शास्त्रसंग्रहः प्रथमो ऽध्यायः १

सम्पाद्यताम्

काव्यमीमांसा ऽप्रकाशऽ अथ कविरहस्यम् प्रथमो ऽध्यायः १


शास्त्रसंग्रहः अथातः काव्यं मीमांसिष्यामहे, यथोपदिदेश श्रीकण्ठः परमेष्ठिवैकुण्ठादिभ्यश्तुःषष्टयोः ।
सोऽपि भगवान्स्वयम्भूरिच्छाजन्मभ्यः स्वान्तेवासिभ्यः ।
तेषु सागस्वतेयो वृन्दीयसामपि वन्द्यः काव्यपुरुष आसीत् ।

तं च सर्वसमयविदं दिव्येन चक्षुषा भविष्यदर्थदशिनं भूर्भुवःस्वस्त्रितयवर्त्तिनीषु प्रजासु हतिकाम्यया प्रजापतिः काव्यविद्याप्रवर्त्तनायै प्रायुङ्क्त ।
सो ऽष्टादशाधिकरणीं दिव्येभ्यः काव्यविद्यास्नातकेभ्यः सप्रपञ्चं प्रोवाच ।
तत्र कविरहस्यं सहस्राक्षः समाम्नासीत्, औक्तिकमुक्तिगर्भः, रीतिनिर्णयं सुवर्णनाभः, आनुप्रासिकं प्रचेता, यमकं यमः, चित्रं चित्राङ्गदः, शब्दश्लेषं शेषः, वास्तुवं पुलस्त्यः, औपभ्यमौपकायनः, अतिशयं पराशरः, अर्थश्लेषम्रुतथ्यः, उभयालङ्कारिकं कुबेरः, वैनोदिकं कामदेवः, रुपकनिरुपणीयं भरतः, रसाधिकारिकं नन्दिकेश्वरः, दोषाधिकरणं धिषणः, गुणोपादानिकमुपमन्युः, औपनिषदिकं कुचुचारः, इति ।
ततस्ते पृथक् पृथक् स्वशास्त्राणि विरचयाञ्चक्रुः ।
इत्थङ्कारञ्च प्रकीर्णत्वात्वात् सा किञ्चिदुच्चिचच्छिदे ।
इतीयं प्रयोजकाङ्गवती सङ्क्षिप्य सर्वमर्थमल्पग्रन्थेन अष्टादशप्रकरणी प्रणीता ।
तस्या अयं प्रकरणाधिकरणसमुद्देशः ।
१ शास्त्रसंग्रहः, २ शास्त्रनिर्देशः, ३ काव्यपुरुषोत्पत्तिः, ४ शिष्यप्रतिभे, ५ व्युत्पत्ति-विपाकाः, ६ पदवाक्यविवेकः, ७ वाक्यविधयः, ८ काकुप्रकाराः, ९ पाठप्रतिष्ठा, १० काव्यार्थयोनयः, ११ अर्थानुशासनं, १२ कविचर्याः, १३ राजचर्या, १४ शब्दार्थहरणोपायाः, १५ कवि विशेषः, १६ कविसमयः, १७ देशकालविभागः, १८ भ्रुवनकोशः, इति कविरहस्यं प्रथममधिकरणमित्यादि ।
इति सूत्राण्यथैतेषां व्याख्याभाष्यं भविष्यति ।
समासव्यासविन्यासः सैष शिष्यहिताय नः ।।

चित्रोदाहरणैर्गुर्वी ग्रन्थेन तु लघीयसी ।
इयं नः काव्यमीमंसा काव्यव्युत्पत्तिकारणम् ।।

इयं सा काव्यमीमांसा मीमांसा यत्र वाग्लवः ।
वाग्लवं न स जानाति न विजानाति यस्त्विमाम् ।।

यायावरीयः सङ्क्षिप्य मुनीनां मतविस्तरम् ।
व्याकरोत्काव्यमीमांसां कविभ्यो राजशेखरः ।।


इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे प्रथमो ऽध्यायः शास्त्रसङ्ग्रहः ।।


शास्त्रनिर्देशः द्वितीयो ऽध्यायः २


शास्त्रनिर्देशः इह वाङ्मयमुभयथा शास्त्रं काव्यं च ।
शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वभिनिविशेत ।
तच्च द्विधा अपौरुषेयं पौरुषेयं च ।
अफौरुषेय श्रुतिः ।
सा च मन्त्रब्राह्मणो ।
विवृतक्रियातन्त्रा मनन्त्राः ।
मन्त्राणां स्तुतिनिन्दाव्याख्यानविनियोगादिग्रन्थो ब्राह्मणम् ।
ऋग्यजुःसामवेदस्त्रयी ।
अथर्व तुरीयम् ।
तत्रार्थव्यवस्थितपादा ऋचः ।
ताः सगीकयः सामानि ।
अच्छन्दांस्यगीतानि यजूंषि ।
ऋचो यजूंषि सामानि चार्थर्वाणि त इमे चत्वारोबेदाः ।
इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदावपि चोपवेदाः ।
ऽवेदोपवेदात्मा सार्ववर्णिकः पञ्चमो नाट्यवेदःऽ इति द्रौहिणिः ।
ऽशिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्यौतिषं च षडङ्गानिऽ इत्याचार्याः ।
उपकारकत्वादलङ्कारः सत्पममङ्गम् ऽिति यायावरीयः ।
ऋते च तत्सरुपपरिज्ञानाद्वेदार्थानवगतिःऽ ।
यथा- ऽद्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीतिऽ ।।

सेयं शास्त्रोक्तिः ।
प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणां ब्राह्मणं चादाहृत्य भाषामुदाहरिष्यामः ।
तत्र वर्णानां स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका ।
नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः ।
सा च यजुर्विद्या ।
शब्दानामन्वाख्यानं व्याकरणम् ।
निर्वचनं निरुक्तम् ।
छन्दसां प्रतिपादियित्रीछन्दोविचितिः ।
ग्रहगणितं ज्यौतिषम्, अलङ्कारव्याख्यानं तु पुरस्तात् ।
पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि ।
तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टादशधा ।
यदाहुः- ऽसर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः ।
जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ।।

"पुराणप्रविभेद एवेतिहासःऽ इत्येके ।
स च द्विधा परक्रियापुराकल्पाभ्याम् ।
यदाहुः- ऽपरक्रिया पुराकल्प इतिहासगतिद्विन्धा ।
स्यादेकनायका पूर्वा द्वितीया बहुनायकाऽ ।।

तत्र रामायणं भारतं चोदाहरणे ।
आन्वीक्षिकीं तु विद्यावसरे वक्ष्यामः ।
निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा ।
सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च ।
अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः ।
ऽतानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्रत्वारः, षडङ्गानि, चत्वारि शास्त्राणिऽ इत्याचार्याः ।
तान्येतानि कृत्स्नामपि भ्रूर्भुवःस्वस्त्रयीं व्यासज्य वर्त्तन्ते ।
तदाहुः- ऽविद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्वर्षणां यो ऽपि साग्रं सहस्रम् ।
तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ।।

"सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्ऽ इति यायावरीयः ।
गद्यपद्यमयत्वात् कविधर्मत्वात् हितोरदेशकत्वाच्च ।
तद्वि शास्त्रण्यनुधावति ।
ऽवार्त्ता कामसूत्रं शिल्पशास्त्रं दण्डनीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानिऽित्यपरे ।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः ऽ ।
दण्डनीतिरेवैका विद्याऽित्यौशनसाः ।
दण्डभयाद्वि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते ।
ऽवार्त्ता दण्डनीतिर्द्वे विद्येऽ इति बार्हस्पत्याः ।
वृत्तिर्विनयग्रहणं च स्थितिहेतुर्लोकयात्रायाः ।
ऽत्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याःऽ इति मानवाः ।
त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री ।
ऽान्वीक्षिकीत्रयीवार्त्तादण्डनीतयश्चतस्रो विद्याःऽिति कौटल्यः ।
आन्वीक्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति ।
ऽपञ्चमी साहित्यविद्याऽ इति यायावरीयः ।
सा हि वचसृणामपि विद्यानां निस्यन्दः ।
आभिर्द्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
तत्र त्रयी व्याख्याता ।
द्विधा चान्वीक्षिकी पूर्वोत्ररपक्षाभ्याम् ।
अर्हद्भदन्तदर्शने लोकायत्तं च पूर्वः पक्षः ।
सङ्खयं न्यायवैशेषिकौ चोत्तरः ।
त इमे षट् तर्काः ।
तत्र च तिस्रः कथा भवन्ति वादो, जल्पो, वितण्डा च ।
मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो वादः ।
विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो जल्पः ।
स्वपक्षस्यापरिग्रहित्री परपक्षस्य दूषयित्री वितण्डा ।
कृषिपाशुपाल्ये वणिज्या च वार्त्ता ।
आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः ।
तस्यामायत्ता लोकयात्रेति शास्त्राणि ।
सामान्यलक्षणं चैषाम्- ऽसरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः ।
ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याःऽ ।।

सूत्रादिभिश्चैषां प्रणयनम् ।
तत्र सूत्रणात् सूत्रम् ।
यदाहुः- ऽल्पाक्षरमसन्दिग्धं सारवद्विश्चतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो विदुःऽ ।।

सूत्राणां सकलसारविवरणं वृत्तिः ।
सूत्रवृत्तिविवेचनं पद्धतिः ।
आक्षिप्य भाषणाद्भाष्यम् ।
अन्तर्भाष्यं समीक्षा ।
अवान्तरार्थविच्छेदश्च सा ।
यथासम्भवमर्थस्य टीकनं टीका ।
विषमपदभञ्जिका पञ्जिका ।
अर्थप्रदर्शकारिका कारिका ।
उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमिति शास्त्रभेदाः ।
ऽभवति प्रथयन्नर्थं लीनं समभिप्लुतं स्फुटीकुर्वन् ।
अल्पमनल्पं रचयन्ननल्पमल्यं च शास्त्रकविःऽ ।।

शास्त्रैकदेशस्य प्रक्रिया प्रकरणम् ।
अध्यायादयस्त्ववान्तरविच्छेदाः क्वतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च ।
शाब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या ।
उपविद्यास्तु चतुःषष्ठिः ।
ताश्च कला इति विदग्धवादः ।
स आजीवः काव्यस्य ।
तमौपनिषदिके वक्ष्यामः ।
इत्यनन्तो ऽभियुक्तानामत्र संसम्भविस्तरः ।
त्यक्तौ निपुणधीगम्यो ग्रन्थगौरवकारणात् ।।

इति राजशेखरकृतौ

काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे द्वितीयो ऽध्यायः शास्त्रनिर्देशः ।।



काव्यपुरुषोत्पत्तिः तृतीयो ऽध्यायः ३


काव्यपुरुषोत्पत्तिः एवं गुरुभ्यो गिरः पुण्याः पुराणीः शृणुमः स्म, यत्किलधिशषणं शिष्याः कथाप्रसङ्गे पप्रच्छुः, कीदृशः पुनरसौ सारस्वतेयः काब्यपुरुषो वो गुरुः ? इति ।
स तान् बृहताम्पतिरुचे ।
पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ तपस्यामास ।

प्रीतेन मनसा तां विरिञ्चः प्रोवाच-ऽपुत्रं ते सृजामि ऽ ।
अथैषा काव्यपुरुषं सुषुवे ।
सो ऽभ्युत्थाय सपादोपग्रहं छन्दस्वर्ती वाचमुदचीचरत्-

