"काव्यमीमांसा" इत्यस्य संस्करणे भेदः

पङ्क्तिः १,१८८:

नवमो ऽध्यायः ९

अर्थानुशासनम् (अर्थव्यात्पिः) "स त्रिधा" इति द्रौहिणिः॑दिव्यो, दिव्यमानुशषो, मानुषश्च |

"सत्पधा"इति यायावरीयः पातालीयो,॑ मर्त्त्यपातालीयो, दिव्यपातालीयो, दिव्यमर्त्त्यपातालीयश्च |

तत्र दिव्यः-
"स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोर् उद्गीतं नलकूवरस्य विरहादुत्कञ्चुलं रम्भया |

तेनैरावणकर्णचापलमुषा शक्रो ऽपि निद्रा जहद् भूयः कारित एव हासिनि शचीवक्त्रे दृशं सम्भ्रमम्" ||

दिव्यमानुषस्ति चतुर्द्धा |

दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्गगमन इत्येको भेदः |

दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः |

दिव्येतिवृत्तपरिकल्पनया तृतीयः |

प्रभावाविर्भूतदिव्यरुपतया चतुर्थः |

तत्र दिव्यस्य मर्त्यागमनम्---
"श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि |

वसन्तदर्शावतरन्तरमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः" ||

मर्त्यस्य स्वर्गगमनम् -
"पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः शीधुभिः कॢत्पापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् |

अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यत्नं विना पूर्यते" ||

दिव्यस्य मर्त्यभावः-
"इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् |

किमपरमथ तस्मात्षोडशस्त्रीसहस्र-प्रणिहितपरिरम्भः पद्मनाभो बभूव" ||

मर्त्यस्य दिव्यभावः-
"आकाशयानतटकोटिकृतैकपादास् तद्वेमदण्डयुगलान्यवलम्ब्य हस्तैः |

कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि" ||

दिव्येतिवृत्तपरिकल्पना-
"ज्योत्स्नापूरप्रसरविशदे सैकते ऽस्मिन्सरय्वा वदद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् |

एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्" ||

प्रभावाविर्भूतदिव्यभावः---
"मा गाः पातालमुर्वि स्फुरसि किमपरं पाट्यमानः कुदैत्यत? त्रैलोक्यं पादपीतप्रथिम, नहि बले? पूरस्यूनमङ्घ्रेः |

इत्युत्स्वप्नायमाने भुवनभृति शिखावङ्कसुत्पे यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः" ||

मर्त्यः---
"वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति |

नदीस्रोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च" ||

पातालीयः-
"कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाज्जलिस्ते कपिलकुलिकयोः स्तैति च स्वस्तिकस्त्वां |

पद्मः सद्मैष भक्तेरवलगति पुरः कम्बलो ऽयं बलो ऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः" ||

मर्त्यपातालीयः-
"आर्द्रावले!व्रज न वेत्स्यपकर्ण!कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः |

तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम्" ||

इहापि पूर्ववस्तमस्तमिश्रभेदानुगमः |

दिव्यपातालीयः-
"स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् |

विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम्" ||

स्वर्गमर्त्यपातालीयः-
"आस्तीको ऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च |

उद्देल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते" ||

सो ऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमोर्थसार्थः सम्पद्यते इत्याचार्याः |

"अस्तु नाम निःसीमोर्थसार्थः |

किन्तु द्विरुप एवासौ विचारितसुस्थो ऽविचारितरमणीयश्च |

तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तरं काव्यानि" इत्यौद्भटाः |

यथा-
"अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः |

खमुत्पपात हनुमान्नीलोत्पलदलद्युतिः" ||

यथा वा-
"त आकाशमसिश्याममुत्पस्त्य परर्षयः |

आसेदुरोषधिप्रस्थं मनसा समरंहसः" ||

यथा च-
"तदेव वारि सिन्धूनां महत्स्थेमार्चिषामिति" इत्यादि ||

"न स्वरुपनिबन्धनमिदं रुपमाकाशस्य सरिल्सलिलादेर्वा किन्तु प्रतिभासनिबन्दनम् |

न च प्रतिभासस्तादत्भ्येन वस्तुन्यवतिष्ठते, यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः इति यायावरीयः |

एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च |

यथाप्रतिभासं च वस्तुनः स्वरुपं शास्त्रकाव्ययोर्निबन्धोपयोगि" |

शास्त्रे यथा-
"प्रशान्तजलभृत्पङ्के विमले वियदम्भसि |

ताराकुमुदसम्बन्धे हंसायत इवोडुराट्" ||

काव्यानि पुनरेतन्मयान्येव |

"अस्तु नाम निःसीमार्थसार्थः |

कुन्तु रसवत एव निबन्धो युक्तो न नीरसस्य" इति आपराजितिः |

यदाह-
"मज्जमपुष्पावजयनसन्ध्याचन्द्रोदयादिवाक्यमिह |

सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ||

यस्तु सरिदद्रिसागरपुरतुरगरथादिवर्णने यत्नः |

कविशक्तिख्यातिफलो विततधियां नो मतः स इह" ||

"आम्" इति यायावरीयः |

अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः, अन्वयव्यतिरेकाभ्यां चेतमुपलभ्यते |

तत्र सरिद्वर्णनरसवत्ता-
"एतां विलोकय तलोदरि ताम्रपर्णीम् अब्धोनिधौ विवृतशुक्तिपुटोद्धृतानि |

यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु" ||

अद्रिवर्णनरसवत्ता-
"एतास्ता मलयोपकण्ठसरितामेणाक्षिरोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः |

यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्दचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ||

सागरवर्णनरसवत्ता-
"धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः |

यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदां यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम्" ||

एवं पुरतुरगादिवर्णनरसवत्तापि |

विप्रलम्भेप्यतिरसवत्ता-
"विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरुपत्वादन्ये विहितविफलौत्सुक्यवरसाः |

ततः स्वेच्छं पूर्वेष्वसजदितरेभ्यः प्रतिहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्" ||

कुकविर्विप्रलम्भे ऽपि रसवत्तां निरस्यति |

अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः ||

"यथा तथा वास्तु वस्तुनो रुपं, वक्तप्रकृतिविशेषायत्ता तु रसवत्ता |

तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रघोदास्ते" इति पाल्यकीर्तिः |

"येषां वल्लभया समं क्षणमिव स्फारा क्षपा क्षीयते तेषां शीततरः शशी विरहिणामुल्केव सन्तापकृत् |

अस्माकं न तु वल्लभा न विरहस्तेनोभयभ्रंशिनाम् इन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः" ||

"विदग्धभणितिभङ्गिनिवेद्यं वस्तुनो रुपं न नियतस्वभावम्" इति अवन्तिसुन्दरी |

तदाह-
"वस्तुस्वभावो ऽत्र कवेरतन्त्रे गुणागुणावुक्तिवशेन काव्ये |

स्तुवन्निवध्नात्यमृतांशुमिन्दुं निन्दुंस्ति दोषाकरमाह धूर्त्तः" ||

"उभयमुपपन्नम्" इति यायावरीयः |

स पुनर्द्विधा |

मुक्तकप्रबन्धत्रिषयत्वेन |

तावपि प्रत्येकं पञ्चधा |

शुद्धः, चित्रः, कथोत्थः, संविधानकभूः, आख्यानकवांश्च |

तत्र मुक्तेतिवृत्तः शुद्धः |

स एव सप्रपञ्चश्चित्रः |

वृत्तेतिवृत्तः कथोत्थः |

सम्भावितेतिवृत्तः संविधानकभूः |

परिकल्पितेतिवृत्तः आख्यानकवान् |

तत्र |

मुक्तके-शुद्धः-
"सा पत्युः प्रथमापराधकरणे शिक्षोपदेशं विना नो जनाति सविभ्रमाङ्गवलना वक्रोक्तिचित्रां गतिम् |

स्वच्छैरच्छकपोलमूलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः" ||

चित्रः-
"दूरादुत्सकमागते विवसितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूतलम् |

मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णां क्षणाच् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि" ||

कथोत्थः-
"दत्त्वा रुद्भगतिः खसाधिपतये देवीं ध्रुवस्वामिनीं यस्मात्खण्डितसाहसो निववृते श्रीशर्मगुत्पो नृपः |

तस्मिन्नेव हिमालये गुरुगुहाकोणक्वणत्किन्नरे गीयन्ते तव कार्त्तिकेयनगरस्त्रीणां गणैः कीर्त्तयः" ||

संविधानक्रभूः-
"दृष्ट्रवैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः |

ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ||

यथा च-
"कुवर्त्या कुङ्कुमाभ्भः कपिशितवपुषं यत्तदा राजहंसीं क्रीडाहंशो मयासावजानि विरहितश्चक्रवाकीभ्रमेण |

तस्यैतत्पाप्मनो मे परिणमति फलं यत्पुरे प्रेमबन्धाद् एकत्रावां वसावो न च दयित दृशाप्यस्ति नौ सन्निकर्षः" ||

आख्यानकवान्-
"अर्थिजनार्थधृतानां वनकरिणां प्रथमकल्पितैर्दशनैः |

चक्रे परोपकारी हैहयजन्मा गृहं शम्भोः" ||

निबन्धे शुद्धः-
"स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् |

प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम्" ||

चित्रः-
"अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः |

हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतमपविद्धं पीतमुन्मीलितं च" ||

कथोत्थ--
"अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः |

अथ तेन निगृह्य विक्रियामभिशत्पः फलमेतदन्वभूत्" ||

संविधानकभूः-
"क्रोधं प्रभो संहर संहरेति यावद्भिरः रवे मरुतां चरन्ति |

तावत्स वह्णिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार" ||

आख्यानकवान्-
"पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् |

सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान" ||

किञ्च-
संस्कृतवत्सर्वास्वपि भाषासु यथासामर्थ्यं यथारुचि यथा-
कौतुकं चावहितः स्यात् |

शब्दार्थयोश्चाभिधानाभिधेयव्यापारप्रगुणतामवबुध्येत |

तदुक्तम्-
एको ऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरो ऽस्मिन् अन्यो ऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण |

द्वित्राभिः को ऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ||

इत्थङ्कारं घनैरथैर्व्युत्पन्नमनसः कवेः |

दुर्गमे ऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थानुशासने (अर्थव्यात्पिः) नवमो ऽध्यायः ||

== आध्यय १० ==

१० कविचर्या राजचर्या च |

गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत |

नामधातुपारायणे, अभिधानकोशः, छन्दोविचितः, अलङ्कारतन्त्रं च काव्यविद्याः |

कलास्तु चतुःषष्टिरुपविद्याः |

सुजनोपजीव्यकविसन्निधः, देशवार्ता, विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनकविनिबन्धाश्च |

किञ्च-
स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता |

स्मृतिदाढर्यमनिर्वेदश्च मातरो ऽष्टौ कवित्वस्य ||

अपि च नित्यं शुचिः स्यात् |

त्रिधा च शौचं वाक्शौचं, मनः-शौचं, कायशौचं च |

प्रथमे शास्त्रजन्मनी |

तार्तीयीकं तु सनखच्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं च वासः, सुकुसुमं शिर इति |

शुचिशीलनं हि सरस्वत्याः संवननमामनन्ति |

स यत्स्वभावः कविस्तकदनुरुपं काव्यम् |

यदृशाकारश्चित्रकारस्तादृशाकारमस्य चित्रमिति प्रायोवादः |

स्मितपूर्वमभिभाषणं, सर्वत्रोक्तिगर्भमभिधानं, सर्वतो रहस्यान्वेषणं, परकाव्यद्षणवैमुख्यमनभिहितस्य अभिहितस्य तु यथार्थमभिधानम् |

