जिताः। अहं तथा च केचन जनाः नौकायां पदं स्थापयन्तः आस्म तावत् तस्मात् अपारसागरात् कश्चन ब्राह्मणः प्रचलन् आसीत् इति वयं दृष्टवन्तः। अहं पृष्टवान्, “भवान् कथं जले गच्छति?” ब्राह्मणः किञ्चित् हसित्वा उक्तवान्, “अहं तु किमपि कठिनं न मन्ये। जलस्य अन्तः सेतुः वर्तते”। मया पृष्टम्, “भवान् क्व गच्छन् अस्ति?” “भवानीपुरं प्रति”। सः उदतरत्। “किञ्चित् तिष्ठतु”। मया उक्तम्, “अहमपि आगच्छामि भवता सह”। श्रीरामकृष्णः – इदं सर्वं श्रुत्वा मम शरीरं रोमाञ्चितं भवति। भक्तः – ब्राह्मणः तदा वदति यत् सः त्वरायां वर्तते। अग्रे वदति, “भवतः विलम्बः भवेत्। पुनर्मिलामः। मार्गं पश्यन्तु, पृष्ठतः आगच्छन्तु च”। श्रीरामकृष्णः – श्रवणेन शरीरं रोमाञ्चितं भवति। भवान् शीघ्रं मन्त्रं स्वीकरोतु। रात्रौ एकादशवादनम्। नरेन्द्रादयः भक्ताः श्रीरामकृष्णस्य प्रकोष्ठे कटं प्रसार्य सुप्ताः जाताः। 3 प्रभातकालः समागतः। भक्तजनेषु केचन जागरिताः। तैः दृष्टं यत् श्रीरामकृष्णः बालकवत् दिगम्बरावस्थायां देवदेवतानां प्रातःस्मरणं कुर्वन् प्रकोष्ठे इतस्ततः बाभ्रमन् अस्ति। कदाचित् गङ्गामातुः दर्शनं, कदाचित् देवतानां चित्रेभ्यः प्रणामाः, कदाचित् सुमधुरस्वरे नामसंकीर्तनम्। कदाचित् सः भणति, वेदाः तन्त्राणि, पुराणानि, गीता, गायत्री...भागवतं, भक्तः, भगवान्। गीताम् उद्दीश्य पुनः पुनः वदति, त्यागी, त्यागी, त्यागी, त्यागी....कदाचित् उद्गरति, भवान् एव ब्रह्म, भवान् एव शक्तिः, भवान् पुरुषः, भवान् प्रकृतिः, भवान् विराट्, भवान् एव स्वराट् भवान एव नित्यः भवान् एव लीलामयः, चतुर्विशतिः तत्त्वानि भवान् एव, भवान् एव। अत्र कालीमातुः राधाकान्तस्य च मन्दिरे मङ्गलारत्रिः भवन्ती अस्ति। शङ्खघण्टाध्वनिः परिवेशं पवित्रं कुर्वन् निनादति। भक्ताः उत्थाय दृष्टवन्तः। कालीवाड्याः पुष्पोद्याने देवतार्चनार्थं पुष्पचयनम् आरब्धम्। प्रभातरागाणां गायने ढक्कागायनस्य पार्श्वभूमिः लब्धा। नरेन्द्रादयः भक्ताः शौचमुखमार्दनादीन् प्रातःकृत्याणि समाप्य श्रीरामकृष्णस्य समीपे उपविष्टाः। श्रीरामकृष्णः स्मयमुखेन ईशान्यदिशि आलिन्दे पश्चिमपार्श्वे स्थितः अस्ति। नरेन्द्रः- पञ्चवटीत केचन नानकपंथी साधवः आगतः सन्ति इति दृष्यन्ते। श्रीरामकृष्णः – हं, ह्यः आगताः सन्ति। (नरेन्द्रं) भवन्तः सर्वे क’टे उपविशन्तु। अहं पश्यामि। सर्वे भक्ताः कटे उपविष्टाः। श्रीरामकृष्णः आनन्देन तान् पश्यन् तैः सह संभाषते। नरेन्द्रः साधनाविषये वदति। महिलाभिः साधनां कर्तुं नरेन्द्रादीन् निषेधः। सन्तानभावः अतिशुद्धः श्रीरामकृष्ण- (नरेन्दादीन्) भक्तिः एव सर्वस्य सारः। ईश्वरे प्रीणाति चेत् विवेकवैराग्यं स्वयमेव लभ्येते। नरेन्द्रः – किं स्त्रीभिः साधना तन्त्रे कथिता अस्ति खलु? श्रीरामकृष्णः – ते सर्वे मार्गाः न साधवः। अतिदुर्गमः तथा च पतनं बहुधा निश्चितम्। वीरभावेन साधना, दासीभावेन