ऽयदेतद्वाङ्मयं विश्वमर्थमूर्त्त्या विवर्त्तते ।
सो ऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौऽ ।।


तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवी ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत् ।
ऽवत्स ! सच्छन्दस्काया गिरः प्रणेतः ! वाङ्मयमातरमपि मातरं मां विचयसे ।
प्रशस्यतमं चेदमुदाहरन्ति यदुत ऽऽपुत्रात्पराजयो द्वितीयं पुत्रजन्मऽिति ।
त्वत्तः पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् ।
त्वदुपज्ञमथातः छन्दस्वद्वचः प्रवर्त्स्यति ।
अहो श्लाघनीयो ऽसि ।
शब्दार्थौ ते शरीरं, संस्कृतं मुखं, प्रकृतं बाहुः, जघनमपर्भ्रंशः, पैशाचं पादौ, उरो मिश्रम् ।
समः प्रसन्नो मधुर उदार ओजस्वी चासि ।
उक्तिचणं ते वचो, रस आत्मा, रामाणि छन्दांसि, प्रश्नोत्तरप्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलङ्कुर्वन्ति ।
भविष्यतो ऽर्थस्याभिधात्री श्रुरिरपि भवन्तमभिस्तौति-

ऽचत्वारि शृङ्गास्त्रयो ऽस्य पादा शीर्षे सप्तहस्तासो ऽस्य ।
त्रिधा बद्धो वृषभो रोरवीति महो देबो मर्त्यानाविवेशऽ ।।


ऽतथापि संवृणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्वऽ इति निगद्य निवेश्य चैनमनोकहाश्रयिणी गण्डशैलतलतल्पे स्नातुमभ्रगङ्गां जगामं ।
तावच्च कुशान् समिधश्च समाहत्तुं निःसृतो महामुनिरुशनाः परिवृत्ते पूषण्यूष्मोपष्लुतं तमद्राक्षीत् ।
कस्यायमनाथो बाल इति चिन्तयन्स्वमाश्रमपदमनैषीत् ।
क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् ।
अकस्माद्विस्मापयन्स चाभ्युवाच-

ऽया दुग्धापि न दुग्धेव कविदेग्धृभिरन्वहम् ।
हृदि नः सन्निधत्तां सा दूक्तिधेनुः सरस्वतीऽ ।।

इति ।

तत्पूर्वकमध्येतृणां च सुचेधस्त्वमादिदेश ।
ततः प्रभृति तमुशनसं सन्तः कविरित्याचक्षते ।
तदुपचाराञ्च कवयः कवय इति लोकयात्रा ।
कविशब्दश्च ऽकवृवर्णनेऽ इत्यस्य धातोः काव्यकर्मणो रुपमे ।
काव्यैकरुपत्वाच्च सारस्वतेये ऽपि काव्यपुरुष इति भक्त्या प्रयुञ्जते ।
ततश्च विनिवृत्ता वाग्देवी तत्र पुत्रमपश्यन्ती मध्येहृदयं चक्रन्द ।
प्रसङ्गागतश्च वाल्पीकिर्मुनिवृषा सप्रश्रयं तमुदन्तमुदाहृत्य भगवत्यै, भृगुसूतेराश्रमपदमदर्शयत् ।
सापि प्रस्तुतपयोधरा पुत्रायाङ्कपालीं ददाना शिरसि च चुम्बन्ती स्वस्तिमता चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छते ।
अनुप्रेषितश्च स तया निषादनिहतसहतसहचरीं क्रौञ्चयुवर्ति करुणक्रेङ्कारया गिरा क्रन्दन्तीमुदीक्ष्य शोकवान् श्लोकमुज्जगाद- ऽमा निषाद प्रतिष्ठां त्वमगमः शास्वतीः समाः ।
यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम् ।।


ऽततो दिव्यदृष्टिर्देवी तस्मा अपि श्लोकाय वरमदात्, यदुतान्यदनधीयानो यः प्रथममेनमध्येष्यते स सारस्वतः कविः संपत्स्यत इति ।
स तु महामुनिः प्रवृत्तवचनो रामायणमिदिहासं समदृभत् ॑ द्वैपायनस्तु श्लोकप्रथमाध्यायी तत्प्रभावेण शतसाहस्रीं संहितां भारतम् ।
एकदा तु ब्रह्मर्षिवृन्दारकयोः श्रुतिविवादे दाक्षिण्यवान्देवः स्वयम्भूस्तामिमां निर्णोत्रीमुद्दिदेश ।
उपश्रुतवृत्तान्तश्च मातरं व्रजन्तीं सो ऽनुवव्राज ।
वत्स!परमेष्ठिनाननुमतस्य ते न ब्रह्मलोकयात्रघा निःश्रेयसायेत्यभिदधाना हठान्न्यवर्तयदेनमात्मना तु प्रवर्तते ।
ततः स काव्यपुरुषो रुषा निश्चक्राम ।
प्रियं मित्रमस्य च कुमारः साक्रन्दं रुदन्नभ्यधीयत गौर्या तात! तूष्णीमाःस्व साहमेषा निषेधामीतिनिगदन्दी समचिन्तयत् ।
प्रायः प्राणभृतां प्रेमाणमन्तरेण नान्यद्वन्धनमस्ति, तदेतस्यवशीकरणं कामपि स्त्रियं सृजामीति विचिन्तयन्ती साहित्यविद्यावधूम्रुदपादयदादिशञ्चैनामेष ते रुषा धर्मपतिः पुरः प्रतिष्ठते तदनुवर्त्तस्वैनं निवर्त्तय च ।
भवन्तो ऽपि हन्त! मुनयः!काव्यविद्यास्नातकाश्चरितमेतयोः स्तुध्वमेतद्धि वः काव्यसर्वस्वं भविष्यतीत्यभिधाय भगवती भवानी जोषमासिष्ट ।
ते ऽपि तथाकर्त्तुमवतस्थिरे ।
अथ सर्वे प्रथमं प्राचीं दिशं शिश्रियुर्यत्राङ्गवङ्गसुह्नब्रह्मपुण्ड्राद्या जनपदा॑, तत्राभियुज्जाना तमौमेयी यं वेषं यथेष्टम्सेविष्ट, स तत्रत्याभिः स्त्रीभिरन्वक्रियत ।
सा प्रवृत्ती रौद्रमागधी ।
तां ते मुनयो ऽभितुष्टुवुः-

ऽार्दार्द्रचन्दनकुचापिन्तसूत्रहारः सीमन्तचुम्बिसिचयः स्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरास्वगुरुपभोगाद्व गोडाङ्गनासु चिरमेष चकास्तु वेषःऽ ।।


यदृच्छयापि यादृङ्नेपथ्यः स सारस्वतेय आसीत् तद्वेषाश्च पुरुषा बभूवुः ।
सापि सैव प्रवृत्तिः ।
यदपरं नृत्तवाद्यादिकमेषा चक्रे सा भारत्ती वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदवशंवदीकृतः समासवदनुप्रासवद्योगवृत्तिपरभ्परातद्गर्भं (वाक्यं) जगाद सा गौडीया रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
वृत्तिरीतिस्वरुपं यथावसरं वक्ष्यामः ।
ततश्च स, पञ्चालान्प्रत्युञ्चचाल ।
यत्र पाञ्चालशूरसेनहस्तिनापुरकाश्मीरवाहीकबाह्लिकबाह्लवेयादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति समानं पूर्वेण ।
सा पाञ्चालमध्यमाप्रवृत्तिः ।
तां ते मुनयो ऽभितुष्टुवुः- ऽताटङ्कवल्गनतरङ्गितगण्डलेखमानाभिलम्बिदरदोलिततारहारम् ।
आश्रोणिगुल्फपरिमण्डलितान्तरीयं वेषं नमस्यत महोदयसुन्दरीणाम्ऽ ।।

किञ्चिदार्द्रमना यन्नेपथ्यः स सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति समानं पूर्वेण ।
यदीषन्नृत्तगीतवाद्यविलासादिकमेषा दर्शयांबभूव सा सात्वती वृत्तिः ।
आविद्धगतिमत्त्वात्सा चारभटी ।
तां ते मुनय इति समानं पूर्वेण ।
तथाविधाकल्पयापि तया यदीषदूशंवदीकृत ईषदसमासमीषदनुप्रासमुपचारगर्भञ्च (वाक्यं) जगाद सा पाञ्चाली रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
ततः सो ऽवन्तीन्प्रत्युच्चचाल ।
यत्रावन्तीवैदिशसुराष्ट्रमालवार्बुदभृगुकच्छादयो जनपदाः ।
जनपदाः ।
तत्राभियुञ्जना तमौमेयीति समानं पूर्वेण ।
सा प्रवृत्तिरावन्ती ।
पाञ्चालमध्यमादाक्षिणात्ययोरन्तरचारिणी हि सा ।
अत एव सात्वतीकैशिक्यौ तत्र वृत्ती ।
तां ते मुनयो ऽभितुष्टुवुः-

ऽपाञ्चालनेपथ्यविधिर्नराणां स्त्रीणां पुनर्नन्दतु दाक्षिणात्यः ।
यज्जल्पितं यच्चरितादिकं तदन्योन्यसंभिन्नमवन्तिदेशेऽ ।।


ततश्च स दक्षिणां दिशमाससाद ।
यत्र मसयमेकलपालमञ्जराः पर्वताः ।
कुन्तलकेरलमहाराष्ट्रगाङ्गकलिङ्गादयो जनपदाः ।
तत्राभियुञ्जाना तमौमेयीति, समानं पूर्वेण ।
सा दाक्षिणात्या प्रवृत्तिः ।
तां ते मुनयो ऽभितुष्टुवुः ।

ऽामूलतो वलितकुन्तलचारुचूडश्चूर्णालकप्रचयलाञ्छितभालभागः ।
कक्षानिवेशनिबिडीकृतनीविरेष विषश्चिरं जयति केरलकामिनीनाम्ऽ ।।


तामनुरक्तमनाः स यन्नेपथ्यः सारस्वतेय आसीदिति समानं पूर्वेण ।
सापि सैवेति मसानं पूर्वेण ।
यद्विचित्रनृत्तगीतवाद्यविलासादिकमेषाविर्भावयामास सा कैशिकी वृत्तिः ।
तां ते मुनय इति समानं पूर्वेण ।
यदत्यर्थं च स तया वशंवदीकृतः स्थानानुप्रासवदसमासं योगवृत्तिगर्भं च (वाक्यं)जगाद सा वैदर्भी रीतिः ।
तां ते मुनय इति समानं पूर्वेण ।
तत्र वेषविन्यासक्रमः प्रवृत्तिः, विलासविन्यासक्रमो वृत्तिः, वचनविन्यासक्रमो रीतिः ।
ऽचतुष्टयी गतिर्वृत्तीनां प्रवृत्तिनां च देशानां पुनरानन्त्यं तत्कथमिव कार्त्स्न्येन परिग्रहःऽ इत्याचार्याः ।
अनन्तानपि हि देशाश्चतुर्धैवाकल्प्य कल्पयन्ति ऽचक्रवर्तिक्षेत्रं सामान्येन तदवान्तरविशेषैः पुनरनन्ता एवऽिति यायावरीयः ।
दक्षिणात्समुद्रादुदीचीं दिशं प्रति योजनसहस्रं चक्रवर्तिक्षेत्रं, तत्रैव नेपथ्यविधिः ।
ततः परं दिव्याद्या अपि यं देशमधिवसेयुस्तद्देश्यं वेषमाश्रयन्तो निबन्धनीयाः ।
स्वभूमौ तु कामचारः ।
द्वीपान्तरभवानां तदनुसारेण वृत्तिप्रवृत्ती ।
रीतयस्तु तिस्रघस्तास्तु पुरस्तात् ।
तत्रास्ति मनोजन्मनो देवस्य क्रीडावासो विदर्भेषु वत्सगुल्मं नाम नगरम् ।
तत्र सारस्वतेयस्तामौमेयीं गन्धर्ववत्परिणिनाय ।
ततस्तदूधूवरं विनिवृत्त्य तेषु प्रदेशेषु विहरमाणं तुषारगिरिमेवाजगाम, यत्र गौरी सरस्वती च मिथः सम्बन्धिन्यौ तस्थतुः ।
तौ च कृतवन्दनौ दम्पतीदत्त्वाशिषं प्रभावमयेन वपुषा कविमानसनिवासिनौ चक्रतुः ।
तयोश्च तं सर्गं कविभ्यः स्वर्गलोकमकल्पतां, यत्र काव्यमयेन शरीरेण मर्त्त्यमधिवसन्तो दिव्येन देहेन कवय आकल्पं मोदन्ते ।
इत्येष काव्यपुरुषः पुरा सृष्टः स्वयम्भुवा ।
एवं विभज्य जानानः प्रेत्य चेह च नन्दति ।।


इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे तृतीयो ऽध्यायः काव्यपुरुषोत्पत्तिः


शिष्यप्रतिभे चतुर्थो ऽध्यायः


शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च ।
यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् ।
यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः ।
त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति ।
अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः ।
वर्त्तमानस्य मन्त्री मतिः ।
अनागतस्य प्रज्ञात्री प्रज्ञेति ।
सा त्रिप्रकारापि कवीनामुपकर्त्री ।
तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते ।
आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते ।
अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः ।
सा हि बुद्धिविकासकामधेनुः ।
तदाहुः-

ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः ।
अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ ।।


ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः ।
तत्र बुद्धिमतः प्रतिपत्तिः ।
स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत ।
आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च ।
स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत ।
दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव ।
स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः ।
ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः ।
मनस एकाग्रता समाधिःऽ ।
समाहितं चित्तमर्थान्पश्यति, उक्तञ्च- ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् ।
तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः ।।


ऽऽभ्यासःऽ इति मङ्गलः ।
अविच्छेदेन शीलनमभ्यासः ।
स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते ।
समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः ।
तावुभावपि शक्तिमुद्भासयतः ।
ऽसा केवलं हेतुःऽ इति यायावरीयः ।
विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् ।
शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी ।
शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते ।
या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा ।
अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव ।
यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते ।
किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म ।
तत्र देशान्तरव्यवहारः- ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया ।
ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी ।।


द्वीपान्तरव्यवहारः-

अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः ।।


कथापुरुषव्यवहारः-

हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि ।।


आदिग्रहणात्-

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे ।
बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ।।


सा च द्विधा कारयित्री भावयित्री च ।
कवेरुपकुर्वाणा कारयित्री ।
सापि त्रिविधा सहजाऽहार्यौपदेशिकी च ।
जन्मान्तरसंस्कारापेक्षिणी सहजा ।
इह जन्मसंस्कारयोनिराहार्या ।
मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी ।
ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति ।
महता पुनराहार्या ।
औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः ।
त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च ।
जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः ।
इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः ।
उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः ।
तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् ।
ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः ।
ऽनऽिति यायावरीयः ।

एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते ।
ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः ।

सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः ।
औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि ।।


ऽुत्कर्षः श्रेयान्ऽ इति यायावरीयः ।
स चानेकगुणसन्निपाते भवति ।
किञ्च- ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च ।
कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् ।।

काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः ।
मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ ।।

कवीनां तारतम्यतश्चैष प्रायोवादः ।
यथा- ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् ।
न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ।।

सेयं कारयित्री ।
भावकस्योपकुर्वाणा भावयित्री ।
सा हि कवेः श्रममभिप्रायं च भावयति ।
तया खलु फलितः कवेर्व्यापारतरुः ।
अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः ।
तदाहुः- ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा ।
भावकस्तु कविः प्रायो न भजत्यधमां दशम् ।।

"नऽिति कालिदासः ।
पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् ।
स्वरुपभेदाद्विषयभेदाच्च ।
यदाहुः- ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति ।
नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः ।।

"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः ।
ऽकवयोपि भवन्तिऽिति वामनीयाः ऽ ।
चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ ।
ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽिति वामनीयाः ।
ऽरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा ।
नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति ।
ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः ।
. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी ।
तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा ।
प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति ।
ततो बहु त्यजति बहु च गृह्णाति ।
विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते ।
परिणामे तु यथार्थदर्शी स्यात् ।
विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते ।
मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् ।
स पुनरमत्सरी ज्ञाता च विरलः ।
तदुक्तम्- ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् ।
यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ ।।

तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्- ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः ।
पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः ।।

स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च ।
कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः ।।

काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना ।
नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ।।

सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे ।
द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः ।।

सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः ।
सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः ।।

वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः ।
सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ।।

गुणादानपरः कश्चिद्दोषादानपरो ऽपरः ।
गुणदोषाहृतित्यागपरः कश्चन भावकः ।।

अभियोगे समाने ऽपि विचित्रो यदयं क्रमः ।
तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः ।।

न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः ।
विडम्बयति सात्मानमाग्रहग्रहिलः किल ।।

कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः ।
तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ।।

यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः ।
तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा ।।

कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे ।
अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः



व्युत्पत्तिकविपाकाः


पञ्चमो ऽध्यायः ५.


व्युत्पत्तिकविपाकाः ऽबहुज्ञाता व्युत्पत्तिःऽ इत्याचार्याः ।
सर्वतोदिक्का हि कविवाचः ।
तदुक्तम् - ऽप्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य ।
इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्का ।।

"उचितानुचितविवेको व्युत्पत्तिःऽ इति यायावरीयः ।
ऽप्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसीऽ इत्यानन्दः ।
सा हि कवेरव्युत्पत्तिकृतं दोषमशेषमाच्छादयति ।
तदाह- ऽव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः ।
यस्त्वशक्तिकृतस्तस्य भ्कगित्येवावभासतेऽ ।।

शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्त्तते ।
प्रतिभा यथा- ऽेतत्किं शिरसि स्थितं मम पितुः, खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्ते ऽस्य किं पन्नगाः ।
इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ।।

"व्युत्पत्तिः श्रेयसीऽ इति मङ्गलः ।
सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति ।
यथा हि- ऽकवेः संव्रियते ऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि ।
वैदग्धीचित्तानां हेया शब्दस्य गुम्फनाऽ ।।

व्युत्पत्तिर्यथा- ऽकृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलम्रचि ।
न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनीतया ।।

"प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ इति यायावरीयः ।
न खलु लावण्यलाभादृते रुपसम्पदृते रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय ।
उभययोगो यथा- ऽजङ्घाकाण्डोरुनाले नखकिरणलसत्केसरासीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः ।
भर्त्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी-सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याःऽ ।।

प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते ।
स च त्रिधा ।
शास्त्रकविः काव्यकविरुभयकविश्च ।
ऽतेषामुत्तरोत्तरीयो गरीयान्ऽ इति श्यामदेवः ।
ऽनऽिति यायावरीयः ।
यथास्वविषये सर्वो गरीयान् ।
नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरो ऽद्भयः क्षीरोद्धरणाय ।
यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनत्ति ।
यत्काव्यकविःशास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति ।
उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् ।
तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी ।
उपकार्योपकारकभावं तु मिथः शास्त्रकाव्योरनुमन्यामहे ।
यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति ।
काव्यसंस्कारो ऽपि शास्त्रघवाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि ।
तत्रघ त्रिधा शास्त्रकविः ।
यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संवलिधत्ते, यो ऽपि काव्ये शास्त्रार्थं निधत्ते ।
काव्यकविः पुनरष्टधा ।
तद्यथा-रचनाकविः, शब्द-कविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति ।
तत्र रचनाकविः- ऽलोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर् गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु ।
षण्डेषूद्दण्टपिण्डीतगरलनाः प्रतिरे येन वेलामालङ्घयोत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाःऽ ।।

त्रिधा च शब्दकविर्नामाख्यातोभयभेदेन ।
तत्र नामकविः- ऽविद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः ।
लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैवऽ ।।

आख्यातकविर्यथा- ऽुच्चैस्तरां जहसुराजहृषुर्जगर्जुराजध्निर भुजतटीनिकरैः स्फुरद्भिः ।
सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम्ऽ ।।

नामाख्यातकविः- ऽहतत्विषो ऽन्धाः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव ।
न चुक्रुशुर्नो रुरुदुर्न सस्वनुर्न चेलुरासुर्लिखिता इव क्षणम्ऽ ।।

अर्थकविः- ऽदेवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटाहृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातर्जरजरत्स्थूलास्थिजन्मा रवःऽ ।।

द्विधालङ्कारकविः शब्दार्थभेदेन ।
तयोः शब्दालङ्कारः- ऽन प्रात्पं विषमरणं प्रात्पं पापेन कर्मणा विषमरणं च ।
न मृतो भागीरथ्यां मृतो ऽहमुपगुह्य मन्दभागी रथ्याम्ऽ ।।

अर्थालङ्कारः- ऽभ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः ।
दंष्ट्राशलाकादारिद्यं कर्त्तु योग्यो ऽस्ति मे भुजःऽ ।।

उक्तिकविः- ऽुदरमिदनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहे दोर्लतालेह्यसीमा ।
स्फुरति च वदनेन्दुर्द्दक्प्रणालीनिपेयस्तद् इह सुदृशि कल्याः केलयो यौवनस्यऽ ।।

यथा वा- ऽप्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् ।
परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम् इतीयं माधुर्यं स्पृशति च तनुत्वं च भजतेऽ ।।

रसकविः- ऽेतां विलाकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषुऽ ।।

मार्गकविः- ऽमूलं बालकवीरुधां सुरभयो जातीतरुणां त्वचः सारश्चन्दनशाशिनां किसलयान्यार्द्राण्यशोकस्य च ।
शैरीषी कुसुमोग्दतिः परिणमन्मोचं च सो ऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चषवेऽ ।।

शास्त्रार्थकविः- ऽात्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः ।
यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्ऽ ।।

एषां द्वित्रैर्गुणैः कनीयान्, पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः ।
दश च कवेरवस्था भवन्ति ।
तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प, तिस्त्रश्च औपदेशिकस्य ।
तद्यथा-काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानः, महाकविः, कविराजः, आविच्छेदी, सङ्क्रामयिता च ।
यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः ।
यो हृदय एव कवते निह्नुते च स हृदयकविः ।
यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो ऽन्यापदेशी ।
यः प्रवृत्तवचनः पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता ।
यो ऽनवद्यं कवते न तु प्रबध्नाति स घटमानः ।
यो ऽन्यतरप्रबन्धे प्रवीणः स महाकविः ।
यस्तु तत्र तत्रघ भाषाविशेषे तेषु तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः ।
ते यदि जगत्यपि कतिपये ।
यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आविशिकः ।
यो यदैवेच्छति तदैवाविच्छिन्नवचनः सो ऽविच्छेदी ।
यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता ।
सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति ।
ऽकः पुनरयं पाकः?ऽ इत्याचार्याः ।
ऽपरिणामःऽ इति मङ्गलः ।
ऽकः पुनरयं परिणामः?ऽ इत्याचार्याः ।
ऽसुपां तिङ्गां च श्रवः सैषा व्युत्पत्तिःऽिति मङ्गलः ।
सौशब्द्यमेतत् ।
ऽपदनिवेशनिष्कम्पता पाकःऽित्याचार्याः ।
तदाहुः- ऽावापोद्धरणे तावद्यावद्दोलायते मनः ।
पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ।।

"आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकःऽिति वामनीयाः ।
तदाहुः- ऽयत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् ।
तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ।।

"इयमशक्तिर्न पुनः पाकःऽित्यवन्तिसुन्दरी ।
यदेकस्मिन्वस्तुनि महाकवीनामिनेको ऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः पाकः ।
यदाह- ऽगुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः ।
स्वदते सुधियां येन वाक्यपाकः स मां प्रतिऽ ।।

तदुक्तम्- ऽसति वक्तरि सत्यर्थे शब्दे सति रसे सति ।
अस्ति तन्न विना येन परिस्त्रवति वाङ्मधु ।।

"कार्यानुमेयतया यत्तच्छब्दनिवेद्यः परं पाको ऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौऽिति यायावरीयः ।
स च कविग्रामस्यकाव्यमभ्यस्यते नवधा भवति ।
तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति ।
तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः ।
वरमकविर्न पुनः कुकविः स्यात् ।
कुकविता हि सोच्छ्रवासं मरणम् ।
मध्यमाः संस्कार्याः ।
संस्कारो हि सर्वस्य गुणमुत्कर्षयति ।
द्वादशवर्णमपि सुवर्णं पावकपाकेन हेमीभवति ।
शेषा ग्राह्याः ।
स्वभावशुद्धं हि न संस्कारमपैक्षते ।
न मुक्तामणेः शाणस्तारतायै प्रभवति ।
अनवस्थितपाकं पुनः कपित्थपाकमामनिन्ति ।
तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः ।
सभ्यगभ्यस्यतः काव्यं नवधा परिपच्यते ।
हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ।।

अयमत्रैव शिष्याणां दर्शितस्त्रघिविधो विधिः ।
किन्तु वैविध्यमप्येतत्घत्रिजगत्यस्य वर्त्तते ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमो ऽध्यायः ।।



पदवाक्यविवेकः


षष्ठो ऽध्यायः ६


पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् ।
तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च ।
गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः ।
हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः ।
श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः ।
पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः ।
नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः ।
"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः ।
सुब्वृत्तिरेव समासवृत्तिः ।
व्याससमासावेसानयोर्भेदहेतू ।
सा च षोढा द्वन्दादिभेदेन ।
तत्र पट्समासीसमाससूक्तम्- "द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः ।
तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" ।।

तद्वितवृत्तिः पुनरनन्ता ।
तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः ।
माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः ।
प्रातिपदिकविषया चेयम् ।
कृद्वृत्तिश्च धातुविषया ।
कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः ।
तिङ्वृत्तिर्दशधा दशलकारीभेदेन ।
द्विधा च सा धातुसुब्धातुविषयत्वेन ।
अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि ।
अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि ।
तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते ।
तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् ।
तत्र दयितसुब्वृत्तयो विदर्भाः ।
वल्लभसमासवृत्तयो गौडाः ।
प्रियतद्धिता दाक्षिणात्याः ।
कृत्प्रयोगरुचय उदीच्याः ।
अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः ।
तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः ।
उक्तञ्च- "विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये ।
आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" ।।

पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् ।
"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः ।
वैभक्तः शाक्तः शक्तिविभक्तिमयश्च ।
प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः ।
लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः ।
उभयात्मा च शक्तिविभक्तिमयः ।
तत्र वैभक्तः- "नमस्तस्मै वराहाय लीलयोद्धरते महीम् ।
खुरयोर्मध्यगो यस्य मेरुः खणखणायते" ।।

शक्तिः- "वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः ।
अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" ।।

यथा वा- "कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः ।
हरिभीत्याश्रिताशेषकालियाहिकुला इव" ।।

शक्तिविभक्तिमयः- "अथागादेकदा स्पष्टचतुराशामुखद्युतिः ।
तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" ।।

तत्र वाक्यं दशधा ।
एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति ।।

तत्रैकाख्यातम्- "जयत्येकपदाक्रान्तसमस्तभुवनत्रयः ।
द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" ।।

अनेकाख्यातम्- तच्च द्विधा सान्तरं निरन्तरम् ।।

तयोः प्रथमम्- "देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च ।
प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" ।।

द्वितीयम्- "त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि ।
आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" ।।

"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः ।
"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः ।
आवृत्ताख्यातम्- "जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः ।
ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" ।।

एकाभिधेयाख्यातम्- "हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति ।
इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" ।।

परिणताख्यातम्- "सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः ।
ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" ।।

अनुवृत्ताख्यातम्- "चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः ।
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" ।।

समुचिताख्यातम्- "परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् ।
मनो गन्त्रीव कुपथे चीत्करोति च याति च" ।।

यथा च- "स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च ।
उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" ।।

अध्याहृताख्यातम्- "दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः ।
व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" ।।

कृदभिहिताख्यातम्- "अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं ।
विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" ।।

अनपेक्षिताख्यातम्- "कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप ।
तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" ।।

गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् ।।

"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके ।।

यथा- "स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ।।

यथा च - "भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः ।
उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" ।।

आहुश्च- "दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् ।
सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" ।।

"न" इति यायावरीयः- "नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः ।
स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" ।।

तत्र श्रौतः- "पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः ।
शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" ।।

शास्त्रीयः- "आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः ।
तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" ।।

किञ्च- "यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले ।
सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" ।।

"कः? ।
वाग्योगविदेव ।
कुत एतत् ? ।
योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति ।
यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः ।
अथवा भूयानधर्मः प्रान्पोति ।
भूयांसो हृपशब्दा अल्पीयांसः शब्दाः ।
एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः ।
तद्यथा ।
गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः ।
अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् ।
विषम उपन्यासः ।
नात्यन्तायाज्ञानं शरणं भवितुमर्हति ।
यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् ।
एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः ।
कः? ।
अवाग्योगविदेव ।
अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् ।
क्व पुनरिदं पठितम्? ।
भ्राजा नाम श्लोकाः ।
किञ्च भोः श्लोका अपि प्रमाणम्? ।
किञ्चातः? ।
यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति ।
" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" ।।

इति ।
"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः ।
लौकिकः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ।।

"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे ।
यथा एवं- "वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् ।
त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" ।।

"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः ।
य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः ।
किञ्च कविवचनायत्ता लोकयात्रा ।
"सा च निःश्रेयसमूलम्" इति महर्षयः ।
यदाहुः- "काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि ।
तावत्सारस्वतं स्थानं कविरासाद्य मोदते" ।।

किञ्च- "श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः ।
ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" ।।

उक्तञ्च- "ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् ।
राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" ।।

"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च ।
यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" ।।

"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् ।
यथा- "प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु ।
विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" ।।

अपि च- "नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः ।
स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" ।।

"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः ।
यदिदं श्रुतौ शास्त्रे चोपलभ्यते ।
तत्र याजुषः- "उपोप मे परामृश मा मे दभ्राणि मन्यथाः ।
सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" ।।

शास्त्रीयः- "यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् ।
नवनीतोपमं तस्या भवति स्मरमन्दिरम्" ।।

पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः ।
अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः ।।



वाक्यविधयः


सत्पमो ऽध्यायः ७


वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति ।
तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति ।
तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च ।
स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् ।
तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् ।
ईश्वराणां सुता ऋषयस्तेषामार्षम् ।
ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् ।
ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् ।
स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् ।
तदाहुः- "सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् ।
क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" । ।

तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः ।
उक्तञ्च- "व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् ।
प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" । ।

आर्षम्- "यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः ।
प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" । ।

आर्षीकम्- "नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् ।
न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" । ।

आर्षिपुत्रकम्- "अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् ।
ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" । ।

तदुदाहरणानि पुराणेभ्य उपलभेत ।
सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति ।
ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् ।
क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते ।
देवयोनयस्तु- "विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः ।
सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" । ।

तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः ।
अत्सरसस्तु प्राकृतभाषया ।
तद्दिव्यं वचश्चतुर्द्धा ।
वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च ।
शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन ।
तत्र वैबुधम्- "समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् ।
सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" । ।

यथा- "यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य ।
तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः । ।

" वैद्याधरम्- "स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च ।
द्राधीयसा समासेन विद्धि वैद्याधरं वचः । ।

" यथा- "प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे ।
उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" । ।

यथा वा- "भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः ।
वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" । ।

गान्धर्वम्- "ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया ।
तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" । ।

यथा- "नमः शिवाय सोमाय सगणाय ससूनवे ।
सवृषव्यालशूलाय सकपालय सेन्दवे" । ।

योगिनीगतम्- "समासरुपकप्रायं गम्भीरार्थपदक्रमम् ।
सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" । ।

यथा- "दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? ।
योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" । ।

महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते ।
"प्रसन्नमधुरोदात्तसमासव्यासभागवत् ।
अनोजस्विपदप्रायं वचो भवति भोगिनाम्" । ।

यथा- "सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् ।
विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" । ।

"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः ।
"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः ।
यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् ।
इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति ।
तच्च त्रिधा रीतित्रयभेदेन ।
तदाहुः- "वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः ।
आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" । ।

रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति ।
"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः । ।

"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः ।
सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च ।
वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा ।
तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् ।
तदेव काकुमन्तरेणनिराकाङ्क्षम् ।
आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा ।
विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा ।
तत्राक्षेपगर्भा- "यदि मे वल्लभा दूती तदाहमपि वल्लभा ।
यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" । ।

एवमेव निर्देष्टुर्विधिरुपा ।
प्रश्नगर्भा- "गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु ।
वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" । ।

इयमेवोपदेष्टिरुत्तररुपा ।
वितर्कगर्भा- "नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् ।
अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" । ।

इयमेवोपदेष्टुर्निर्णयरुपा ।
ता इमास्तिस्रो ऽपि नियतनिबन्धाः ।
तद्विपरीताः पुनरनन्ताः ।
तत्राभ्युपगमानुनयकाकू- "युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि ।
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" । ।

अभ्यनुज्ञोपहासकाकू- "मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः ।
सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" । ।

एवं त्रिचतुरकाकुयोगो ऽपि ।
तत्र त्रियोगः- "सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः ।
तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" । ।

चदुर्योगः- "उच्यतां स वचनीयमशेषं नेश्वरे परुषता सखि सार्ध्वी ।
आनयैनमनुनीय कथं वा विप्रियाणि जनयन्ननुनेयः" । ।

"सख्या वा नायिकाया वा सखीनायिकयोरथ ।
सखीनां भूयसीनां वा वाक्ये काकुरिह स्थिता" । ।