तस्य भवनं सुसंमृष्टं, ऋतुषट्कोचितविविधस्थानम्, अनेकतरुमूलकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्धिकापुष्करिणीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सविर्हिणहरिणहारितं, ससारसचक्रवाक्रहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, धर्मक्लान्तिचौरं, सभू(ति)मिधारागृहयन्त्रलतामण्डपकं,, सदोलाप्रेङ्खं च स्यात् |

काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदाय आज्ञाभूकपरिजनं विजनं वा तस्य स्थानम् |

अपभ्रंशभाषणप्रवणः परिचारकवर्गः, समागधभाषाभिनिवेशिन्यः परिचारिकाः |

प्राकृतसंस्कृतभाषाविद आन्तःपुरिका, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः |

सदःसंस्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिताकारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् |

तदसन्निधावतिरात्रादिषु पूर्वोक्तनामन्यतमः |

स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति |

श्रूयते हि मगधेषु शिशुनागो नाम राजा॑तेन दुरुञ्चारानष्टौ वर्णानपास्य स्वान्तःपुर एव प्रवर्त्ततो नियमः, टकारादयश्चत्वारो मूर्ध्दन्यास्तृतीयवर्जमूष्माणस्त्रयः क्षकारश्चेति |

श्रूयते च सूरसेनेषु कुविन्दो नाम राजा॑ तेन परुषसंयोगाक्षरवर्जमन्तःपुर एवेति समानं पूर्वेण |

श्रूयते च कुन्तलेषु सातवाहनो नाम राजा॑ तेन प्राकृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण |

श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा॑ तेन च संस्कृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण |

तस्य सम्पुटिका सफलकखटिका, समुद्गकः, सलेखनीकमषीभाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालदलानि सुसभ्मृष्टा भित्तयः, सततसन्निहिताः स्युः |

"तद्धि काव्यविद्यायाः परिकरः"इति आचार्याः |

"प्रतिभैव परिकरः" इति यायावरीयः |

कविः प्रथममात्मानमेव कल्पयेत् |

कियान्मे संस्कारः, क्व भाषाविषये शक्तो ऽस्मि, किं रुचिर्लोकः, परिवृढो वा, कीदृशि गोष्ठ्यां विनीतः, क्वास्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"इति आचार्याः |

"एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रघस्य पुनरेकभाषावत्सर्वा अपि भाषाः स्युः" इति यायावरीयः |

देशविशेषवशेन च भाषाश्रयणं दृश्यते |

तदुक्तम्-
"गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च |

आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ||

जानीयाल्लोकसांमत्यं कविः कुत्र ममेति च |

असंमतं परिहरेन्मते ऽभिनिविशेत च ||

जनापवादमात्रेण न जुगुप्सेत चात्मनि |

जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ||

गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते |

प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ||

प्रत्यक्षकविकाव्यं च रुपं च कुलयोषितः |

गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ||

इदं महाहासकरं विचेष्टितं परोक्तिपाटच्चरतारतो ऽपि यत् |

सदुक्तिरत्नाकरतां गतान्कवीन् कवित्वमात्रघेण समेन निन्दति ||

वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् |

बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ||

कार्यावसरसज्जानां परिव्राजां महीभ्रुजाम् |

काव्यं सद्यः कवीनां च भ्रमत्यह्ना दिशो दश ||

पितुर्गुर्रेर्नन्द्रस्य सुतशिष्यपदातयः |

अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च" ||

"किञ्च नार्द्धकृतं पठेदसमात्पिस्तस्य फलम्" इति कविरहस्यम् |

न नवीनमेकाकिनः पुरतः |

स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा जीयेत |

न च स्वकृतिं बहुमन्येत |

पक्षुपातो हि गुणदोषौ विपर्यासयति |

न च दृप्येत् |

दर्पलवो ऽपि सर्वसंस्कारानुच्छिनत्ति |

परैश्च परीक्षयेत् |

यदुदासूनः पश्यति न तदनुष्ठातेति प्रायोवादः |

कविमानिनं तु छन्दो ऽनुवर्त्तनेन रञ्जयेत् |

कविंमन्यस्य हि पुरतः सूक्तमरण्यरुदितं स्याद्विप्लवेत च |

तदाह-
"इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः |

न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि" ||

अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्रमेण चतुर्द्धा विभजेत् |

स प्रातरुत्थाप कृतसन्ध्यावरिवस्याः सारस्वतं सूक्तमधीयीत |

ततो विद्यावसथे यथासुखमासीनः काव्यस्य विद्या उपविद्याश्चानुशीलयेदाप्रहरात् |

न ह्येवंविधोन्यः प्रतिभाहेतुर्यथा प्रत्यग्रसंस्कारः |

द्वितीये काव्यक्रियाम् |

उपमध्याह्नं स्नायादविरुद्धं भुञ्जीत च |

भोगनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् |

कदाचिच्च प्रश्नोत्तराणि भिन्दीत |

काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा योगा इत्यायामत्रयम् |

चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वाह्नभागविहितस्य काव्यस्य परीक्षा |

रसावेशतः काव्यं विरचयतो न च विवेक्त्री दृष्टिस्तस्मादनुपरीक्षेत |

अधिकस्य त्यागो, न्यूनस्य पूरणम्, अन्यतास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं चेत्यहीनम् |

सायं सन्ध्यामुपासीत सरस्वतीं च |

ततो दिवा विहितपरीक्षकस्याभिलेखनमाप्रदोशात् |

यावदार्त्तं स्त्रियमभिमन्येत |

द्वितीयतृतीयौ साधु शयीत |

सम्यक्स्वापो वपुषः परमारोग्याय |

चतुर्थे सप्रयन्तं प्रतिबुध्येत |

ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्यक्षयतीत्याहोरात्रिकम् |

चतुर्विधश्चासौ |
असूर्यम्पश्यो, निषण्णो, दत्तावसरः, प्रायोजनिकश्च |

यो गुहागर्भभूमिगृहादिप्रवेशान्नैष्ठकवृत्तिः कवते, असावसूर्यम्पश्यस्तस्य सर्वे कालाः |

यःकाव्यक्रियायामभिनिविष्टः कवते न च नौष्ठिकवृत्तिः, स निषाण्णस्तस्यापि त एव कालाः |

यः सेवादिकमविरुन्धानः कवते, स दत्तावसरस्तस्य कतिपये कालाः |

निशायास्तुरीययामार्द्धः, स हि सारस्वतो मुहूर्त्तः |

भोजनान्तः, सौहित्यं हि स्वास्थ्यमुपस्थापयति |

व्यवायोपरमः, यदर्त्तिविनिवृत्तिरेकमेकाग्रतायनम् |

याप्ययानयात्रा, विषयान्तरविनिवृत्तं हि चित्तं यत्र यत्र प्रणिधीयते तत्र तत्र गुहूचीलागं लगति |

यदा यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः |

यस्तु प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकस्तस्य प्रयोजनवशात्कालव्यवस्था |

बुद्धिमदाहार्यबुद्धयोरियं नियममुद्रा |
औपदेशिकस्य पुनरिच्छैव सर्वे कालाः, सर्वाश्च नियममुद्राः |

परुषवत् योषितो ऽपि कवीभवेयुः |

संस्कारो ह्यात्मनि समवैति, न स्त्रैणं पौरुषं वा विभागमपेक्षते |

श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च |

सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात् |

यदित्थं कथयन्ति-
"निक्षेपो विक्रयो दानं देशत्यागो ऽल्पजीविता |

त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ||

दारिद्रयं व्यसनासक्तिरवज्ञा मन्दभाग्यता |

दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः" ||

पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेचयिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि |

"अहर्निशाविभागेन य इत्थं कवते कृती |
एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते ||

यथा यथाभियोगश्च संस्कारश्च भवेत्कवेः |

तथा तथा निबन्धानां तारतम्येन रम्यता ||

मुक्तके कवयो ऽनन्ताः सङ्घाते कवयः शतम् |

महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः" ||

अत्राह स्म-
"बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते |

अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ||

रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः |

कार्यो निबन्धविषये विदुषा प्रयत्नः के पोतयन्त्ररहिता जलधौ प्लवन्ते ||

लीढाभिधोपनिषदां सविधे बुधानाम् अभ्यस्यतः प्रतिदिनं बहुदृश्वनो ऽपि |

किञ्चित्कदाचन कथञ्चन सूक्तिपाकाद् वाक्-तत्त्वमुन्मिषति कस्यचिदेव पुंसः ||

इत्यनन्यमनोवृत्तेनिःशेषे ऽस्य क्रियाक्रमे |

एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ||

सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा |

मूलच्छायां न जानाति यस्याः सो ऽपि गिरां गुरुः" ||

राजा कविः कविसमाजं विदधीत |

राजनि कवौ सर्वो लोकः कविः स्यात् |

स काव्यपरीक्षायै सभां कारयेत् |

सा षोडशभिः स्तम्भैश्चतुर्भिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् |

तदनुलग्नं राज्ञः केलिगृहम् |

मध्येसभं चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका |

तस्यां राजासनम् |

तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् |

बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते |

यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् |

ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तका अन्ये ऽपि तथाविधाः |

पूर्वेण प्राकृताः कवयः, ततः परं नटनर्त्तकगायनवादकवाग्जीवनकुशीलवतालापचरा अन्ये ऽपि तथाविधाः |

पश्चिमेनापभ्रंशिनः कवयः, ततः परं चित्रलेप्यकृतो माणिक्य वन्धका वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्ये ऽपि तथाविधाः |

दक्षिणतो भूतभाषाकवयः ॑ ततः परं भुजङ्गणिकाः प्लवकशौभिकजभ्भकमल्लाः शस्त्रोपजीविनो ऽन्ये ऽपि तथाविधाः |

तत्र यथासुखमासीनः काव्यगोष्टीं प्रवर्त्तयेद् भावयेत् परीक्षेत च |

वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमानाभ्यामनुकुर्यात् |

तुष्टपुष्टाश्चास्य सभ्या भवेयुः स्थाने च पारितोषिकं लभेरन् |

लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवर्वा |

अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् |

मध्वपि नानवदंशं स्वदते |

काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत |

देशान्तरागतानां च वितुषामन्यद्वारा सङ्गं कारयेदौचित्याद्यावत्स्थिति पूजां च |

वृत्तिकामांश्चोपजपत् |

सङ्गृह्णीयाच्च |

पुरुषरत्नानामेक एव राजोदन्वान्भाजनम् |

राजचरितं च रजोपजीविनो ऽप्यनुकुर्युः |

राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः |

महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् |

तत्र परीक्षोत्तर्णानां ब्रह्मारथयानं पट्टबन्धश्च |

श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा-
"इह कालिदासमेण्ठावत्रामररुपसूरभारवयः |

हरिचन्द्रचन्द्रगुत्पौ परीक्षिताविह विशालायाम्" ||

श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा-
"अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्यडिः |

वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः" ||

इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते |

वशस्तस्य जगद्वयापि स सुखी तत्र तत्र च ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविचर्या राजचर्यां च दशमो ऽध्यायः

== आध्यय ११ ==

एकादशो ऽध्यायः ११

शब्दार्थहरणोपायाः कविविशेषाः, तत्र शब्दहरणोपायाः |

शब्दहरणोपायाः |

परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम् |

तद्द्विधा परित्याज्यमनुग्राह्यं च |

तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च |

"तत्रैकपदरणं न दोषाय" इति आचार्याः |

"अन्यत्र द्वयर्थपदात्" इति यायावरीयः |

तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्-
"दूरकृष्टशिलीमुखव्यतिकारान्नो किं किरातानिमा नाराद्वयावृतपीतलोहितमुखान्किं वा पलाशानपि |