साधना, मातृबावेन साधना च इति तन्त्रसाधनायाः त्रयः प्रकाराः। मम तु मातृभावः। दासीभावः अपि समीचीनः। वीरभावस्य साधना बहुदुष्करा। सर्वेभ्यः सन्तानभावः शुद्धः। नानकपथिकाः साधवः आगत्य ‘नमो नारायणाय’ इति उक्त्वा प्रणामं कृतवन्तः। श्रीरामकृष्णः तान् उपवेष्टुं सूचितवान्। ईश्वरस्य सर्वं शक्यम्। चमत्कारः श्रीरामकृष्णः वदति, - ईश्वरस्य किमपि अशक्यं नास्ति। शब्दैः तस्य यथार्थस्वरूपवर्णनं कोपि कर्तुं न शक्नुयात्। सः सर्वं कर्तुं समर्थः। द्वौ योगिनौ ईश्वरप्राप्त्यर्थं साधनां कुर्वन्तौ आस्ताम्। कदाचित् तेन मार्गेण नारदः गच्छन् आसीत्। तम् अभिज्ञाय एकः अवदत्, “भवान् साक्षात् नारायणाद् आगच्छन् अस्ति। सः अधुना किं कुर्वन् अस्ति?” नारदः उदतरत्, “अहं साक्षात् दृष्टवान् यत् सः सूचिछिद्रात् हस्ति-अश्वाणां नयनानयनं कुर्वन् अस्ति”। तदा एकः उक्तवान्, “अत्र किम् आश्चर्यम्? सः तु किमपि कर्तुं शक्नुयात्”। परम् अपरः अवदत्, “हम्, एतत् कथं भवितुमर्हति? भवता स्वर्गस्य द्वारमपि न दृष्टं स्यात्!” सामान्यतः नव वादनम्। श्रीरामकृष्णः तस्य प्रकोष्ठे उपविष्टः आसीत्। मनोमोहनः कोन्नगरतः सकुटुम्बम् आगतः अस्ति। प्रणम्य मनोमोहनः उक्तवान्, “कलकत्तानगरम् एतान् नयामि”। कुशलं पृष्ट्वा श्रीरामकृष्णः उक्तवान्, “अद्य प्रतिपदा। भवन्तः तु कलकत्तां गच्छन्ति। परं किञ्चित् अवधाय गच्छन्तु। अद्य मुहूर्तः सम्यक् नास्ति”! इति उक्त्वा सः हसन् अन्यविषयान् आरब्धवान्। नरेन्द्राय तन्मयं भूत्वा ध्यानं कर्तुम् उपदेशः। नरेन्द्रः तस्य मित्राणि च स्नात्वा आगताः। श्रीरामकृष्णः नरेन्द्रम् उक्तवान्, “गच्छतु, वटवृक्षतले उपविश्य ध्यानं करोतु। आसनं ददानि किम्?” नरेन्द्रः तस्य कानिचित् मित्राणि च पञ्चवट्याम् उपविश्य ध्यानं कुर्वन्तः सन्ति। सार्धदशवादनम्। किञ्चित् कालात् श्रीरामकृष्णः तत्र आगतः। तेन सह मास्तरः अपि अस्ति। श्रीरामकृष्णः संभाषते। श्रीरामकृष्णः – ( ब्राह्मभक्तान्) ध्यानसमये मनः तस्य चरणौ तल्लीनं भवेत्। उत्तानं तरति चेत् तले विद्यमानानि रत्नानि कथं लभ्येरन्? इत्युक्त्वा सः अग्रिमार्थस्य गीतं गीतवान्। - ‘हे मन, काल्याः नाम उच्चार्य, भवान् हृदयरत्नाकरस्य अथाङ्गजले निमज्जतु। द्विचतुर्निमज्जने किमपि न लब्धं चेत् रत्नाकरे रत्नानि एव न वर्तन्ते इति न चिन्तयतु। दृढसंकल्पेन भृशं दमेन तलं अन्विष्यतु। हे मनः, ज्ञानसागरस्य तले शान्तिरूपं मौक्तिकं वर्तते। भवति यदि भक्तिः अस्ति तथा च शास्त्रानुसारं भवान् व्यवहरति तर्हि भवतः कृते तद् लाभाय। परं तस्मिन् समुद्रे कामादयः षड् मकराः इतस्ततः भक्ष्यान्वेषणार्थम् अटन्त्यः सन्ति। अतः विवेकरूपीणी हरिद्रां सर्वाङ्गे विलेप्य जले प्रवेशं करोतु। हरिद्रागन्धेन ताः भवतः समीपे न आगच्छन्ति। तस्य तले कियान्ति रत्नानि माणिकानि च पतितानि सन्ति। रामप्रसादः वदति, गाढं निमज्जतु, अञ्जुल्या एव भवान् संगृह्णातुं शक्नुयात्।’ ब्राह्मसमाजः, व्याख्यानानि, समाजपरिष्करणं च। प्रथमम् ईश्वरलाभः, अनन्तरं लोकशिक्षणम्। नरेन्द्रः तस्य मित्राणि च पञ्चवटी-आलिन्दतः अधः अवतीर्य श्रीरामकृष्णस्य पार्श्वे आगत्य स्थितवन्ति। श्रीरामकृष्णः तैः सह वार्तां कुर्वन् दक्षिणदिशं संम्मुखीकृत्य स्वप्रकोष्ठं प्रति गच्छन् अस्ति। सः अवदत्, निमज्जति सति मकरः निगृह्णीयात्। परं शरीरे हरिद्रां लेपयामः चेत् मकरः स्पर्शमपि न कुर्यात्। हृदयरत्नाकरस्य प्रगाढे जले कामादयः षड् मकराः सन्ति। परं विवेकवैराग्यरूपीणी हरिद्रायाः शरीरे लेपनेन ताः भवन्तं न पीडयन्ति। पाण्डित्यं व्याख्यानानि च इति एतेषां कि करणीयम् यदि विवेकवैराग्यं जीवने दृढं न भवतः? ईश्वरः सत्यः, अन्यत् सर्वम् असत्यम्। सः एव वस्तु, अन्यत् सर्वम् अवस्तु। एषः एव विवेकः। “हृदयमन्दिरे प्रथमं तस्य प्रतिष्ठापनां करोतु। व्याख्यानानि तदनन्तरं आवश्यकं चेत् ददातु। ‘ब्रह्म’ ‘ब्रह्म’ इति उद्घोषणेन किम्? विवेकवैराग्यं जीवने यदि न वर्तते तर्हि वृथा शङ्खवादनमेव तद् ननु? “ कस्मिञ्श्चिद् ग्रामे पद्मलोचनः नाम बालः आसीत्। तं जनाः ‘पोदो’ इति आह्वयन्ति स्म। ग्रामे एकं पुरातनं जीर्णं मन्दिरम् आसीत्। अन्तः देवविग्रहः नासीत्। मन्दिरस्य जीर्णभागे वटपिप्पलादि विविधाः वनस्पतयः उदिताः आसन्! गर्भगृहे (वटवाघुळाची) विष्ठा। मन्दिरे जनाः न आगच्छन्ति स्म। “कदाचित् एकस्मिन् दिवसे सायङ्कालानन्तरं ग्रामजनाः शङ्खध्वनिं श्रुतवन्तः। मन्दिरात् सततं शङ्खस्य ‘भों’ ‘भोम्’ इति ध्वनिः आयाति स्म। ग्रामजनाः चिन्तितवन्तः यत् केनचित् देवविग्रहः स्थापितः स्यात्। एषः सन्ध्यारत्र्याः ध्वनिः स्यात्। बालकाः, वृद्धाः, महिलाः, पुरुषाः च सर्वे मन्दिरं प्रति धावितवन्तः। देवदर्शनं करणीयं आरत्रिः दर्शनीया च इति सर्वेषाम् इच्छा आसीत्। तेषु कश्चन मन्दिरस्य द्वारं मन्दं नुदितवान् अन्तः दृष्टवान् च। तत्र तु पोदोमहाशयः पार्श्वे स्थित्वा आवेशेन उच्चैः शङ्खं वादयन् आसीत्! न देवविग्रहः न मन्दिरस्य स्वच्छता। सर्वत्र जतुकानां विष्ठा पतिता आसीत्। तदा सः जनः आक्रोशत्, “अरे, भवतः मन्दिरे माधवः क्व अस्ति? पोदो, वृथा शङ्खवादनेन कियान् कोलाहलः भवता कारिता! अत्र एकादशजतुकाः अनिशम् आकाशे परिभ्रमन्तः सन्ति। “ हृदयमन्दिरे माधवस्य यदि प्राणप्रतिष्ठां कर्तुम् इच्छन्ति भगवन्तुं प्राप्तुमिच्छन्ति तर्हि केवलं भों भों इति वृथा शङ्खवादनेन किम्? आदौ चित्तशुद्धिः अपेक्ष्यते। विशुद्धमनस्वरूपे पवित्रे आसने भगवान् उपविशेत्। सर्वत्र जतुकानां विष्ठा यदि दृश्यते तर्हि माधवः आवाहनं न स्वीकुर्यात्। एकादश वटवाघुळे इत्युक्ते एकादश इन्द्रियाणि – पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि, तथा च मनः। प्रथमं माधवस्य प्रतिष्ठा अनन्तरं यदि अपेक्ष्यते तर्हि व्याख्यानानि ददातु। “ प्रथमं निमज्जतु। निमज्जित्वा