पदवाक्यविदां मार्गो यो ऽन्यथैव व्यवस्थितः ।
स त्वाङ्गाभिनयद्योत्या तं काकुः कुरुते ऽन्यथा । ।

अयं काकुकृतो लोके व्यवहारो न केवलम् ।
शास्त्रेष्वप्यस्य साम्राज्यं काव्यस्याप्येष जीवितम् । ।

कामं विवृणुते काकुरर्थान्तरमतन्द्रिता ।
स्फुटीकरोति तु सतां भावाभिनयचातुरीम् । ।

इत्थं कविर्निबध्नीयादित्थं च मतिमान्पठेत् ।
यथा निबन्धनिगदश्छायां काञ्चिन्निषिञ्चति । ।

करोति काव्यं प्रायेण संस्कृतात्मा यथा तथा ।
पठितुं वेत्ति स परं यस्य सिद्धा सरस्वती । ।

यथा जन्मान्तराभ्यासात्कण्ठे कस्यापि रक्तता ।
तथैव पाठसौन्दर्यं नैकजन्मविनिर्मितम् । ।

ससंस्कृतमपभ्रंशं लालित्यालिङ्गितं पठेत् ।
प्राकृतं भूतभाषां च सौष्ठवोत्तरमुद्गिरेत् । ।

प्रसन्ने मन्द्रयोद्वाचं तारयेत्तद्विरोधिनि ।
मन्द्रतारौ च रचयेन्निर्वाहिणि यथोत्तरम् । ।

ललितं काकुसमन्वितमुज्ज्वलमर्थवशकृतपरिच्छेदम् ।
श्रुतिसुखविविक्तवर्णं कवयः पाठं प्रशंसन्ति । ।

अतितूर्णमतिविलम्बितमुल्बणनादं च नादहीनं च ।
अपदच्छिन्नमनावृतमतिमृदुपरुषं च निन्दन्ति । ।

गम्भीरत्वमनैश्चर्यं निर्व्यूढिस्तारमन्द्रयोः ।
संयुक्तवर्णलावण्यमिति पाठगुणाः स्मृताः । ।

यथा व्यघ्री हरेत्पुत्रान् दंष्ट्राभिश्च न पीडयेत् ।
भीता पतनभेदाभ्यां तद्वदूर्णान्प्रयोजयेत् । ।

विभक्तयः स्फुटा यत्र समासश्चाकदर्थितः ।
अम्लानः पदसन्धिश्च तत्र पाठः प्रतिष्ठितः । ।

न व्यस्तपदयोरैक्यं न भिदां तु समस्तयोः ।
न चाख्यातपदम्लानिं विदधीत सुधीः पठन् । ।

आगोपालकमायोषिदास्तामेतस्य लेह्यता ।
इत्थं कविः पठन्काव्यं वाग्देव्या अतिवल्लभः । ।

ये ऽपि शब्दविदो नैव नैव चार्थविचक्षणाः ।
तेषामपि सतां पाठः सुष्ठु कर्णरसायनम् । ।

पठन्ति संस्कृतं सुष्ठु कुण्ठाः प्राकृतवाचि तु ।
वाराणसीतः पूर्वेण ये केचिन्मगधादयः" । ।

आह स्म- "ब्रह्मन्विज्ञापयामि त्वां स्वाधिकारजिहासया ।
गौडस्त्यजतु वा गाथामन्या वास्तु सरस्वती । ।

नातिस्पष्टो न चाश्लिष्टो न रुक्षो नातिकोमलः ।
न मद्रो नातितारश्च पाठी गौडेषु वाडवः । ।

रसः को ऽप्यस्तु काप्यस्तु रीतिः को ऽप्यस्तु वा गुणः ।
सगर्वं सर्वकर्णाटाष्टङ्कारोत्तरपाठिनः । ।

गद्ये पद्ये ऽथवा मिश्रे काव्ये काव्यमना अपि ।
गेयगर्भे स्थितः पाठे सर्वो ऽपि द्रविडः कविः । ।

पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः ।
जिह्वया ललितोल्लापलब्धसौन्दर्यमुद्रया । ।

सुराष्ट्रत्रवणाद्या ये पठन्त्यर्पितसौष्ठवम् ।
अपभ्रंशावदंशानि ते संस्कृतवचांस्यपि । ।

शारतायाः प्रसादेन काश्मीरः सुकविर्जनः ।
कर्णो गुडूचीगण्डूषस्तेषां पाठक्रमः किमु ? । ।

ततः पुरस्तात्कवयो ये भवन्त्युत्तरापथे ।
ते महात्यपि संस्कारे सानुनासिकपाठिनः । ।

मार्गानुगेन निनदेन निधिर्गुणानां सम्पूर्णवर्णरचनो यतिभिर्विभक्तः ।
पाञ्चालमण्लभ्रुवां सुभगः कवीनां श्रोत्रे मधु क्षरति किञ्चन काव्यपाठः । ।

ललल्लकारया जिह्वां जर्जरस्फाररेफया ।
गिरा भुजङ्गाः पूज्यन्ते काव्यभाव्यधियो न तु । ।

पञ्चस्थानमुद्भववर्णेषु यथास्वरुपनिष्पत्तिः ।
अर्थवशेन च विरतिः सर्वस्वमिदं हि पाठस्य" । ।

सकाकुकलना पाठप्रतिष्टेयं प्रतिष्ठिता ।
अर्थानुशासनस्याथ प्रकारः परिकीर्त्त्यन्ते । ।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे सत्पमो ऽध्यायः वाक्यविशेषाः काकुकलना पाठप्रतिष्ठा च । ।



अष्टमो ऽध्यायः ८

वाक्यार्थयोनयः "श्रुतिः, स्मृतिः, इतिहासः, पुराणं, प्रमाणविद्या, राजसिद्धान्तत्रयी, लोको, विरचना, प्रकीर्णकं च काव्यार्थानां द्वादश योनयः" इति आचार्याः ।
"उचितसंयोगेन, योक्तृसंयोगेन, उत्पाद्यसंयोगेन, संयोगविकारेण च सह षोडश" इति यायावरीयः ।
तत्र श्रौतः ।
"उर्वशी हाप्सराः पुरुरवसमैडं चकमे" ।
अत्रार्थे- "चन्द्राद् बुधः समभवद्भगवान्नरेन्द्र-माद्यं पुरुरवसमैडमसावसूत ।
तं चाप्सराः स्मरवती चकमे किमन्यद् अत्रोर्वशी स्मितवशीकृतशक्रचेताः" । ।

यथा वा- "यदेतन्मण्डलं तपति तन्महदुक्थं ता ऋचः स ऋचां लोको ऽथ यदेतदर्चिर्दीप्यते तन्महाव्रतं तानि सामानि स साम्नां लोतो ऽथ य एष तस्मिन्मण्डले पुरुषः सो ऽग्निस्तानि यजूंषां लोकः सैषा त्रय्येव विद्या तपति" ।
अत्रार्थे- "एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचो ऽर्चींषि यानि द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डले ऽणुर्यजूंषि ।
एवं यं वेद वेदत्रियमयमयं वेदवेदी समग्रो वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सो ऽस्तु सूर्यः श्रिये वः" । ।

तच्चेदं वेदहरणं यदित्थं कथयन्ति--- "नमो ।
स्तु तस्यै श्रुतये यां दुहन्ति पदे पदे ।
ऋषयः शास्त्रकारश्च कवयश्च यथामति" । ।

स्मार्त्तः- "बह्वर्थेष्वभियुक्तेन सर्वत्र व्यपलापिना ।
विभावितैकदेशेन देयं यदभियुज्यते" । ।

अत्रार्थे- "हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
सम्भावितैकदेशेन देयं यदभियुज्यते" । ।

ऐतहासिकाः- "न स सङ्कुचितः पन्था येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः" । ।

अत्र- "मदं नवैश्वर्यलवेन लम्भितं विसृज्य पूर्वं समयो विमृश्यताम् ।
जगज्जिघत्सातुरकण्ठकद्धतिर्न बालिर्नैवाहततृत्पिरन्तकः" । ।

पौराणिकाः- "हिरण्यकशिपुर्दैत्यो यां यां स्मित्वाप्युदैक्षत ।
भयभ्रान्तैः सुरैश्चक्रे तस्यै तस्यै दिशे नमः" । ।

अत्र- "स सञ्चरिष्णुर्भुवनत्रये ऽपि यां यदृच्छयाशिश्रियदाश्रयः श्रियः ।
अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः" । ।

अत्राहुः- "श्रुतीनां साङ्गशाखानामितिहासपुराणयोः ।
अर्थग्रन्थः कथाभ्यासः कवित्वस्यैकमौषधम् । ।

इतिहासपुराणाभ्यां चक्षुर्भ्यामिव सत्कविः ।
विवेकाञ्जनशुद्धाभ्यां सूक्ष्ममप्यर्थमीक्षते । ।

वेदार्थस्य निवन्धेन श्लाध्यन्ते कवयो यथा ।
स्मृतीनामितिहासस्य पुराणस्य तथा तथा" । ।

द्विविधः प्रामाणिको मैमांसिकस्तार्किकश्च ।
तत्र प्रथमः शब्दस्य सामान्यमभिधेयं विशेषश्चार्थः ।
अत्र- "सामान्यवाचि पदमप्यभिधीयमानं मां प्राप्य जातमभिधेयविशेषनिष्टम् ।
स्त्री काचिदित्यभिहिते सततं मनो मे तामेव वामनयनां विषयीकरोति" । ।

तर्केषु साङ्खयीयः- "नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टो ऽन्तस्त्वनयोस्तत्त्वदर्शिभिः" । ।

अत्र- "य एते यज्वानः प्रथितमहसो ये ऽप्यवनिपा मृगाक्ष्यो याश्वेताः कृतमपरसंसारकथया ।
अमी ये दृश्यन्ते फलकुसुमनम्राश्च तरवो जगत्येवंरुपा विलसति मृदेषा भगवती" । ।

न्यायवैशेषिकीयः-स किंसामग्रीक ईश्वरः कर्त्ता? इति पूर्वपक्षः ।
निरतिशयैश्वर्यस्य तस्य कर्तृत्वमिति सिद्धान्तः ।
अत्र- "किमीहः किङ्कायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हृतधियः कुतर्को ऽयं कांश्वन्मुखरयति मोहाय जगतः" । ।

बोद्धीयः- विवक्षापूर्वा हि शब्दास्तामेव विवक्षां सूचयेयुः ।
अत्र- "भवतु विदितं शब्दा वक्तुर्विवक्षितसूचकाः स्मरवति यतः कान्ते कान्तां बलात्परिचुम्बति ।
न न न म म मा मा मां स्प्राक्षीर्निषेधपरं वचो भवति शिथिले मानग्रन्थौ तदेव विधायकम्" । ।

लौकायतिकः - भूतेभ्यश्वैतन्यं मदशक्तिवत् ।
अत्र- "बहुविधमिह साक्षिचिन्ताकाः प्रवदन्त्यन्यदितः कलेवरात् ।
अपि च सुदति ते सचिन्तकाः प्रलयं यान्ति सहैव चिन्तया" । ।

आर्हतः - शरीरपरिमाण आत्मा, अन्यथा शरीराफल्यमात्माफल्यं वा ।
अत्र- "शरीरमात्रमात्मानं ये वदन्ति जयन्ति ते ।
तच्चुम्बने ऽपि यज्जातः सर्वाङ्गपुलको ऽस्य मे" । ।