पान्थाः केसरिणं न पश्यत पुरोप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्" ||

यथा च-
"मा गाः पान्थ प्रियां त्यक्त्या दूराकृष्टशिलीमुखम् |

स्थितं पन्थानमावृत्य किं किरातं न पश्यसि" ||

श्लिष्टपदैकदेशेन हरणम्-
"नाश्चर्यं यदनार्यात्पावस्तप्रीतिरयं मयि |

मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः" ||

यथा च-
"कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्ते ऽधरः किं वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् |

तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरान् मुग्धे मांसरसं ब्रुवन्तिति तया गाढं समालिङ्गितः" ||

श्लिष्टस्य यमकेन हरणम्-
"हलमपारयोनिधिविस्तृतं प्रहरता हलीना समराङ्गणे |

निजयशश्च शशाङ्ककलामलं निरवधीरितमाकुलमासुरम्" ||

यथा च-
"दलयता विशिखैर्बलमुन्मदं निरवधीरितमाकुलमालुरम् |

दशसु दिक्षु च तेन यशः सितं निरवधीरितमाकुलमासुरम्" ||

श्लिष्टस्य प्रश्नोत्तरेण हरणम्-
"यस्यां भुजङ्गवर्गः कर्णोयतेक्षणं कामिनीववदनं च" ||

यथा च-
"किं करोति कियत्कालं वेश्यावेश्मनि कामुकः |

कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्" ||

यमकस्य यमकेन हरणम्-
"वरदाय नमो हरये पतति जनो ऽयं स्मरन्नपि न मोहरये |

बहुशश्चक्रन्द हता मनसि दितिर्येन दैत्यचक्रं दहता" ||

यथा च-
चक्रं दहतारं चक्रन्द हतारं खङ्गेन तवाजौ राजन्नरिनारी |

एवमन्योन्यसमन्वये ऽन्ये ऽपि भेदाः |

नन्विदमुपदेश्यमेव न भवति ||

यदित्थं कथयन्ति-
"पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति |

अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च न शीर्यति" ||

"अयमप्रसिद्धः प्रसिद्धिमानहम्ष, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गूडूचीवचनो ऽयं मृद्वीकावचनो ऽहम्, अनादृतभाषाविश्षो ऽयमहमादृतभाषाविशेषः, प्रशान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उच्छन्ननिबन्धनमूलमिदं, म्लेच्छितकोपनिबन्धमूलमिदमित्येवमादि भिः कारणैः शब्दहरणे ऽर्थहरणे चाभिरमेत" ||

इत्य् अवन्तिसुन्दरी |

"त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिश्टेभ्यो हरणम्"
इति आचार्याः-
यथा-
"स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः |

नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः" ||

यथा च-
"स पासु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु |

लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु" ||

"न" इति यायावरीयः |

उल्लेखवान्पदसन्दर्भः परिहरणीयो नाप्रत्यभिज्ञायातः पादो ऽपि |

तस्यापि साम्ये न किञ्चन दृष्टं स्यात् |

यथा-
"इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ |

उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः" ||

यथा च-
"इत्युक्तवचनुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी |

संक्षित्पमात्पावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम्" ||

उल्लेखवान्यथा-
"नमः संसारनिर्वाणविषामृतविधायिने |

सत्पलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे" ||

यथा च-
"प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने |

नमो ऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे" ||

"पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्" इति आचार्याः |

यथा---
"त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरक व्रजन्ति |

न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति" ||

यथा च-
"त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीतम् |

जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः" ||

तदिदं स्वीकरणापरनामधेयं हरणमेव (इति यायावरीयः-) |

तद्वदर्ध्दप्रयोगे ऽपि |

यथा-
"पादस्ते नरवर दक्षिणे समुद्रे पादो ऽन्यो हिमवति हेमकूटलग्ने |

आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः" ||

यथा चोत्तरार्द्धे-
"इत्थं ते विधृतपदद्वयस्य राजन् नाश्चर्यं कथमिव सीवनी न भिन्ना" ||

एवं व्यस्तार्द्धप्रयोगे ऽपि |

यथा-
"तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति |

अभ्युद्गते सकलधामनिधौ तु तस्मिन् निन्दोः सिताभ्रशकलस्य च को विशेषः" ||

यथा च--
"तत्तावदेव शशिनः स्फिरितं महीयो यावन्न किञ्चिदपि गौरितरा हसन्ति |

ताभिः पुनर्विहसिताननपङ्कजाभिर् इन्दोः सिताभ्रशकलस्य च को विशेषः" ||

पाद एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा |

यथा-
"अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे |

न्यासापह्नवने चैव दिव्या सम्भवति क्रिया" ||

यथा चोत्तरार्द्धे-
"तन्वङ्गी यदी लभ्येत दिव्या सम्भगवति क्रिया" |

यथा वा---
"यस्य केशेषु जीमूता नद्यः सर्वाङ्गमन्धिषु |

कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः" ||

यथा चोत्तरार्द्धे---
"कुक्षौ समुद्राश्चत्वारः स सहेत स्मरानलम्" |

भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव |

यथा---
"किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरो ऽयं यन्न नास्तं कदाचित् |

भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः" ||

यथा च-
"जयति सितविलोलव्तयालयज्ञोपवीती घनकपिलटानतर्भान्तगङ्गाजलौघः |

अविदितमृगजिह्नमिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी" ||

यथा च-
"कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः |

उदयमहिमरश्मिर्याति शीतांसुरस्तं हतविधिललितानां ही विचित्रो विपाकः ||

" यथा च-
"किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौधः |

निवसति स पिनाकी यत्र यायां तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः" ||

पादोनवत्कतिपयपदप्रयोगो ऽपि यथा-
"या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती |

ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वार्णयन्तो वयं श्रान्ता नैव लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्" ||

यथा च चतुर्थपादे-
"श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्" ||

पादैकदेशाग्रहणमपि पदैकदेशोपलक्षणपरम् यथा-
"असकलहसित्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि |

पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः" ||

यथा चोत्तरार्धे-
"पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः" |

वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा |

यथा-
"सुभ्रु!त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्भ्फताः सुरभयः स्रग्दामधूपादयः |

कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः" ||

एतञ्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्यख्यातं, न स्वीकृतं हृतं वा |

यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् |

मुक्तकप्रबन्धविषयं तत् |

मूल्यक्रयो ऽपि हरणमेव |

वरमप्रात्पिर्यशसो न पुनर्दुर्यशः |

(सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च |

तत्रोपजीवनमात्रेण न कश्चिद्दोषः |

यतः सर्वो ऽपि परेभ्य एव व्युत्पद्यते, केवलं तत्र समुदायो गुरुः) "तद्वहक्तिहरणम्" इति आचार्याः |

यथा -
"ऊरुद्वयं सरसकदलीकाण्डसब्रह्मचारि" |

यथा च --
"उरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा |

वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिसश्च मुखं मृगाक्ष्याः" ||

उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभियाज्ञन्ते, स्वदन्ते च॑ तदर्थस्तु हरणादपि हरणं स्युः" इति यायावरीयः |

"नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः |

स नन्दति विना वाच्यं यो जानात् निगूहितुम् ||

उत्पादकः कविः कश्चित्कश्चिञ्च परिवर्त्तकः |

आच्छादकस्तथा चान्यस्तथा संवर्गको ऽपरः ||

शब्दार्थोक्तिषु यः पश्चेदिह किञ्चन नूतनम् |

उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः" ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे एकादशो ऽध्यायः शब्दहरणानि ||

= आध्यय १२ ==

द्वदशो ऽध्यायः १२

अर्थहरणोपायाः, कविप्रभेदाः, प्रतिबिम्ब-कल्पविकल्पस्य समीक्षा च |

"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कृर्तुं प्रयतेत" इति आचार्याः |

"न" इति वाक्पतिराजः |

"आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारो ऽपि |

अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्यन्दः" ||

तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत |

"तदवगाहने हि तदेकयोनयो ऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके |

"तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे |

महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागायतानाद्रियेत इति च केचित् |

"न" इति यायावरीयः |

सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति |

तदाहुः-
सुत्पस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति |

तदितरस्य तत्र जाग्रतो ऽप्यन्धं चक्षुः |

अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धास्तद्विपरीते तु दिव्यदृशः |

न तत् त्र्यक्षाः सहस्रोक्षो वा यञ्चर्मचक्षुषो ऽपि कवयः पश्यन्ति |

मदिदर्पणे कवीनां विश्वं प्रतिफलति |

कथं नु वयं दृश्यामह इति महात्मनामहम्पूर्विकयैव शब्दार्थाः पुरो धावन्ति |

यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तत्र वाचा विचरन्ति कवयः इत्यनन्ता महाकविषु सूक्तयः (इति) |

"समस्तमर्स्ति" किन्तु त्रिपथमर्थमध्यगीष्महि |

इति यायावरीयः |

यदुतान्ययोनिर्निह्णुतयोनिरयोनिश्च |

तत्रान्ययोनिद्विधा प्रतिबिम्बकल्पः, आलेख्ययप्रख्यश्च |

निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः परपुरप्रवेशसदृश्च |

अयोनिः पुनरेकादृश एव |

तत्र-
अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र |

तदपरमार्थविभेदं काव्यं प्रतिबिम्बिकल्पं स्यात् ||

यथा--
"ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः |

चन्द्रामृदाम्बुकणसेकसुखप्ररुढैर् यैरङ्कुरैरिव विराजति कालकूटः" ||

यथा च-
"जयन्ति नीलकण्ठस्य कण्ठे नीलाः महाहयः |

गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव" ||

कियताषि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति |

तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ||

तत्रैवार्थे यथा-
"जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः |

गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव" ||

विषयस्य यत्र भेदे ऽप्यभेदबुद्धिर्नितान्तसादृश्यात् |

तत्तुल्यदेहितुल्य काव्यं बध्नन्ति सुधियो ऽपि ||

यथा--
"अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् |

अमीषां निर्माणं किमपि तदभूद्दग्धकरिणां वनं वा क्षेणीभृद्भवनमथवा येन शरणम्" ||

अत्रार्थे--
"प्रतिगृहमुपलानामेक एव प्रकारो म्रुहुरुपकरणत्वादर्घिताः पूजिताश्च |

स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः" ||

मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो ऽनेकः |

तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ||

यथा--
"यस्यारातिनितम्बिनीभीरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् |

उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद् घ्राताः कदम्बानिलाः" ||

अत्रार्थे--
"आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् |

हृष्यद्भिः परिचुम्बुतं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कार्णावतंसीकृतम् ||

" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः |

अमीषां चार्थानामन्वर्था अयस्कान्तवञ्चत्वारः कवयः पञ्चमश्चादृष्टचरार्थदर्शी |

तदाहुः-
"भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च यः |

स कविर्लौकिको ऽन्यस्तु चिन्तामणिरलौकिकः ||

तन्वानो ऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः |

यो ऽप्रसिद्धयादिभिर्भाभ्यत्यसौ स्याद् भ्रामकः कविः ||

यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा |

स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ||

परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेति |

समुल्लेकेन केनापि स स्मृतः कर्षकः कविः ||

अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् |

यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ||

चिन्तासमं यस्य रसैकसूतिरुदेति चित्राकृतिरर्थसार्थः |

अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः" ||

तस्य चाचोनिरर्थः |

स च त्रिधा लौकिकालौकिकभेदेन, तयोर्मिश्रत्वेन च |

लौकिकः -
"मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन |

पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृते ऽपि हि यन्त्रयोगात्" ||