रत्नानि प्राप्नोतु। तदनु अन्यानि कार्याणि। “निमज्जनार्थं न कोपि सिद्धः। न साधना, न भजनं, न वा विवेकवैराग्यम्। द्विचतुर्वाक्यानि श्रुतानि चेत् महाशयः व्याख्यानानि दातुं सिद्धः! “जनशिक्षणं अतीव दुष्करम्। परमेश्वरदर्शनानन्तरं यदि सः आदिशति तर्हि कश्चन तत् कर्तुं शक्नुयात्”। अविद्यारूपिणी स्त्री। यदि वास्तवा भक्तिः वर्तते तर्हि सर्वे वशाः भवन्ति। संभाषमाणः श्रीरामकृष्णः उत्तरदिशि विद्यमानस्य आलिन्दस्य पश्चिमभागम् आगतः। मणिसमीपे सः स्थितः। श्रीरामकृष्णः वारं वारं वदन् आसीत्, “विवेकवैराग्येण विना भगवत्प्राप्तिः कदापि न शक्या”। मणिः तु विवाहितः। व्याकुलं भूत्वा सः पृष्टवान्, “तदनु मम कथं भवेत्?” तस्य आयुः 28। महाविद्यालये स्वल्पम् आङ्ग्लम् अध्ययनं जातम्। सः चिन्तयति, ‘विवेकवैराग्यम् इत्युक्ते किं कामिनीकीञ्चनस्य त्यागः?’ मणिः – (श्रीरामकृष्णं) पत्नी यदि वदति, ‘ भवान् मां न अवध्यायति चेत् अहं प्राणं त्यजामि’, तर्हि किं करणीयम्? श्रीरामकृष्णः – (गभीरतया) ईश्वरमार्गे या बाधाम् उत्पादयति सा भार्या त्यक्तव्या। तेन सा आत्महत्यां कुर्यात् वा अन्यत् किमपि कुर्यात्। “ईश्वरमार्गे विघ्नान् उत्पादयति सा अविद्यारूपिणी स्त्री” गभीरविचारे मग्नः जातः मणिः भीत्त्याः आधारेण पार्श्वे स्थितः आसीत्। नरेन्द्रादयः भक्ताः अपि क्षणं स्तब्धाः जाताः। श्रीरामकृष्णः तैः सह भाषणं कुर्वन् सहसा मणेः समीपे आगतः, तं पार्श्वे स्वीकृत्य मन्दध्वनिना अवदत्, “ परम् अवधीयतां, यस्य ईश्वरे पूर्णमनसा भक्तिः वर्तते तस्मै सर्वे वशाः भवन्ति, सः राजा भवेत्, दुर्जनः भवेत् वा पत्नी भवेत्। स्वात्मनि यदि एतादृशी भक्तिः वर्तते, तर्हि सः पत्नीम् अपि क्रमेण ईश्वरमार्गम् आनयेत्। स्वयं पतिः यदि साधुः तर्हि तं दृष्ट्वा ईश्वरप्राप्त्यर्थं पत्नी अपि साध्वी भवेत्”। दीनः मणिः शान्तः जातः! इदानीपर्यन्तं सः वारं वारं स्वगतं वदन् आसीत्, ‘ आत्महत्यां वा कुर्यात्, मम तस्य किम्?’ मणिः – ( श्रीरामकृष्णं) संसारे अतीव भयम्! श्रीरामकृष्णः – (मणिं नरेन्दादीन् च) तेन एव चैतन्यदेवः पुरा अवदत्, ‘श्रुणु रे, श्रुणु रे, नित्यानन्द, संसारिणः न लभते परमपदम्’। इतोपि कदाचित् श्रीरामकृष्णः मणिं एकान्ते उक्तवान् आसीत्, “ईश्वरे शुद्धा भक्तिः यदि न वर्तते, तर्हि न कापि गतिः। यदि कोपि ईश्वरलाभानन्तरं संसारे वर्तते, तर्हि तस्य किमपि भयं नास्ति। मध्ये मध्ये कश्चन यदि एकान्तसाधनां कृत्वा शुद्धभक्तिं प्राप्नुयात्, तर्हि संसारकरणे न किमपि भयम्। चैतन्यदेवस्य संसारिणः भक्ताः आसन् एव। ते संसारं नाममात्रं कुर्वन्ति स्म। अनासक्ताः भवन्ति स्म”। देवदेव्योः पूजाम्, आरत्रिं, नैवेद्यं च जातम्। अपराह्नढक्कावादनम् आरब्धम्। भगवतः विश्रान्तिसमयः। श्रीरामकृष्णः भोजनार्थम् उपविष्टः। नरेन्द्रादयः भक्ताः अपि अद्य श्रीरामकृष्णेन सह प्रसादं स्वीकरिष्यन्ति।