सर्वपार्षदत्वात्काव्यविद्यायाः तानिमानन्यांश्चार्थान्व्युत्यत्तये प्रत्यवेक्षेत ।
आहुश्च- "यांस्तर्ककर्कशानर्थान्सीक्तिष्वाद्रियते कविः ।
सूर्यांशव इवेन्दौ ते काञ्चिदर्चन्ति कान्तताम्" । ।

समयविद्यासु शैवसिद्धान्तीयः- "घोरघोरतरातीतब्रह्मविद्याकलातिगः ।
परापरपदव्यापी पायादूः परमेश्वरः" । ।

पञ्चरात्रः- "नाद्यान्तवन्तः कवयः पुराणाः सूक्ष्मा बृहन्तो ऽप्यनुशासितारः ।
सर्वज्वरान्ध्वन्तु ममानिरुद्धप्रद्युम्नसङ्कर्षणवासुदेवाः" । ।

बौद्धसिद्धान्तीयः- "कलिकृतकलुषाणि यानि लोके मयि निपतन्तु विमुच्यतां स लोकः ।
मम हि सुचरितेन सर्वसत्त्वाः परमसुखेन सुखावनीं प्रयान्तु" । ।

एवं सिद्धान्तन्तान्तरेष्वपि ।
राजसिद्धान्तत्रय्यामर्थशास्त्रीयः - "शमव्यायामाभ्यां प्रतिविहिततन्त्रस्य नृपतेः परं प्रत्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
बहुव्याजं राज्यं न सुकरमराजप्रणिधिभिर् दुराराधा लक्ष्मीरनवहिदचित्तं छलयति" । ।

नाट्यशास्त्रीयः- "एवं धारय देवि बाहुलतिकामेवं कुरुष्वाङ्गकं मात्युच्चैर्नम कुञ्चयाग्रचरणं मां पश्य तावत्स्थितम् ।
देवीं नर्त्तयतः स्ववक्रमुरजेनाभ्भोधरध्वानिना शभ्भोर्वः परिपान्तु लम्बितलयच्छेदाहृतास्तालिकाः" । ।

कामसूत्रीयः- "नाश्वर्यं त्वयि यल्लक्ष्मीः क्षिप्त्वाधोक्षमागता ।
असौ मन्दरतस्त्वं तु प्रात्पः समरतस्तया" । ।

लौकिकस्तु द्विधा प्राकृतो व्युत्पन्नश्च ।
तयोः प्रथमः- "स्फुटितपिठरीबन्धश्लाध्यो विपक्षगृहेप्यभूत् प्रियतम ययोः स्नेहग्रन्थिस्तथा प्रथमं स नौ ।
जनवदधुना सद्मन्यावां वसाव इहैव तौ धिगपरिचिते प्रेम स्त्रीणां चिराय च जीवितम्" । ।

यथा वा- "इक्षुदण्डस्य मण्डस्य दध्नः पिष्टकृतस्य च ।
वाराहस्य च मांसस्य शेषो गच्छति फाल्गुने" । ।

द्वितीयो द्विधा समस्तजनजन्यः कतिपयजनजन्यश्च ।
तयोः प्रथमो ऽनेकधा देशानां बहुत्वात् ।
तत्र दाक्षिणात्यः- "पिबन्त्यास्वाद्य मरिचं ताम्बूलविशदैर्मुखैः ।
प्रियाधरावदंशानि मधूनि द्रविडाङ्गनाः" । ।

यथा वा- "विरम मदन कस्त्वं चैत्रघ का शक्ति रिन्दोर् इह हि कुसुमबाणाः कुण्ठिताग्राः स्खलन्ति ।
हृदयभ्रुव इमास्ताः कुन्तलप्रेयसीनां प्रहतिकिणकठोरग्रन्थयो वज्रसाराः" । ।

उदीच्यः- "नेपाल्यो वल्लभैः सार्द्धमार्द्रैणमदमण्डनाः ।
ग्रन्थिपर्णकपालीषु नयन्ति ग्रीष्मयामिनीः" । ।

द्वितीयः- "मिथ्यामीलदरालपक्ष्मणि वलत्यन्तः कुरङ्गीदृशो दीर्घापाङ्गसरित्तरङ्गतरले तत्पोन्मुखं चक्षुषि ।
पत्युः केलिमतः कथां विरमयन्नन्योन्यपण्कूयनात् को ऽयं व्याहरतीत्युदीर्य निरगात्सव्याजमालीजनः" । ।

कविमनीषानिर्मितं कथातन्त्रमर्थमात्रं वा विरचना ।
तत्राद्या- "अस्ति चित्रशिखो नाम खङ्गवीद्याधराधिपः ।
दक्षिणे मलयोत्सङ्गे रत्नवत्याः पुरः पतिः । ।

तस्य रत्नाकरसुता श्रियो देव्याः सहोदरी ।
स्वयंवरिधावासीत्कलत्रं चित्रसुन्दरी" । ।

द्वितीया- "ज्योस्त्नां लिम्पति चन्दनेन स पुमान्सिञ्चत्यसौ मालतीमालां गन्धजलैर्मधीनि कुरुते स्वादून्यसौ फाणितैः ।
यस्तस्य प्रथितान्गुणन्प्रथयति श्रीवीरचूडामणेः तारत्वं स च शाणया मृगयते मुक्ताफलानामपि" । ।

अत्राहुः- "नीचैर्नार्थकथासर्गे यस्य न प्रतिभाक्षयः ।
स कविग्रामणीरत्र शेषास्तस्य कुटुम्बिनः" । ।

अभिहितेभ्यो यदन्यत्तत्प्रकीर्णकम् ।
तत्र हस्तिशिक्षीयः- "मेघानां क्षणहासतामुपगतो हारः प्रकीर्णो दिशाम् आकाशोल्लसितामरवधूपीनस्तनास्फालकः ।
क्षुण्णश्चन्द्र इवोल्बणो मदवशादैरावणप्रेरितः पायादूः परिपाकपाण्डुलवलीश्रीतस्करः शीकरः" । ।

रत्नपरीक्षीयः- "द्वौ वज्रवर्णौ जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ ।
यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्रारससन्निकाशः" । ।

धनुर्वेदीयः- "स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम्" । ।

योगशास्त्रीयः- "यः सर्वेषां हृदयकमले प्राणिनामेकहंसस् त्वं जागर्षि स्वपिषि च मुहुर्बुध्यसे नापि बुद्धः ।
तं त्वाराध्य प्रविततधियो बन्धभेदं विधाय ध्वस्तातङ्का विमलमहसस्ते भवन्तो भवन्ति" । ।

एवं प्रकीर्णकान्तरमपि ।
उचितसंयोगः- "पाण्ड्यो ऽयमंसार्पितलम्बहारः कॢत्पाङ्गरागो हरिचन्दनेन ।
आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः" । ।

योक्तृसंयोगः- "कुर्वद्भिः सुरदन्तिनो मधुलिहामस्वादु दानोदकं तन्वानैर्नमुचिद्रुहो भगवताश्चक्षुः सहस्रव्यथाम् ।
भज्जन् स्वर्गतरङ्गिणीजलभरे पङ्कीकृते पांसुभिर् यद्यात्राव्यसनं निनिन्द विमनाः स्वर्लोकनारीजनः" । ।

उत्पाद्यसंयोगः- "उभौ यदि व्योम्नि पृथक्प्रवाहावकाशगङ्गापयसः पतेताम् ।
तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः" । ।

संयोगविकारः- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" । ।

यथा वा- "उन्माद्यत्यम्बुराशिर्विदलति कुमुदं सङ्कुचन्त्यम्बुजानि स्यन्दन्ते चन्द्रकान्ताः पतितसुमनसः सन्ति शेफालिकाश्च ।
पीयन्ते चन्द्रिकाम्भः क्रमसरलगलं किं च किञ्चिञ्चकोराश् चन्द्रे कर्पूरगौवद्युतिभृति नभसो याति चूडामणित्वम्" । ।

इदं कविभ्यः कथितमर्थोत्पत्तिपरायणम् ।
इह प्रगल्भमानस्य न जात्वर्थकदर्थना । ।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे (अर्थानुशासने)षोडश काव्यार्थनयः अष्टमो ऽध्यायः । ।



नवमो ऽध्यायः ९


अर्थानुशासनम् (अर्थव्यात्पिः) "स त्रिधा" इति द्रौहिणिः॑दिव्यो, दिव्यमानुशषो, मानुषश्च ।
"सत्पधा"इति यायावरीयः पातालीयो,॑ मर्त्त्यपातालीयो, दिव्यपातालीयो, दिव्यमर्त्त्यपातालीयश्च ।
तत्र दिव्यः- "स्मृत्वा यन्निजवारवासगतया वीणासमं तुम्बुरोर् उद्गीतं नलकूवरस्य विरहादुत्कञ्चुलं रम्भया ।
तेनैरावणकर्णचापलमुषा शक्रो ऽपि निद्रा जहद् भूयः कारित एव हासिनि शचीवक्त्रे दृशं सम्भ्रमम्" ।।

दिव्यमानुषस्ति चतुर्द्धा ।
दिव्यस्य मर्त्यागमने, मर्त्यस्य च स्वर्गगमन इत्येको भेदः ।
दिव्यस्य मर्त्यभावे, मर्त्यस्य च दिव्यभाव इति द्वितीयः ।
दिव्येतिवृत्तपरिकल्पनया तृतीयः ।
प्रभावाविर्भूतदिव्यरुपतया चतुर्थः ।
तत्र दिव्यस्य मर्त्यागमनम्--- "श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।
वसन्तदर्शावतरन्तरमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः" ।।

मर्त्यस्य स्वर्गगमनम् - "पाण्डोर्नन्दन नन्दनं वनमिदं सङ्कल्पजैः शीधुभिः कॢत्पापानककेलिकल्पतरुषु द्वन्द्वैः सुधालेहिनाम् ।
अप्यत्रेन्दुशिलालवालवलयं सन्तानकानां तले ज्योत्स्नासंगलदच्छनिर्झरजलैर्यत्नं विना पूर्यते" ।।

दिव्यस्य मर्त्यभावः- "इति विकसति तस्मिन्नन्ववाये यदूनां समजनि वसुदेवो देवकी यत्कलत्रम् ।
किमपरमथ तस्मात्षोडशस्त्रीसहस्र-प्रणिहितपरिरम्भः पद्मनाभो बभूव" ।।

मर्त्यस्य दिव्यभावः- "आकाशयानतटकोटिकृतैकपादास् तद्वेमदण्डयुगलान्यवलम्ब्य हस्तैः ।
कौतूहलात्तव तरङ्गविघट्टितानि पश्यन्ति देवि मनुजाः स्वकलेवराणि" ।।

दिव्येतिवृत्तपरिकल्पना- "ज्योत्स्नापूरप्रसरविशदे सैकते ऽस्मिन्सरय्वा वदद्यूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं कैटभं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्" ।।

प्रभावाविर्भूतदिव्यभावः--- "मा गाः पातालमुर्वि स्फुरसि किमपरं पाट्यमानः कुदैत्यत? त्रैलोक्यं पादपीतप्रथिम, नहि बले? पूरस्यूनमङ्घ्रेः ।
इत्युत्स्वप्नायमाने भुवनभृति शिखावङ्कसुत्पे यशोदा पायाच्चक्राङ्कपादप्रणतिपुलकितस्मेरगण्डस्थला वः" ।।