अलौकिकः-
"देवी पुत्रमसून नृत्यत गणाः किं तिष्ठतेत्युद्भुजे" हर्षाद्भृङ्गिरिटावुदाः हृतगिरा चामुण्डयालिङ्गिते |

पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः" ||

मिश्रः-
"स्थिते कुक्षेरन्तर्मुरचयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः |

निपाताः सानन्दं रचितफणचक्रेण हलिना लमन्तादस्यासुः प्रतिदिवसमेनांसि भवतः" ||

तेषां च चतुर्णामर्थानाम्-
चत्वार एते कथिता मयैव ये ऽर्थाः कवीनां हरणोपदेशे |

प्रत्तयेकमष्टत्ववशाद्भवन्ति द्वात्रिंशता ते ऽनुगताः प्रभेदैः ||

तत्र प्रतिबिम्बकल्पविकल्पाः |

स एवार्थः पौर्वापर्यविपर्यासाद् व्यस्तकः |

यथा-
"दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय |

गच्छन्दघ्रे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः" ||

अत्रार्थे-
"निर्विवेकमनसो ऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम |

यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारि करिण्या" ||

बृहतो ऽर्थस्यार्द्धप्रणयनं खण्डम् |

"पुरा पाण्डुप्रायं तदनु कपिशिन्मा कृतपदं ततः पाकोद्रेकाररुणगुणसंवर्गितवपुः |

शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति" ||

अत्रार्थे-
"पाकक्रियापरिचयप्रगुणीकृतेन संवर्द्धितारुणगुणं वपुषा निजेन |
आपादितस्थपुटसंस्यितिशोषपोषादेतद्वने विरसतां बदरं बिभर्त्ति" ||

संक्षित्पार्थविस्तरेण तैलबिन्दुः |

यथा-
"यस्य तन्त्रभराक्रान्त्या पातालतलगामिनी |

महावराहृदंष्ट्राया भूयः सस्मार मेदिनी" ||

अत्रार्थे-
"यत्तन्त्राक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा |

सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-स्थूलास्थिश्रेणिशाणानिकाषणसितमप्याशु दंष्ट्राग्रमुग्रम्" ||

अन्यतमभाषानिबन्द्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् |

यथा-
"नेच्छै पासासंकी काओ दिण्णं पि पहिअघरिणीए |

ओहत्तकरयलोग्गलियवलयमज्झदिट्रिठां पिण्डं" ||

("नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या |

अनवरतकरतलोद्गतवलयमध्यस्थितं पिण्डम्" ||

) अत्रार्थे-
"दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् |

वक्रग्रीवश्चलनतशिराः पार्श्रसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः" ||

छन्दसा परिवृत्तिश्छन्दोविनिमयः |

यथा-
"कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् |

एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः" ||

अत्रार्थे-
"धन्यास्तु याः कथयथ प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु |

नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि" ||

कारणपरावृत्त्या हेतुव्यत्ययः |

यथा-
"ततो ऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी |

दघ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्" ||

अत्रार्थे--
"समं कुसुमचापेन गर्भिणीगण्डपाण्डुना |

उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना" ||

दृष्टस्य वस्तुनो ऽन्यत्र संक्रमितिः सङ्क्रान्तकम् |

यथा-
"स्नानार्द्रैर्विधुतकवरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् |

अप्येतेभ्यो नभसि पततः पङ्किशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां कोलिहंसाः पिबन्ति" ||

अत्रार्थे-
"सद्यः स्नातजपत्तपोधनजटाप्रान्तस्त्रुताः प्रोन्मुखैः पीयन्ते ऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः |

एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्" ||

उभयवाक्यार्थोपादानं सम्पुटः |

यथा-
"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्त्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य |

यस्यामन्तः स्फुरितशफरत्रासहासाकुलाक्षी स्वैरं स्वैरं कथमपि मया तीरमृत्तारितासि" ||

यथा-
"नाभीगुहाबिलविशश्चलवीचिजातमञ्जुध्वनिश्रुतिकणत्कलकुक्कुभानि |

रेवाजलान्यविरलं ग्रहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु" ||

अत्रार्थे-
"यद्वर्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-व्यस्तोरुस्तम्भिकाभिदिंशि दिशि सरितां दिग्जयप्रक्रमेषु |

अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्-कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुक्कुभं कामिनीभिः" ||

सो ऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः |

यतः--
"पृथक्त्वेन न गृह्णान्ति वस्तु काव्यान्तरस्थितम् |

पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम्" ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकणे शब्दार्थहरणोपायाः कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशो ऽध्यायः ||

== आध्यय १३ ==

राजचर्या त्रयोदशो ऽध्यायः १३

अर्थहरणेष्वालेख्यप्रख्यादिभेदाः आलेख्यप्रख्यपरिसङ्ख्याः |

सदृशञ्चारणं समक्रमः |

यथा-
"अस्ताद्रिवेश्मनि दिशो वरुणप्रियायास् तिर्यक्कथञ्चिदपयन्त्रणमास्थितायाः |

गण्डैकपार्श्वमिव कुङ्कुमपङ्कचिम्बु बिम्बं रुचामधिपतेरगुणं रराज" ||

१||

यथा च-
"प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कुमारुणकपोलतलेन |

साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः" ||

अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः |

यथा-
"कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततो ऽग्रे पाकपीताम्रपीतम् |

अभिनवरविरोचिर्धूमधूभ्रं शिखायाम् इति विवधविकारं दिद्युते दैपमर्चिः" ||

अत्रार्थे-
"मनाङ्मूले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु |

शिखायामाधूभ्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्दैपं दलयति तमः पुञ्जितमपि" ||

क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः |

यथा तत्रैव--
"श्यामं शिखाभुवि मनागरुणं ततो ऽधः स्तोकावपाण्डुरधनं च ततो ऽप्यधस्तात् |

आपिञ्जरं तदनु तस्य तले च नीलम् अन्धं तमः पटलमर्द्दति दैपमर्चिः" ||

सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः |

यथा-
"इत्युद्गते शशिनि पेशलकान्तदूती-संलापसञ्चलितलोचनमानसाभिः |

अग्राहि मण्डनविधिर्विपरीतभूषा-विन्यासहासितसखीजनमङ्गनाभिः" ||

अत्रार्थे-
" चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारदृष्टे |

प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्" ||

उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः |

यथा-
"दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः |

हेमकुम्भ इव पूर्वपयोधेरुन्ममञ्ज शनकैस्तुहिनांशुः" ||

अत्रार्थे-
"ततस्तमः श्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्ददश्यतान्तरा |

निशातरुण्याः स्थितशेषकुङ्कुमस्तनाभिरामं सकलं कलावतः" ||

तदेव वस्तूक्तिवशादन्यथा क्रियत इति नटनेपथ्यम् |

यथा--
"आननेन्दुशशलक्ष्मकपोले सादरं विरचितं तिलकं यत् |

तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः" ||

अत्रार्थे--
"शोकाश्रुभिर्वासरखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् |

कान्तेषु कालात्ययमाचरन्सु स्वल्पायुषः पत्रलता बभूवुः" ||

परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः" |

अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण |

मूलावलग्रसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोहस्य" ||

अत्रार्थे -
"सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति |

मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव" ||

विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः |

यथा--
"रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः |

निःश्वारान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ||

अत्रार्थे -
"तस्याः प्रतिद्वन्द्विभवाद्विषादात् सद्यो विमुक्तं मुखमाबभासे |

निःश्वासबाष्पापगमे प्रसन्नः प्रसादमात्मीयमिवात्मदर्शः" ||

ता इमा आलेख्यप्रख्यस्य भिदाः |

सो ऽयमनुग्राह्यो मार्गः |

आहुश्च-
"सो ऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः |

नटवद्वर्णिकायागादन्यथान्यथात्वमिवार्च्छति" ||

अथ तुल्यदेहितुल्यस्य भिदाः |

तस्यैव वस्तुनो विषयान्तरयोजनादन्यरुपापत्तिर्विशयपरिवर्त्तिः |

यथा-
"ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः |

ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभ्रुवः श्वासानिलाः पान्तु वः" ||

अत्रार्थे--
"ये कीर्णाक्वथितोदराब्जमधवो ते म्लापितोरः स्त्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतापोभ्फिज्ताः |

ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रतत्पसरलाः श्वासा हरेः पान्तु वः" ||

द्विरुपस्य वस्तुनो ऽन्यतररुपोपादानं द्वन्द्वविच्छित्तिः |

यथा-
"उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्याद् यत्रेन्दनं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् |

क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः" ||

अत्रार्थे-
"दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग दृष्टनष्टा सुखम् |

यां चञ्चत्सफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहुर्मुह्यल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः" ||

पूर्वोर्थानामर्थान्तरैरन्तरणं रत्नमाला |

यथा--
"कपोले मार्जारः पय इति करांल्लेढि शशिनस् तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति |

रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति" ||

अत्रर्थे--
"ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः स्वांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः |

पुभ्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहः सम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च" ||

सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः |

यथा--
"नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः |

त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रेन्दवो दश" ||

अत्रार्थे-
"उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरः समागमे |

षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः" ||

सममभिधायाधिकस्योपन्यासश्चूलिका |

द्विधा च सा संवादिनी विसंवादिनी च |

तयोः प्रथमा यथा-
"अङ्गणे शशिमरीचिलेपने सुत्पमिन्दुकरपुञ्जसन्निभम् |

राजहंसमसमीक्ष्य कातरा रौति हंसवनिताश्रुगद्गगम्" ||

अत्रार्थे-
"चन्दप्रभाप्रसरहिसिनि सौधपृष्टे दुर्लक्षपक्षतिपुटां न विवेद जायाम् |

मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः" ||

द्वितीया तत्रैवार्थे यथा-
"ज्योत्स्नाजलस्नायिनि सौधपृष्टे विविक्तमुक्ताफलपुज्जरौरम् |

विवेद हंसी वयितं कथञ्चिच् चुलत्तुलाकोटिकलैर्निनादैः" ||

निषेधस्य विधिना निबन्धो विधानापहारः |

यथा-
"कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् |

चरणघटनाशून्यो यास्यस्यशोक सशोकताम् इति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः" ||

अत्रार्थे--
"मुखमदिरया पादन्यासैर्विलासविलोकितैर् बकुलविटपी रक्ताशोकस्तता तिलकद्रुमः |

जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिता यद्वर्ग्याभिर्विकासमहोत्सवम्" ||

बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुज्जः |

यथा-
"शैलच्छलेन स्वं दीर्घं भुजमुक्तभ्य भूवधूः |

निशासख्या करोतीव शशाङ्कतिलकं मुखे" ||

यथा च --
"फुल्लातिमुक्तकुसुमस्तवकाभिराम दूरोल्लसत्किरणकेसरमिन्दुर्सिंहम् |

दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-दुर्वारवारणघटा व्यघटन्त सद्यः" ||

यथा च-
"संविधातुमभिषेकमुदासे मन्मथस्य लसर्दशुजलौघः |

यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ||

यथा च--
"उदयति पश्य कृशोदरि दलितत्व(क्)क्षीरकरणिभिः किरणैः |

उदयाचलचूडमणिरेष पुरा रोहिणीरमणः" ||

यथा च--
"उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः |

उदयगिरितटस्फटाट्टहासो रजनिवधीमुखदर्पणः शशाङ्कः" ||

यथा च-
"प्रेषिदैकेन्दुहंसे ऽस्मिन्सस्नाविव तमो ऽम्बुभिः |

नभस्तडागे मदनस्ताराकुमुदहासिनि" ||

अत्रार्थे-
"रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः |

अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी" ||

कन्दभूतो ऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः |

यथा च--
"विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु |

कुमुदाकरेषु विकसति शशिकलशपरिस्त्रुता ज्योत्स्ना" ||

अत्रार्थे-
"वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डुषु गण्डभित्तिषु |

अम्भसि विकसतीव लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका" ||

स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः |

क्षरति चिरं येन यथा ज्योत्स्ना घनसारधूलिरिव ||

सितमणिकलशाकदिन्दोर्हरिणहरित्तृणपिधानत्.ओ गलितैः |

रजनिभुजिष्या सिञ्चति नभो ऽङ्गणं चन्द्रिकाम्भोभिः ||

संविधातुमभिषेकमुदासे मन्यथस्य लसदंशुजलौघः |

यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ||

ता इमास्तुल्यदेहितुल्यस्य परिसंख्याः" |

सो ऽयमुल्लेखवाननुग्राह्यो मार्गः" इति सुरानन्दः |

तदाह--
"सरस्वती सा जयति प्रकामं देवी श्रुतिः स्वस्त्ययनं कवीनाम् |

अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चदिहार्थनत्नम्" ||

अथ परपुरप्रवेशसद्दशस्य भिदाः |

उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुङ्डयुद्धम् |

यथा--
"कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्यथः |

प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने" ||

अत्रार्थे--
"कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः |

मृगदृशां कदलीललितं वपुर्यदभिहन्ति शरैः कुसुमोद्भवैः" ||

प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् |

यथा--
"माद्यञ्चकोरेक्षणतुल्यधाम्नो धारां दधाना मधुना मधुनः पतन्तीम् |

चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी" ||

अत्रार्थे-
"मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन |

वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन" ||

उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः |

यथा-
"अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण |

कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः" ||

अत्रार्थे-
"मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव |

दीर्घापाङ्गनदीं विलङ्ध्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा भृगदृशो मामभ्यषिञ्चन्दृशः" ||

शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः |

यथा-
"जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः |

सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांशवः" ||

अत्रार्थे-
"सन्मार्गालोकनप्रौढिनीरजीकृतजन्तवः |

जयन्त्यपूर्वव्यापाराः पुरारेः पादपांशवः" ||

तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः |

यथा-
"स्नानार्द्रार्दैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् |

अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति" ||

अत्रार्थे-
"लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसूत्रसुभगाः प्रात्पाः पयोबिन्दवः |

ते वः पान्तु विशेषसस्पृहद्दशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः" ||

पूर्वं सदृशः पश्चाद्भिन्नो जीवञ्चीवकः |

यथा-
"नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु |

सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणैव काचितासीत्" ||

अत्रार्थे-
"भास्वत्कपोलतलकुण्डलपारिहार्य-सन्मेखलामणिगणप्रतिबिम्बितेन |

चन्द्रेण भाति रमणी रमणीयवक्त्र-शोभाभिभूतवपुषेव निषेव्यमाणा" ||

प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा |

यथा-
"ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु |

तमालपत्रास्तरणासु रन्तुं प्रसीद शश्चन्मलयस्थलीषु" ||

अत्रार्थे-
"निश्वेतनानामपि युक्तयोगदो नूनं स एनं मदनो ऽधिष्ठति |

एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताधिरोहति" ||

पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी (धिनी) |

यथा-
"हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ |

वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरश्चन्द्रात्त्वया शिक्षितः" ||

अत्रार्थे-
"मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया वाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली |

व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम्" ||

इत्यर्थहरणोपाया द्वार्त्रिंशदुपदर्शिताः |

हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ||

कि.ं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः |

अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ||

किञ्च-
शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः |

किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशो ऽध्यायः ||

== आध्यय १४ ==

चतुर्दशो ऽध्यायः १४

कविसमयः जातिद्रव्यक्रियासमयस्थापना |

अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः |

"नन्वेष दोषः |

कथङ्कारं पुनरुपनिबन्धनार्हः?"इति आचार्याः |

"कविमार्गानुग्राही कथमेष दोषः?" इति यायावरीयः |

"निमित्तं तर्हि वाच्यम्" इति आचार्याः ||

"इदमभिधीयते" इति यायावरीयः |

पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तेराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेन अन्यथात्वे ऽपि तथात्वेनोपनिबन्धो यः स कविसमयः |

कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदशिभिः प्रयुक्तो रूढश्च |

तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्यरोपक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः |

स च त्रिधा स्वर्ग्यो भौमः पातालीयश्च |

स्वर्ग्यपातालीययोर्भौमः प्रधानः |

स हि महाविषयकः |

स च चतुर्द्धा जातिद्रव्यगुणक्रियारुपार्थतया |

ते ऽपि प्रत्यक्षं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च |

तत्र सामान्यस्यासतो निबन्धनम्, यथा--नदीषु पद्मोत्पलादीनि, जलाशयमात्रे ऽपि हंसादयो, यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च |

नदीपद्मानि यथा-
"दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः |

यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः" ||

नदीनीलोत्पलानि--
"गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलवारैः खेचराणां हरन्तीम् |

कुवलयवनकान्त्या जाह्ववीं सो ऽभ्यपश्यत् दिनपतिसुतयेव व्तक्तदत्ताङ्कपालीम्" ||

एवं नदीकुमुदाद्यपि |

सलिलमात्रे हंसा यथा-
"आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः क्षीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् |

हेलान्दोलितहंससारसकुलर्क्रेकारसंमूर्च्चितैर् इत्याघोषयतीव तन्नवनदी यच्चेष्टितं वारिभिः" ||

पर्वतमात्रे सुवर्णं यथा-
"नागावासश्चित्रपोताभिरामः स्वर्णस्फीतिव्यात्पदिक्चक्रवालः |

साम्यात्सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता" ||

रत्नानि यथा-
"नीलाश्मरश्मिपटलानि महेभमुक्त-सूत्कारसीकरविसृञ्जि तटान्तरेषु |

आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्थः" ||

एवमन्यदपि |

सतो ऽप्यनिबन्धनम्, तद्यथा-न मानती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु |

तत्र प्रथमः-
"मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् |

आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः" ||

द्वितीयः-
"यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः |

निजवपुषैव परेषां तथापि सन्तापमपहरति" ||

तृतीयः-
"दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः |

नाशोकऽस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः" ||

अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः, तद्यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि |

तयोः प्रथमः-
"गोत्राग्रहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् |

दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः" ||

द्वतीयः-
"कामं भवन्तु सरितो भुवि सप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च |

एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः" ||

असतो ऽपि द्रव्यस्य निबन्धनम् |

तद्यथा-मुष्टिग्राह्यत्वं सूचीभेद्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः |

तत्र प्रथमम्-
"तनुलग्रा इव ककुभः भूवलयं चरणचारमात्रमिव |

दिवमिव चालिकदध्नीं मुष्टिग्राह्यं तमः कुरुते" ||

तथा च-
"पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये |

मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम्" ||

द्वितीयम् -
"यन्त्रद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनर्विधेर्योग्यव्छविः प्रागभूत् |

उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका" ||

द्रव्यस्य सतो ऽनिबन्धनं, तद्यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य |

तयोः प्रथमम्-
"ददृशाते जनैस्तत्र याघत्रायां सकुतूहलैः |

बलभद्रहृषीकेशौ पक्षाविव सितासितौ" ||

द्वितीयम् -
"मासि मासि समा ज्योत्स्ना पक्षयोः शक्लकृष्णयोः |

तत्रैकः शक्लतां यातो यशः कुण्यैरवाप्यते" ||

द्रव्यनियमः, तद्यथा-मलय एव चन्दनस्थानं, हिमवानेव भूर्जोत्पत्तिस्थानम् |

तत्र प्रथमः-
"तापापहारचतुरो नागावासः सुरप्रियः |

नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः" ||

द्वितीयः-
"न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः |

व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्" ||

प्रकीर्णकद्रव्यकविसमयस्तु, तद्यथा-
क्षीरक्षारसमुद्रयोरैक्यं सागरमहासमुद्रयोश्च |

तयोः प्रथमः-
"शेतां हरिर्भवतु रत्नमनन्तमन्तर्-लक्ष्मीप्रसूतिरिति नो विवदामहे हे |

हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वत्र कूपपयसः स मरोर्जघन्यः" ||

द्वितीयः-
"रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः |

स ददर्श पुरो गङ्गां सत्पसागरवल्लभाम्" ||

असतो ऽपि क्रियार्थस्य निबन्धनम्, यथा-चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च |

तत्र प्रथमः-
"सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयः पूरान् |

रथचरणाह्वयवयसां किं नोपकृतं निदाघेन" ||

द्वितीयः-
"एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः |

यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ||

सतो ऽपि क्रियार्थस्यानिबन्धनम्, तद्यथा-दिवा नीलोत्पलानामविकासो, निशानिमित्तश्च शोफालिकाकुसुमानाविस्त्रंसः |

तत्र प्रथमः-
"आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे |

जातः पुनर्विकसनावसरो ऽयमस्येत्य् उक्त्वा सखो कुवलयं श्रवणे चकार" ||

द्वितीयः-
"त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा |

इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः" ||

नियमस्तु, तद्यथा-ग्रीष्मादौ सम्भवतो ऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः |

तयोः प्रथमः-
"वसन्ते शीतभीतेन कोकिलेन वने रुतम् |

अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः" ||

द्वितीयः-
"मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः |

कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि" ||

कवीनां समयः सो ऽयं जातिद्रव्यक्रियागतः |

गुणस्थैष ततः स्वर्ग्यः पातालीयश्च कथ्यते ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविसमये जातिद्रव्यक्रियासमयस्थापना नाम चतुर्दशो ऽध्यायः ||

== आध्यय १५ ==

पञ्चदशो ऽध्यायः १५

गुणसमयस्थापना असतोगुणस्य निबन्धनम् |

यथा-यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम् |

तत्र यशःशौक्ल्यम्-
"स्तेमः स्तोको ऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिर् मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं को ऽयमीदृक्प्रकारः |

इत्थं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ||

हासशौक्ल्यम्-
"अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः |

जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः" ||

अयशः कृष्णत्वम् -
"प्रसरन्ति कीर्त्तयस्ते तव च रिकूणामकीर्त्तयो युगपत् |

कुवलयदलसंवलिताः प्रतिदिनमिव मालतीमालाः" ||

पापकार्ष्ण्यम्-
"उत्खातनिर्मलमयूखकृपाणलेखाश्यामायिता तनुरभूद्धयकन्धरस्य |

सद्यः प्रकोपकृतकेशववंशनाशसङ्कल्पसज्जनितपापमलीमसेव" ||

क्रोधरक्तता-
"आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण |

भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्त्तनेव" ||

अनुरागरक्तता यथा-
"गुणानुरागमिश्रेण यशसा तव सर्पता |

दिग्वधूनां मुखे जातमकस्मादर्ध्दकुङ्कुमम्" ||

सतो ऽपि गुणस्यानिबन्धनम्, (यथा)-
कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुषुष्पाणां च पीतत्वम् |

कुन्दकुड्मलाद्यरक्तता-
"द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः |

स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती" ||

पद्ममुकुलाहरितत्वम्-
"उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवे ऽम्भसि महीमुद्यच्छतो हेतया |

तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः" ||

प्रियङ्गुपुष्पापीतत्वम्-
"प्रियङ्गुश्याममम्भोधिरन्ध्रणां स्तनमण्जलम् |

अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः" ||

गुणनियमस्तु तद्यथा-सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां शुक्लता, मेघानां कृष्णता च |

तत्र प्रथमः-
"सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघनराजिषु सम्भृतानि |

रन्तानि ते दधति कञ्चिदिहायताक्षि मेधोदरोदितदिनाधिपबिम्बशङ्काम्" ||

पुष्पशुक्लता-
"पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् |

ततो ऽनुकुर्याद्विशदस्य तस्यास्ताभ्रौष्ठपर्यस्तरुचः स्मितस्य" ||

मेघकार्ष्ण्यम्-
"मेघश्यामेन रोमेण पूतवेदिर्विमानराट् |

मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ" ||

कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः |

कथं कृष्णनीलयोरैक्यम्-
"नदीं तूर्णं कर्णोप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहारम् |

ततः सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः" ||

कृष्णहरितयोरैक्यम्-
"मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् |

तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः" ||

कृष्णश्यामलयोरैक्यम्-
"एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति |

यत्र श्यामनिशासु मुञ्चति मिलन्मन्तः प्रदोषानिलाम् उद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम्" ||

पीतरक्तयोरैक्यम् -
"लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे |

दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः" ||

शुक्लगौरयोरैक्यम् -
"कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतष्ठम् |

अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम्" ||

एवं वर्णान्तरेष्वपि |

चक्षुरादेरनेकवर्णोपवर्णनम् |

तत्र चक्षुषः शुक्लता-
"तिष्ठन्त्या जनसङ्कुले ऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेङ्खति |

हीनभ्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः" ||

श्यामता-
"अथ पथि गमयित्वा रम्यकॢत्पोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः |

पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम्" ||

कृष्णता-
"पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः |

वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्" ||

मिश्रवर्णता-
"तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्योत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् |

कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्" ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे गुणसमयस्थापना पञ्चदशो ऽध्यायः ||

== आध्यय १६ ==

कविसमयः षोडशो ऽध्यायः १६

स्वर्ग्यपातालीयकविरहस्य (समय)स्थापना भौमवत्स्वर्ग्यो ऽपि कविसमयः, विशेषस्तु चन्द्रमसि शशहरिणयोरैक्यम् |

यथा-
"मा भैः शशाङ्क? मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि |

प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्" ||

यथा च -
"अङ्काधारोपितमृगश्चन्द्रमा मृगलाञ्छनः |

केसरी निष्टुरक्षित्पमृगयूतो मृगाधिपः" ||

कामकेतने मकरमत्स्ययोरैक्यं यथा-
"चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते |

दग्धा कापि तवाकृतेः प्रतिकृतिः कामो ऽसि किं गूहसे रुपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः" ||

यथा च-
"मीनध्वजस्त्वमसि नो न च षुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि |

इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः" ||

यथा च -
"आपातमारुतविलोडितसिन्धुनाथो हात्कारभीतपरिवर्त्तितमत्स्यचिह्वाम् |

उल्लङ्घ्य यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि" ||

अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम् -
"वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सत्प ये तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रो ऽभवत् |

एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्यो ऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः" ||

बहुकालजन्मनो ऽपि शिवचन्द्रमसो वालत्वम् |

"मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य |

दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनीतात्" ||

कामस्य मूर्त्तत्वं च यथा-
"अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्त्ति वपुषाधुना विरहकातरः कामिनीम् |

अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः" ||

यथा च -
"धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृति य इमे पञ्च विशिखाः |

इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः" ||

द्वादशानामप्यादित्यानामैक्यम् -
"यस्याधो ऽधस्तथोपर्युपरि निरवधि भ्राभ्यतो विश्वमश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः |

सो ऽव्यादुत्तत्पकार्त्तस्वरसरलशरस्पर्द्धिभिर्द्धामदण्डैर् उद्दण्डैः प्रापयन्वः प्रयुरतमतमः स्तोममस्तं समस्तम्" ||

नारायणमाधवयोश्च यथा-
"येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधे ऽन्धकक्षयकरो यो बर्हिपत्रप्रियः |

यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सो ऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः" ||

एवं दामोदरशेषकूर्मादेः |

कमलासम्पदेश्च यथा-
"दोर्मन्देरितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयत् |

तां लक्ष्यीं पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रूलता-निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम्" ||

भौमस्वर्ग्यवत्पातालीयो ऽपि कविसमयः |

तत्र नागसर्पयोरैक्यम् -
"हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः |

सोढाविषह्यवृषवाहनयोगलीला-पर्यङ्कबन्धनविधेस्तव को ऽतिभारः" ||

दैत्यदानवासुराणामैक्यम्, यथा तत्र हिरण्याक्षहिरण्यकशिप्रुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रविक्षुरस्तवृषपर्वादयासुराः |

तेषामैक्यं यथा-
"जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः |

सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः" ||

यथा च -
"तं शम्बरासुरशराशनिशल्यसारं केयूररत्नकिरणारुणबाहुदण्डम् |

पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः" ||

यथा च-
"अस्ति दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः |

प्रथयन्ति बलं बाह्वो सितच्छत्रस्मिताः श्रियः" ||

यथा च-हयग्रीवं प्रति-
"दानवाधिपतेः भूयो भुजो ऽयं किं न नीयते |

सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु" ||

यथा च-
"महासुरसमाजे ऽस्मिन् न चैको ऽप्यस्ति सो ऽसुरः |

यस्य नाशनिनिष्पेषनीराजितमुरः स्थलम्" ||

एवमन्ये ऽपि भेदाः -
"सो ऽयं कवीनां समयः काव्ये सुत्प इव स्थितः |

स साम्प्रतमिहास्माभिर्यथाबुद्धि बिबोधितः" ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे स्वर्ग्यपातालीयकविसमयस्थापना षोडशो ऽध्यायः ||

== आध्यय १७ ==

सप्तदशो ऽध्यायः १७

देशकालविभागः तत्र देशविभागः देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति |

जगज्जगदेकदेशाश्च देशः |

"द्यावापृथिव्यात्मकमेकं जगत्" इत्येके |

तदाहु-
"हलमगु बलस्यैको ऽनड्वान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् |

प्रवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम्" ||

"दिवस्पृथिव्यौ द्वे जगती" इत्यपरे |

तदाहुः-
"रुणद्धि रोदसी वास्य यावत्कीर्त्तिरनश्वरी |

तावत्किलायमध्यास्ते सुकृती वैबुधं पदम्" ||

"स्वर्गमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके |

तदाहुः-
"त्वमेव देव पातालमाशानां त्वं निबन्धनम् |

त्वं चामरमरुद्भूमिरेको लोकत्रयायसे" ||

"तान्येव भूर्भ्रुवःस्वः"इत्यन्ये |

तदाहुः-
"नमस्त्रिभुवनाभोगभृतिखेदभरादिव |

नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने" ||

"महर्जनस्तपःसत्यमित्येतैः सह सत्प" इत्यपरे |

तदाहुः-
"संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः |

हर्षस्य सत्पभुवनप्रथितोरुकीर्त्तेः प्रासादपड्क्तिरियमुच्छिखरा विभाति" ||

"तानि सत्पभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् |

तदाहुः-
"निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् |

प्रथम इह भवान्स कूर्ममूर्त्तिर्जयति चतुर्द्दशलोकवल्लिकन्दः" ||

"तानि सत्पभिः पातालैः सहैकविंशतिः" इति केचित् |

तदाहुः-
"हरहासहरावासहरहारनिभप्रभाः |

कीर्त्तयस्तव लिम्पन्तु भुवनान्येकर्विंशतिम्" ||

"सर्वमुपपन्नम्" इति यायावरीयः |

अविशेषविवक्षा यदेकयति, विशेषविवक्षात्वनेकयति |

तेषु भूर्लोकः पृथिवी |

तत्र सत्प महाद्वीपाः |

"जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलो ऽतः कुशो ऽतः |

क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः" ||

"लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः |

स्वादुवारिरुदधिश्च सत्पमस्तान्परीत्य त इमे व्यवस्थिताः" ||

"एक एवायं लावणः समुद्रः" इत्येके |

तदाहुः-
"द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैर् रेकोम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् |

कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरवीर्ये पर्यात्पं मे न दातुं तदिदमिति धिया वेधसे यश्चुकोप" ||

"त्रयः" इत्यन्ये |

तदाहुः-
"आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य |

वीर्येण संहतिभिदा विहतोन्तेन कल्पान्तकालविसृतः पवनो ऽनुचक्रे" ||

यथा वा-
"माताङ्गानामभावे मदमलिनमुखैः प्रात्पमाशाकरीन्द्रैः जाते रन्तापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् |

छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदञ्चत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत्" ||

"चत्वारः" इत्यपरे |

तदाहुः-
"चतुः समुद्रवेलोर्मिरचितैकावलीलतम् |

मेरुमप्यद्रिम्रुल्लङ्घ्य यस्य क्वापि गतं यशः" ||

"भिन्नाभिप्रायतयया सर्वमुपपन्नम्" इति यायवरीयः |

सत्पसम्रुद्रीवादिनस्तु शास्त्रादनपेता एव |

तदाहुः-
"आगस्त्यचुलुकोच्छिष्टसत्पवारिधिवारिणि |

म्रुहूर्त्तं केशवेनापि तरता पूतरायितम्" ||

मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः |

यो मूर्त्तानामौषधीनां निधानं यश्वावासः सर्ववृन्दारकाणाम् ||

"तमेनमवधीकृत्य देवेनाम्बुजजन्मना |

तिर्यगूर्ध्वमधस्ताञ्च विश्वस्य रचना कृता" ||

स भगवान्मेरुराद्यो वर्षपर्वतः |

तस्य चतुर्दिशमिलावृतं वर्षम् |

तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च |

रम्यकं, हिरण्ययम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि |

दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च |

हरिवर्षं, किंपुरुषं, भारतमिति च त्रीणि वर्षाणि |

तत्रेदं भारतं वर्षमस्य च नव भेदाः |

इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णो, गभस्तिमान्, नागद्वीपः, सौम्यो, गन्धर्वों, वरुणः, कुमारीद्वीपश्चायं नवमः |

पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते |

तान्येतानि यो जयति स सभ्राडित्युच्यते |

कुमारीपुरात्प्रभृति बिन्दुसरो ऽवधि योजनानां दशशती चक्रवर्त्तिक्षेत्रम् |

तां विजयमानश्चक्रवर्त्ती भवति |

चक्रवर्त्तिचिह्नानि तु-
"चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा |

प्रोक्तानि सत्प रत्नानि सर्वेषां चक्रवर्त्तिनाम्" ||

अत्र च कुमारीद्वीपे-
"विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः |

महेन्द्रसह्यमलयाः सत्पैते कुलपर्वताः" ||

तत्र विन्ध्यादयः प्रतीतस्वरुपाः, मलयविशेषास्तु चत्वारः |

तेषु प्रथमः-
"आ मूलयष्टेः फणिवेष्टितानां सच्च्न्दनानां जननन्दनानाम् |

कक्कोलकैलामरिचैर्युतानां जातीतरुणां च स जन्मभूमिः" ||

द्वितीयः-
"यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चिति ताम्रपर्णी |

रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ||

तत्र द्रुमा विद्रुमनामधेया वंशेषि मुक्ताफलजन्म तत्र |

मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः" ||

तृतीयः-
"विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य |

सदाफलैः पुष्पलताप्रवालैराश्चर्यमूलं मलयः स तत्र" ||

चतुर्थः-
"सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः |

द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ||

प्रवर्त्तते
कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्यो ऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा" ||

पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्वान्तरमार्यावर्त्तः |

तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च |

यन्मूलश्च सदाचारः |

तत्रत्यो व्यवहारः प्रायेण कवीनाम् |

तत्र वाराणस्याः पुरतः पूर्वदेशः |

यत्राङ्गकलिङ्गकोसलतोस(शष) लोत्कलमगधमुद्गरविदेहनेपालपुण्ड्र प्राग्ज्योतिषतामलित्पकमलदमल्लवर्त्तकसुह्यब्रह्योत्तरप्रभृतयो जनपदाः |

बृहद्गृहलोहितगिरिचकोरदर्दुरनेपालकामरुपादयः पर्वताः |

शोणलौहित्यौ नदौ |

गङ्गाकरतोयाकपिशाद्याश्च नद्यः |

लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः |

माहिष्मत्याः परतो दक्षिणापथः |

यत्र महाराष्ट्रमाहिषकाश्मकविदर्भकुन्तलक्रथकैशिकसूर्पारककाञ्चीकेरलकावेरमुरलवानवासकसिंहलचोडदण्ड कपाण्ड्यपल्लवगाङ्गनाशिक्यकौङ्कणकोल्ल (ल) गिरिवल्लरप्रभृतयो जनपदाः |

विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः |

नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणाकृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्युत्पलावतीरावणगङ्गाद्या नद्यः |

तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता |

देवसभायाः परतः पश्चाद्देशः |

तत्र देबसभसुराष्ट्रदशेरकत्रवणभृगुकच्छकच्छीयानर्त्तर्बुदब्रबह्यणवाहयवनप्रभृतयो जनपदाः |

गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदादयाश्च पर्वताः |

सरस्वतीश्वभ्रवतीवार्तध्नीमहाहिडिम्बाद्या नद्यः |

करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः |

पृथूदकात्परत उत्तरापथः |

यत्र शककेकयवोक्काणहूणवाणायुजकाम्बोजवालीकवलवलिम्पाककुलूतकीरतङ्गणतुषारतुरुष्कबर्बरहरहूरवहूहूकसहुड हंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः |

हिमालयकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः |

गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनेरावतीवितस्ताविपाशाकुहूतेवि काद्या नद्यः |

सरलदेवदारुद्राक्षाकुङ्कुमचराजिनसौवीरस्रोतोज्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः |

तेषां मध्ये मध्यदेश इति कविव्यवहारः |

न चायं नानुगन्ता शास्त्रार्थस्य |

तदाहुः-
"हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि |

प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्त्तितः" ||

तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् |

द्वीपान्तराणां ये देशाः पर्वताः सरितस्था |

नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ||

"विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तरर्वेदी |

तदपेक्षया दिशा विभजेत" इति आचार्याः |

"तत्रापि महोदयं मूलमवधीकृत्य" इति यायावरीयः |

"अनियतत्वाद्दिशा मनिश्चिचो दिग्विभाग" इत्येके |

तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति |

"अवधिनिबन्धनमिदं रुपमितरत्त्वनियतमेव" इति यायावरीयः |

"प्राच्यपाचीप्रतीच्युदीच्यः चतस्रो दिशः" इत्येके |

तदाहुः-
"चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन |

विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म" ||

"ऐन्द्री, आग्नेयी, याम्या, नेरृती, वारुणी, वायव्या कौबेरी, ऐशानी चाष्टौद्दिशः" इत्येके |

तदाहुः-
"एकं ज्योतिर्द्दशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर् भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि |

युष्माकं तानि सत्पत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानोर् यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितानां शतानि" ||

"ब्राह्मी नागीया च द्वे ताभ्यां सह दशैताः" इत्यपरे |

तदाहुः-
"दशदिक्तटपर्यन्तसीमसङ्कटभूमिके |

विषमा स्थूललक्ष्यस्य ब्रह्याण्डग्रामके स्थितिः" ||

सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता |

तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, घ्रुवेणोदीची, तदनुसारेणापाची |

अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधश्तान्नागीयेति |

द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च |

तत्र प्राक्सिद्धे प्राची-
"द्वित्रैर्व्योन्मि पुराणमौक्तिकमणिच्छेयैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुत्पाश्चकोराङ्गनाः |

यातो ऽस्ताचलचूलमुदूसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्" ||

दक्षिणा-
"दक्षिणो दक्षिणामाशां यियासुः सो ऽधिकं बभौ |

जिहासुर्दक्षिणामशां भगवानिव भास्करः" ||

पश्चिमा-
"पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता |

दीर्घया प्रतिमया सरोभ्भसस्तापनीयमिव सेतुबन्धनम्" ||

उत्तरा-
"अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः |

पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः" ||

विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा-
"यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन |

नो चेन्निरन्तरधराधरसेतुसूतिर् आकल्पमेष न विरंस्यति वो वियोगः" ||

दक्षिणोत्तरौ यथा-
"काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः |

कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः" ||

उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावपि उत्तरदिगभिधानम् |

तयोः प्रथमम् -
"तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन |

यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः" ||

द्वितीयम् -
"सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी |

पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः" ||

एवं दिगन्तरेष्वपि |

तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् |

साधारणां तूभयत्र लोकप्रसिद्धितश्च |

तदूद्वर्णनियमः |

तत्र पौरस्त्यानां श्यामो वर्णाः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डु, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च |

पौरस्त्यश्यामता-
"श्यामेष्वङ्गेषु गौहीनां सूत्रहारैकहारिषु |

चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति" ||

दाक्षिणात्यकृष्णता-
"इदं भासां भर्त्तुद्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् |

अथैष प्राचीनः सरति मुरलीगण्डमलिनस् तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः ||

" पाश्चात्यपाण्डुता-
"शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति |

किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु ||

" उदीच्यगौरता-
"पुष्पैः सम्प्रति कञ्चनारतरवः प्रत्यङ्गमालिङ्गिताः वा लीकीदशनव्रणारुणतरैः पत्रैरशोको ऽर्चितः |

जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः" ||

यथा वा-
"काश्मीरीगात्रेखासु लोलल्लावण्यवीचिषु |

द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्" ||

मध्यदेश्यकृष्णता यथा-
"युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः |

पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव" ||

तद्न्मध्यदेश्यश्यामता |

न च कविमार्गे श्यामकृष्णयोः पाण्डुगौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम |

मध्यदेश्यगौरता-
"तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः |

अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन" ||

विशेषस्तु पूर्वदेशे राजपुत्र्यादीना गौरः पाण्डुर्वा वर्णः |

एवं दक्षिणदेशे ऽपि |

तत्र प्रथमः -
"कपोले जानक्याः करिकलभदन्तद्युतिमुषु स्मरस्मेरस्फारोड्मरपुलके वक्त्रकमलम् |

मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः" ||

द्वितीयः-
"तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् |

शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी" ||

एवमन्यदपि यथासम्भवमभ्यूह्यम्-
निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः |

तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ||

इत्थं देशविभागो म्रुद्रामात्रेण सूत्रितः सुधियाम् |

यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे देशविभागः सप्तदशो ऽध्यायः ||

== आध्यय १८ ==

अष्टादशो ऽध्यायः १८

कालविभागः कालः काष्टादिभेदभिन्नः |

काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति |

त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ||

ते च चैत्रघाश्वयुजमासयोर्भवतः |

चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च |

आश्वयुजीत्परतः पुनरेतदेव विपरीतम् |

राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् |

पञ्चदशाहोरात्रः पक्षः |

वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् |

अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः |

पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् |

इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः |

एवं च द्वौ पक्षौ मासः |

द्वौ मासावृतुः |

षण्णामृतूनां परवर्त्तः संवत्सरः |

स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः |

तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः |

तत्र "वर्षासु पूर्वो वायुः" इति कवयः |

"पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता" इत्याचार्याः |

तदाहुः-
"पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्" इति |

तदाहुः-
"प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् |

कादम्बकुसुमामोदा वायवो वान्ति वारुणाः" ||

"वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्" इति यायावरीयः |

तदाहुः-
"पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः |

सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य" ||

शरद्यनियतदिक्को वायुर्यथा-
"उषःसु ववुराकृष्णजहावश्यायशीकराः |

शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः" ||

"हेमन्ते पाश्चात्यो वायुः", इति एके |

"उदीच्य" इति अपरे |

"उभयमपि"इति यायावरीयः |

तयोः पाश्चात्य--
"भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः |

पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः" ||

उदीच्यः-
"लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः |

एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः" ||

शिशिरे ऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा |

वसन्ते दक्षिणः |

तदुक्तम् -
"धुन्वलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनाम् आन्ध्रीधंमिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः |

उद्दामं दाक्षिणात्यो मलितमलयजः सारिथिर्मीनकेतोः प्रात्पः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः" ||

"उभयतदिक्को वायुर्ग्रीष्मे" इत्येके |

"नैऋर्तः " इत्यपरे |

"उभयमपि" इति यायावरीयः |

तत्र प्रथमः-
"वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रथ्नन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः |

किं चान्यन्मृगतृष्णिङ्काम्बुवसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्" ||

द्वितीयः-
"सो ऽयं करैस्तपति वह्णिमयैरिवार्कः साङ्गारविस्तरविस्तरभरेव धरा समग्रा |

वायुः कुकूलमिव वर्षति नैऋर्तश्च कार्शानवैरिव शरैर्मदनश्च हन्ति" ||

किञ्च -
गर्भान्बलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनदैः सृजन्तः |

"रजो ऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति" ||

स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः |

दग्धोर्वरासुन्दरगन्धबन्धुरर्घत्ययं वारिमुचामनेहा ||

वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति |

पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि ||

चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा |

गृहान्प्रति प्रस्थितपान्थसार्थः कालो ऽयमाध्मातनभाः पयोदैः ||

या केलियात्रा करिकामिनीभिर् यातुङ्गहर्म्याग्रविलासशय्या |

चतुःसमं (मो यो)यन्मृगनाभिगर्भर्ं(भः) सा वारिदर्त्तोः प्रथमातिथेयी ||

चलञ्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः |

शिखण्डिकुलताण्डवामुदितमद्गुकङ्काह्वयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ||

दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः |

कदम्बकलुषाम्बरः कलितकेतकीकोरकश् चलन्निचुलसञ्चयो हरति हन्त धर्मात्ययः ||

वर्षाः ||

द्राग्गर्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफन् |

शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ||

सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु |

शेफालिकासत्पपलाशकाशमण्डीरसौगन्धिकमालतीषु ||

सखञ्जरीटा सपयः प्रसादा सा कस्य नो मानसमाच्छिनति |

कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ||

उपानयन्ती कलहंसयूथमगस्त्यदृष्टया पुनती पयांसि |

मुक्तासु शुभ्रं दधती च गर्भं शरद्वचित्रैश्चरितैश्चकास्ति ||

क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः |

शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ||

अत्रावदातद्युति चन्द्रिकाम्बुनीलावभासं च नभः समन्तात् |

सुरेभवीथी दिविसावतारो जीर्णाभ्रखण्डानि च पाण्डुराणि ||

महानवम्यां निखिलास्त्रपूजाः नीराजना वाजिभटद्विपानाम् |

दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ||

व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही |

भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ||

केदार एव कलमाः परिणामनभ्राः प्राचीनमामलकमर्धति पाकनीलम् |

एर्वारुकं स्फुटननिर्गतगर्भगन्धम् अम्लीभवन्ति च जरत्त्रपुसीफलानि ||

गेहाजिरेषु नवशालिकणावपात-गन्धानुभावसुभगेषु कृषीवलानाम् |

आनन्दयन्ति मुसलोल्लसनावधूत-पाणिस्खलद्वलयद्धतयो वधूट्यः ||

तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः |

तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपौति पङ्कम् ||

नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिर् एखाङ्कवालपुलिनोदरसुत्पकूर्माः |