मर्त्यः--- "वधूः श्वश्रूस्थाने व्यवहरति पुत्रः पितृपदे पदे रिक्ते रिक्ते विनिहितपदार्थान्तरमिति ।
नदीस्रोतोन्यायादकलितविवेकक्रमघनं न च प्रत्यावृत्तिः प्रवहति जगत्पूर्णमथ च" ।।

पातालीयः- "कर्कोटः कोटिकृत्वः प्रणमति पुरतस्तक्षके देहि चक्षुः सज्जः सेवाज्जलिस्ते कपिलकुलिकयोः स्तैति च स्वस्तिकस्त्वां ।
पद्मः सद्मैष भक्तेरवलगति पुरः कम्बलो ऽयं बलो ऽयं सोत्सर्पः सर्पराजो व्रजतु निजगृहं प्रेष्यतां शङ्खपालः" ।।

मर्त्यपातालीयः- "आर्द्रावले!व्रज न वेत्स्यपकर्ण!कर्णं द्विः सन्दधाति न शरं हरशिष्यशिष्यः ।
तत्साम्प्रतं समिति पश्य कुतूहलेन मर्त्यैः शरैरपि किरीटिकिरीटमाथम्" ।।

इहापि पूर्ववस्तमस्तमिश्रभेदानुगमः ।
दिव्यपातालीयः- "स पातु वो यस्य शिखाश्मकर्णिकं स्वदेहनालं फणपत्रसञ्चयम् ।
विभाति जिह्वायुगलोलकेसरं पिनाकिनः कर्णभुजङ्गपङ्कजम्" ।।

स्वर्गमर्त्यपातालीयः- "आस्तीको ऽस्ति मुनिः स्म विस्मयकृतः पारीक्षितीयान्मखात् त्राता तक्षकलक्ष्मणः फणभृतां वंशस्य शक्रस्य च ।
उद्देल्लन्मलयाद्रिचन्दनलतास्वान्दोलनप्रक्रमे यस्याद्यापि सविभ्रमं फणिवधूवृन्दैर्यशो गीयते" ।।

सो ऽयमित्थङ्कारमुल्लिख्योपजीव्यमानो निःसीमोर्थसार्थः सम्पद्यते इत्याचार्याः ।
"अस्तु नाम निःसीमोर्थसार्थः ।
किन्तु द्विरुप एवासौ विचारितसुस्थो ऽविचारितरमणीयश्च ।
तयोः पूर्वमाश्रितानि शास्त्राणि तदुत्तरं काव्यानि" इत्यौद्भटाः ।
यथा- "अपां लङ्घयितुं राशिं रुचा पिञ्जरयन्नभः ।
खमुत्पपात हनुमान्नीलोत्पलदलद्युतिः" ।।

यथा वा- "त आकाशमसिश्याममुत्पस्त्य परर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः" ।।

यथा च- "तदेव वारि सिन्धूनां महत्स्थेमार्चिषामिति" इत्यादि ।।

"न स्वरुपनिबन्धनमिदं रुपमाकाशस्य सरिल्सलिलादेर्वा किन्तु प्रतिभासनिबन्दनम् ।
न च प्रतिभासस्तादत्भ्येन वस्तुन्यवतिष्ठते, यदि तथा स्यात्सूर्याचन्द्रमसोर्मण्डले दृष्ट्या परिच्छिद्यमानद्वादशाङ्गुलप्रमाणे पुराणाद्यागमनिवेदितधरावलयमात्रे न स्तः इति यायावरीयः ।
एवं नक्षत्रादीनां सरित्सलिलादीनामन्येषां च ।
यथाप्रतिभासं च वस्तुनः स्वरुपं शास्त्रकाव्ययोर्निबन्धोपयोगि" ।
शास्त्रे यथा- "प्रशान्तजलभृत्पङ्के विमले वियदम्भसि ।
ताराकुमुदसम्बन्धे हंसायत इवोडुराट्" ।।

काव्यानि पुनरेतन्मयान्येव ।
"अस्तु नाम निःसीमार्थसार्थः ।
कुन्तु रसवत एव निबन्धो युक्तो न नीरसस्य" इति आपराजितिः ।
यदाह- "मज्जमपुष्पावजयनसन्ध्याचन्द्रोदयादिवाक्यमिह ।
सरसमपि नातिबहुलं प्रकृतरसानन्वितं रचयेत् ।।

यस्तु सरिदद्रिसागरपुरतुरगरथादिवर्णने यत्नः ।
कविशक्तिख्यातिफलो विततधियां नो मतः स इह" ।।

"आम्" इति यायावरीयः ।
अस्ति चानुभूयमानो रसस्यानुगुणो विगुणश्चार्थः, काव्ये तु कविवचनानि रसयन्ति विरसयन्ति च नार्थाः, अन्वयव्यतिरेकाभ्यां चेतमुपलभ्यते ।
तत्र सरिद्वर्णनरसवत्ता- "एतां विलोकय तलोदरि ताम्रपर्णीम् अब्धोनिधौ विवृतशुक्तिपुटोद्धृतानि ।
यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषु" ।।

अद्रिवर्णनरसवत्ता- "एतास्ता मलयोपकण्ठसरितामेणाक्षिरोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्दचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ।।

सागरवर्णनरसवत्ता- "धत्ते यत्किलकिञ्चितैकगुरुतामेणीदृशां वारुणी वैधुर्यं विदधाति दम्पतिरुषां यच्चन्द्रिकार्द्रं नभः ।
यच्च स्वर्गसदां वयः स्मरसुहृन्नित्यं सदा सम्पदां यल्लक्ष्मीरधिदैवतं च जलधेस्तत्कान्तमाचेष्टितम्" ।।

एवं पुरतुरगादिवर्णनरसवत्तापि ।
विप्रलम्भेप्यतिरसवत्ता- "विधर्माणो भावास्तदुपहितवृत्तेर्न धृतये सरुपत्वादन्ये विहितविफलौत्सुक्यवरसाः ।
ततः स्वेच्छं पूर्वेष्वसजदितरेभ्यः प्रतिहतं क्व हीनं प्रेयस्या हृदयमिदमन्यत्र रमताम्" ।।

कुकविर्विप्रलम्भे ऽपि रसवत्तां निरस्यति ।
अस्तु वस्तुषु मा वा भूत्कविवाचि रसः स्थितः ।।

"यथा तथा वास्तु वस्तुनो रुपं, वक्तप्रकृतिविशेषायत्ता तु रसवत्ता ।
तथा च यमर्थं रक्तः स्तौति तं विरक्तो विनिन्दति मध्यस्थस्तु तत्रघोदास्ते" इति पाल्यकीर्तिः ।
"येषां वल्लभया समं क्षणमिव स्फारा क्षपा क्षीयते तेषां शीततरः शशी विरहिणामुल्केव सन्तापकृत् ।
अस्माकं न तु वल्लभा न विरहस्तेनोभयभ्रंशिनाम् इन्दू राजति दर्पणाकृतिरयं नोष्णो न वा शीतलः" ।।

"विदग्धभणितिभङ्गिनिवेद्यं वस्तुनो रुपं न नियतस्वभावम्" इति अवन्तिसुन्दरी ।
तदाह- "वस्तुस्वभावो ऽत्र कवेरतन्त्रे गुणागुणावुक्तिवशेन काव्ये ।
स्तुवन्निवध्नात्यमृतांशुमिन्दुं निन्दुंस्ति दोषाकरमाह धूर्त्तः" ।।

"उभयमुपपन्नम्" इति यायावरीयः ।
स पुनर्द्विधा ।
मुक्तकप्रबन्धत्रिषयत्वेन ।
तावपि प्रत्येकं पञ्चधा ।
शुद्धः, चित्रः, कथोत्थः, संविधानकभूः, आख्यानकवांश्च ।
तत्र मुक्तेतिवृत्तः शुद्धः ।
स एव सप्रपञ्चश्चित्रः ।
वृत्तेतिवृत्तः कथोत्थः ।
सम्भावितेतिवृत्तः संविधानकभूः ।
परिकल्पितेतिवृत्तः आख्यानकवान् ।
तत्र ।
मुक्तके-शुद्धः- "सा पत्युः प्रथमापराधकरणे शिक्षोपदेशं विना नो जनाति सविभ्रमाङ्गवलना वक्रोक्तिचित्रां गतिम् ।
स्वच्छैरच्छकपोलमूलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलोदकैरश्रुभिः" ।।

चित्रः- "दूरादुत्सकमागते विवसितं सम्भाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने कोपाञ्चितभ्रूतलम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णां क्षणाच् चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि" ।।

कथोत्थः- "दत्त्वा रुद्भगतिः खसाधिपतये देवीं ध्रुवस्वामिनीं यस्मात्खण्डितसाहसो निववृते श्रीशर्मगुत्पो नृपः ।
तस्मिन्नेव हिमालये गुरुगुहाकोणक्वणत्किन्नरे गीयन्ते तव कार्त्तिकेयनगरस्त्रीणां गणैः कीर्त्तयः" ।।

संविधानक्रभूः- "दृष्ट्रवैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादराद् एकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसाम् अन्तर्हासलसत्कपोलफलकां धूर्तो ऽपरां चुम्बति" ।।

यथा च- "कुवर्त्या कुङ्कुमाभ्भः कपिशितवपुषं यत्तदा राजहंसीं क्रीडाहंशो मयासावजानि विरहितश्चक्रवाकीभ्रमेण ।
तस्यैतत्पाप्मनो मे परिणमति फलं यत्पुरे प्रेमबन्धाद् एकत्रावां वसावो न च दयित दृशाप्यस्ति नौ सन्निकर्षः" ।।

आख्यानकवान्- "अर्थिजनार्थधृतानां वनकरिणां प्रथमकल्पितैर्दशनैः ।
चक्रे परोपकारी हैहयजन्मा गृहं शम्भोः" ।।

निबन्धे शुद्धः- "स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् ।
प्रतिनयननिपाते किञ्चिदाकुञ्चितानां सुचिरमहमभूवं पात्रमालोकितानाम्" ।।

चित्रः- "अलसवलितमुग्धस्निग्धनिष्पन्दमन्दैर् अधिकविकसदन्तर्विस्मयस्मेरतारैः ।
हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैर् अपहृतमपविद्धं पीतमुन्मीलितं च" ।।

कथोत्थ-- "अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशत्पः फलमेतदन्वभूत्" ।।

संविधानकभूः- "क्रोधं प्रभो संहर संहरेति यावद्भिरः रवे मरुतां चरन्ति ।
तावत्स वह्णिर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार" ।।

आख्यानकवान्- "पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रज्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान" ।।

किञ्च- संस्कृतवत्सर्वास्वपि भाषासु यथासामर्थ्यं यथारुचि यथा- कौतुकं चावहितः स्यात् ।
शब्दार्थयोश्चाभिधानाभिधेयव्यापारप्रगुणतामवबुध्येत ।
तदुक्तम्- एको ऽर्थः संस्कृतोक्त्या स सुकविरचनः प्राकृतेनापरो ऽस्मिन् अन्यो ऽपभ्रंशगीर्भिः किमपरमपरो भूतभाषाक्रमेण ।
द्वित्राभिः को ऽपि वाग्भिर्भवति चतसृभिः किञ्च कश्चिद्विवेक्तुं यस्येत्थं धीः प्रपन्ना स्नपयति सुकवेस्तस्य कीर्त्तिर्जगन्ति ।।

इत्थङ्कारं घनैरथैर्व्युत्पन्नमनसः कवेः ।
दुर्गमे ऽपि भवेन्मार्गे कुण्ठिता न सरस्वती ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थानुशासने (अर्थव्यात्पिः) नवमो ऽध्यायः ।।