अस्यां तरङ्गितनुतोयपलायमान-मीनानुसारिबकदत्तकरालफलाः ||

अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः |

लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति" ||

शरत् ||

द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु |

पञ्चषफलिनीकुसुमो जयति हिमर्त्तुर्नवावतरः ||

पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः |

वक्रोल्लसत्कुङ्कुमसिक्थकाङ्काः सुगन्धतैलाः कवरीर्वहन्ति ||

यथा यथा पुष्पति शीतकालस्तुषारचूर्णोत्करकीर्णवातः |

तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ||

वराहवर्धाणि नवौदनानि दधीनि सन्नद्धशराणि चात्र |

सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ||

अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदते ऽन्नपानम् |

सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवे ऽस्मै ||

विमुक्तबर्हा विमदा मयूराः प्ररुढगोधूमयवा च सीमा |

व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ||

सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च |

त्रिशङ्कुतिलका रात्र्यः पच्चन्ते लवणानि च ||

उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु |

मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ||

कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति |

कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते काप्यपूर्वा ||

येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः |

लीलावह्निर्निह्नुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति" ||

इति हेमन्तः |

हेमन्तधर्मः शिशिरः, विशेषस्तु |

"रात्रिर्विचिघत्रसुरतोचितयामदैर्ध्या चाण्डो मरुदूहति कुङ्कुमपङ्कसाघ्यः |

तल्पस्थितिर्द्विगुणतूलपटा किमन्यद् अर्घन्ति चात्र विततागुरुधूपधूमाः |

ब" आश्लेषिणा पृथुरतक्लमपीतशीतम् आयामिनीं घनमुदो रजनीं युवानः |

ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल-पादान्तसंवलिततूलपटाः स्वपन्ति ||

पाने ऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र |

नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ||

पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि |

सौभाग्यमेणतिलकाद्भजते ऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ||

सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तानभिन्नघनसूचिपरम्परासु |

द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ||

उदीच्यचण्डानिलाताडितासु सुलीनमीनासु जलस्य मूले |

नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ||

माद्यन्मतङ्गः पृषतैकतोषी पुष्पद्वराहो धृतिमल्लुलायः |

दरिद्रनिन्द्यः सधनैकवन्द्यः स एष कालः शिशिरः करालः ||

अभानवबधूरोषस्वादुः करीषतनूनपा-दसरलजनाश्लेषक्रूरस्तुषारसमीरणः |

गलितविभवस्यज्ञेवाद्य द्युतिर्मसृणा रवे र्विरहिवनितावक्त्रौपभ्यं बिभर्त्तिं निशाकरः ||

स्त्रियः प्रकृतिपित्तलाः क्कथितकुङ्कुमालेपनैर् नितम्बफलकस्तनस्थलभुजोरुमूलपादिभिः |

इहाभिनवयौवनाः सकलरात्रिसश्लेषितैर् हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि" ||

शिशिरः ||

"चैत्रे मदर्ध्दिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् |

पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुररेषु एव ||

मनो ऽधिकं चात्र विलासलास्ये प्रेङ्खासु दोलासु च सुन्दरीणां |

गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ||

पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति |

स्मरो वसन्ते ऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ||

पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते |

स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ||

अयं प्रसूनोद्धुरकर्णिकारः पुष्पपञ्चार्चितकाञ्चनारः |

विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ||

रोहितकाम्रातककिङ्किराता मधूकमोचाः सह माधवीभिः |

जयन्ति शोभाञ्जनकश्च शाखी सकेसरः पुष्पभरैर्वसन्ते ||

यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलकलरुतेः कथने च लाभः |

पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ||

नालिङ्गितः कुरबकस्तलको न दृष्टो ना ताडितश्च चरणैः सुदृशामशोकः |

सिक्ता न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णाः ||

चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः |

जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेः भूर्भुवः स्वस्त्रये ऽपि ||

गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलसीकिंशिकानाम् |

खर्जूराणां ताडताडीतरुणां पुष्पापीडन्यासहेतुर्वसन्तः ||

विकासकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः |

पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मो ऽयमुल्लासितधातकीकः ||

खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः |

द्वन्द्वानि खेदालसतामुपस्य रतानुसन्धानमिहाद्रियन्ते ||

स्रोतांस्यनभ्भांसि सकूपकानि प्रपाः कठोरे ऽहनि पान्थपूर्णाः |

शुचौ समभ्यर्थितसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ||

यत्कायमानेषु दिनार्दिनिद्रा यत्स्नानकेलिर्दिवसावसाने |

यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ||

या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला |

या तालवृन्तैरुदबिन्दुवृष्टिर्-जलाञ्जलिं सा शुचये ददाति ||

कर्पूरचूर्णं सहकारभङ्गस्ताम्बूलमार्द्रक्रमुकोपकॢत्पम् |

हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ||

मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः |

स्त्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मे ऽपि सो ऽयं शिशिरावतारः" ||

अत्र हि-
"पच्यन्त इव भूतानि ताप्यन्त इव पांसवः |

क्कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ||

एणाः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः |

ताम्यत्तिमीनि च सरांसि जलस्य शेषाद् उच्चारघट्टिघटिकावलयाश्च कूपाः ||

करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् |

करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य चासते ||

सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः |

मृगलावरसाः शृतं च दुग्ध स्मरसञ्जीवनमौषधं निदाधे ||

जलचन्दनचारवस्तारुण्यः सजलार्द्राः सहतारहारमालाः |

कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ||

ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सौरिभाः सेभकोलाः |

लोलज्जिह्वाः सर्पसारङ्गवर्गा मूलस्त्रस्तैः पत्रिणश्चांसदेशैः ||

हर्म्यं रम्यं चन्द्रिकाधौतपृष्टं कान्तोच्छिष्टा वारुणी वारिमिश्रा |

मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ||

ग्रीष्मः ||

चतुरवस्थश्च ऋतुरुपनिबन्धनीयः |

तद्यथा सन्धिः, शैशवं, प्रौढिः, अनवृत्तिश्च |

ऋतुद्वयमध्यं सन्धिः |

शिशिरवसन्तसन्धिर्यथा-
"त्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः |

अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्" ||

वसन्तशैशवम् -
"गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः |

किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्विघत्रैर्मनोजन्मनो देवस्यापि चिरोज्भ्फितं यदि भवेदभ्यासवश्यं धनुः" ||

वसन्तप्रौढिः-
"साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माज्जिष्टधौतात्पटात् |

हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्" ||

अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवत्तते |

लिङ्गनुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ||

वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः |

खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् |

गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्यो ऽपि विभाव्यते कमलिनीहासेन भासां पतिः ||

" एवमन्या अपि |

किञ्च-
ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके |

जलधरसमयप्रात्पौ स एव धाराकदम्बः स्यात् ||

यथा-
"धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्टनस्य |

दीत्पायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य" ||

जलसमयजायमानां जातिं यां कर्द्दमीति निगदन्ति |

सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ||

यथा-
"स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरटपरिमलप्लावितानां जजृम्भे |

नानाहंसोपधानं सपदि जलनिधेश्वोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमभ्भः" ||

स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति |

यथा-
"असूच्यतः शरत्कालः केतकीधूलिधूसरैः |

पद्मताम्रैर्नवायातश्चरणैरिव वासरैः" ||

शरद्भावानामनुवृत्तिरत्र बाणासनानां सकुरुण्टकानाम् |

हेमन्तवक्त्रे यदि दृश्यते ऽपि न दृश्यते बन्धविधिः कवीनाम् ||

हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव |

उक्तं च |

"द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्तशिशिरयोः समासेन" |

मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः |

रचनीयश्चित्रश्रीः कश्चित्कुन्दानुवृत्त्या च ||

"गृहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति |

सद्यो भङ्गानुसारस्त्रुतसरभिशिराशीकरः साहकारः सर्परन्नम्भःशरावे रचयति च रसो रचकीचन्द्रकाणि ||

कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किङ्किराते रक्ताशोके सशोकश्चिरमतिविकचे चम्पके कुञ्चिताक्षः |

पान्थः खेदालसो ऽपि श्रवणकटुरटच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन" ||

यथा वा-
"धुनानः कावेरीपरिसरभुवश्चन्दनतरुन् मरुन्मन्दः कुन्दप्रकारमकरन्दानवकिरन् |

प्रियक्रीडाकर्षच्युतकुसुममामूलसरलं ललाटे लाटीलां लुठितमलकं ताण्डवयिति" ||

एवमन्याप्यनुवृत्तिः |

"विचकिलकेरसरपाटलिचम्पपुष्पानुवृत्तयो ग्रीष्मे |

तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति" ||

यथा-
"कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः कण्ठे मार्णालहारो वलयितमसिताभ्भोजनालं कलाच्योः |

समोदं चन्दनाभ्भः स्तनभुवि नयने म्लाननाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः" ||

यथाच -
"अमिनवकुशसूचिस्पर्द्धि कर्णे शिरीषं मरुबकरिवारं पाटलादाम पण्ठे |

स तु सरसजलार्देन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा को ऽपि वेषश्चकास्ति" ||

एवमुदाहरणान्तराणि |

"ऋतुभववृत्त्यनुवृत्ती दिङ्मात्रेणात्र सूचिते सन्तः |

शेषं स्वधिया पश्यत नामग्राहं कियद्ब्रूमः ||

देशेषु पदार्थानां व्यत्यासो दृश्यते स्वरूपस्य |

तन्न तथा बध्वीयात्कविबद्धमिह प्रमाणं नः" ||

शोभान्धोगन्धसरैः फलार्चनाभ्यां च पुष्पमुपयोनि |

षोढा दर्शितमेतत्स्यात्सत्पममनुपयोगि ||

यथा-
यत्प्राचि मासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् |

तदग्रिमे प्रौढिधरं च कार्यं तदग्रिमे पाकपरिष्कृतं च ||

द्रुमोद्भवानां विधिरेषु दृष्टो बल्लीफलाना न महाननेहा |

तेषां द्विमासावधिरेव कार्यः पष्पे फले पाकविधौ च कालः ||

अन्यर्व्याजं बहिव्याजं बाह्यान्तर्व्याजमेव च |

सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम् ||

लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि |

आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ||

पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् |

सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ||

एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् |

प्रबन्धेषु निबन्धीयात्क्रमेण व्युत्क्रमेण वा ||

न च व्युत्क्रमदोषो ऽस्ति कवेरर्थपथस्पृशः |

तथा तथा कापि भवेद् व्युत्क्रमो भूषाणां यथा ||

अनुसन्धानशून्यस्य भूषणं दूषणायते |

सावधानस्य च कवेर्दूषणं भूषणायते ||

इति कालविभागस्य दर्शिता वृत्तिरीदृशी |

कवेरिह महान्मोह इह सिद्धो महाकविः ||

; इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कालविभागो नाम अष्टादशो ऽध्यायः

;; समात्पमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम्

== sandarbh==

"https://sa.wikibooks.org/wiki/काव्यमीमांसा" इत्यस्माद् प्रतिप्राप्तम्