१० कविचर्या राजचर्या च ।

गृहीतविद्योपविद्यः काव्यक्रियायै प्रयतेत ।
नामधातुपारायणे, अभिधानकोशः, छन्दोविचितः, अलङ्कारतन्त्रं च काव्यविद्याः ।
कलास्तु चतुःषष्टिरुपविद्याः ।
सुजनोपजीव्यकविसन्निधः, देशवार्ता, विदग्धवादो, लोकयात्रा, विद्वद्गोष्ठ्यश्च काव्यमातरः पुरातनकविनिबन्धाश्च ।
किञ्च- स्वास्थ्यं प्रतिभाभ्यासो भक्तिर्विद्वत्कथा बहुश्रुतता ।
स्मृतिदाढर्यमनिर्वेदश्च मातरो ऽष्टौ कवित्वस्य ।।

अपि च नित्यं शुचिः स्यात् ।
त्रिधा च शौचं वाक्शौचं, मनः-शौचं, कायशौचं च ।
प्रथमे शास्त्रजन्मनी ।
तार्तीयीकं तु सनखच्छेदौ पादौ, सताम्बूलं मुखं, सविलेपनमात्रं वपुः, महार्हमनुल्बणं च वासः, सुकुसुमं शिर इति ।
शुचिशीलनं हि सरस्वत्याः संवननमामनन्ति ।
स यत्स्वभावः कविस्तकदनुरुपं काव्यम् ।
यदृशाकारश्चित्रकारस्तादृशाकारमस्य चित्रमिति प्रायोवादः ।
स्मितपूर्वमभिभाषणं, सर्वत्रोक्तिगर्भमभिधानं, सर्वतो रहस्यान्वेषणं, परकाव्यद्षणवैमुख्यमनभिहितस्य अभिहितस्य तु यथार्थमभिधानम् ।
तस्य भवनं सुसंमृष्टं, ऋतुषट्कोचितविविधस्थानम्, अनेकतरुमूलकल्पितापाश्रयवृक्षवाटिकं, सक्रीडापर्वतकं, सदीर्धिकापुष्करिणीकं, ससरित्समुद्रावर्त्तकं, सकुल्याप्रवाहं, सविर्हिणहरिणहारितं, ससारसचक्रवाक्रहंसं, सचकोरक्रौञ्चकुररशुकसारिकं, धर्मक्लान्तिचौरं, सभू(ति)मिधारागृहयन्त्रलतामण्डपकं,, सदोलाप्रेङ्खं च स्यात् ।
काव्याभिनिवेशखिन्नस्य मनसस्तद्विनिर्वेदच्छेदाय आज्ञाभूकपरिजनं विजनं वा तस्य स्थानम् ।
अपभ्रंशभाषणप्रवणः परिचारकवर्गः, समागधभाषाभिनिवेशिन्यः परिचारिकाः ।
प्राकृतसंस्कृतभाषाविद आन्तःपुरिका, मित्राणि चास्य सर्वभाषाविन्दि भवेयुः ।
सदःसंस्कारविशुद्ध्यर्थं सर्वभाषाकुशलः, शीघ्रवाक्, चार्वक्षरः, इङ्गिताकारवेदी, नानालिपिज्ञः, कविः, लाक्षणिकश्च लेखकः स्यात् ।
तदसन्निधावतिरात्रादिषु पूर्वोक्तनामन्यतमः ।
स्वभवने हि भाषानियमं यथा प्रभुर्विदधाति तथा भवति ।
श्रूयते हि मगधेषु शिशुनागो नाम राजा॑तेन दुरुञ्चारानष्टौ वर्णानपास्य स्वान्तःपुर एव प्रवर्त्ततो नियमः, टकारादयश्चत्वारो मूर्ध्दन्यास्तृतीयवर्जमूष्माणस्त्रयः क्षकारश्चेति ।
श्रूयते च सूरसेनेषु कुविन्दो नाम राजा॑ तेन परुषसंयोगाक्षरवर्जमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते च कुन्तलेषु सातवाहनो नाम राजा॑ तेन प्राकृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
श्रूयते चोज्जयिन्यां साहसाङ्को नाम राजा॑ तेन च संस्कृतभाषात्मकमन्तःपुर एवेति समानं पूर्वेण ।
तस्य सम्पुटिका सफलकखटिका, समुद्गकः, सलेखनीकमषीभाजनानि ताडिपत्राणि भूर्जत्वचो वा, सलोहकण्टकानि तालदलानि सुसभ्मृष्टा भित्तयः, सततसन्निहिताः स्युः ।
"तद्धि काव्यविद्यायाः परिकरः"इति आचार्याः ।
"प्रतिभैव परिकरः" इति यायावरीयः ।
कविः प्रथममात्मानमेव कल्पयेत् ।
कियान्मे संस्कारः, क्व भाषाविषये शक्तो ऽस्मि, किं रुचिर्लोकः, परिवृढो वा, कीदृशि गोष्ठ्यां विनीतः, क्वास्य वा चेतः संसजत इति बुद्ध्वा भाषाविशेषमाश्रयेत"इति आचार्याः ।
"एकदेशकवेरियं नियमतन्त्रणा, स्वतन्त्रघस्य पुनरेकभाषावत्सर्वा अपि भाषाः स्युः" इति यायावरीयः ।
देशविशेषवशेन च भाषाश्रयणं दृश्यते ।
तदुक्तम्- "गौडाद्याः संस्कृतस्थाः परिचितरुचयः प्राकृते लाटदेश्याः सापभ्रंशप्रयोगाः सकलमरुभुवष्टक्कभादानकाश्च ।
आवन्त्याः पारियात्राः सह दशपुरजैर्भूतभाषां भजन्ते यो मध्येमध्यदेशं निवसति स कविः सर्वभाषानिषण्णः ।।

जानीयाल्लोकसांमत्यं कविः कुत्र ममेति च ।
असंमतं परिहरेन्मते ऽभिनिविशेत च ।।

जनापवादमात्रेण न जुगुप्सेत चात्मनि ।
जानीयात्स्वयमात्मानं यतो लोको निरङ्कुशः ।।

गीतसूक्तिरतिक्रान्ते स्तोता देशान्तरस्थिते ।
प्रत्यक्षे तु कवौ लोकः सावज्ञः सुमहत्यपि ।।

प्रत्यक्षकविकाव्यं च रुपं च कुलयोषितः ।
गृहवैद्यस्य विद्या च कस्मैचिद्यदि रोचते ।।

इदं महाहासकरं विचेष्टितं परोक्तिपाटच्चरतारतो ऽपि यत् ।
सदुक्तिरत्नाकरतां गतान्कवीन् कवित्वमात्रघेण समेन निन्दति ।।

वचः स्वादु सतां लेह्यं लेशस्वाद्वपि कौतुकात् ।
बालस्त्रीहीनजातीनां काव्यं याति मुखान्मुखम् ।।

कार्यावसरसज्जानां परिव्राजां महीभ्रुजाम् ।
काव्यं सद्यः कवीनां च भ्रमत्यह्ना दिशो दश ।।

पितुर्गुर्रेर्नन्द्रस्य सुतशिष्यपदातयः ।
अविविच्यैव काव्यानि स्तुवन्ति च पठन्ति च" ।।

"किञ्च नार्द्धकृतं पठेदसमात्पिस्तस्य फलम्" इति कविरहस्यम् ।
न नवीनमेकाकिनः पुरतः ।
स हि स्वीयं ब्रुवाणः कतरेण साक्षिणा जीयेत ।
न च स्वकृतिं बहुमन्येत ।
पक्षुपातो हि गुणदोषौ विपर्यासयति ।
न च दृप्येत् ।
दर्पलवो ऽपि सर्वसंस्कारानुच्छिनत्ति ।
परैश्च परीक्षयेत् ।
यदुदासूनः पश्यति न तदनुष्ठातेति प्रायोवादः ।
कविमानिनं तु छन्दो ऽनुवर्त्तनेन रञ्जयेत् ।
कविंमन्यस्य हि पुरतः सूक्तमरण्यरुदितं स्याद्विप्लवेत च ।
तदाह- "इदं हि वैदग्ध्यरहस्यमुत्तमं पठेन्न सूक्तिं कविमानिनः पुरः ।
न केवलं तां न विभावयत्यसौ स्वकाव्यबन्धेन विनाशयत्यपि" ।।

अनियतकालाः प्रवृत्तयो विप्लवन्ते तस्माद्दिवसं निशां च यामक्रमेण चतुर्द्धा विभजेत् ।
स प्रातरुत्थाप कृतसन्ध्यावरिवस्याः सारस्वतं सूक्तमधीयीत ।
ततो विद्यावसथे यथासुखमासीनः काव्यस्य विद्या उपविद्याश्चानुशीलयेदाप्रहरात् ।
न ह्येवंविधोन्यः प्रतिभाहेतुर्यथा प्रत्यग्रसंस्कारः ।
द्वितीये काव्यक्रियाम् ।
उपमध्याह्नं स्नायादविरुद्धं भुञ्जीत च ।
भोगनान्ते काव्यगोष्ठीं प्रवर्त्तयेत् ।
कदाचिच्च प्रश्नोत्तराणि भिन्दीत ।
काव्यसमस्याधारणा, मातृकाभ्यासः, चित्रा योगा इत्यायामत्रयम् ।
चतुर्थ एकाकिनः परिमितपरिषदो वा पूर्वाह्नभागविहितस्य काव्यस्य परीक्षा ।
रसावेशतः काव्यं विरचयतो न च विवेक्त्री दृष्टिस्तस्मादनुपरीक्षेत ।
अधिकस्य त्यागो, न्यूनस्य पूरणम्, अन्यतास्थितस्य परिवर्त्तनं, प्रस्मृतस्यानुसन्धानं चेत्यहीनम् ।
सायं सन्ध्यामुपासीत सरस्वतीं च ।
ततो दिवा विहितपरीक्षकस्याभिलेखनमाप्रदोशात् ।
यावदार्त्तं स्त्रियमभिमन्येत ।
द्वितीयतृतीयौ साधु शयीत ।
सम्यक्स्वापो वपुषः परमारोग्याय ।
चतुर्थे सप्रयन्तं प्रतिबुध्येत ।
ब्राह्मे मुहूर्त्ते मनः प्रसीदत्तांस्तानर्थानध्यक्षयतीत्याहोरात्रिकम् ।
चतुर्विधश्चासौ ।
असूर्यम्पश्यो, निषण्णो, दत्तावसरः, प्रायोजनिकश्च ।
यो गुहागर्भभूमिगृहादिप्रवेशान्नैष्ठकवृत्तिः कवते, असावसूर्यम्पश्यस्तस्य सर्वे कालाः ।
यःकाव्यक्रियायामभिनिविष्टः कवते न च नौष्ठिकवृत्तिः, स निषाण्णस्तस्यापि त एव कालाः ।
यः सेवादिकमविरुन्धानः कवते, स दत्तावसरस्तस्य कतिपये कालाः ।
निशायास्तुरीययामार्द्धः, स हि सारस्वतो मुहूर्त्तः ।
भोजनान्तः, सौहित्यं हि स्वास्थ्यमुपस्थापयति ।
व्यवायोपरमः, यदर्त्तिविनिवृत्तिरेकमेकाग्रतायनम् ।
याप्ययानयात्रा, विषयान्तरविनिवृत्तं हि चित्तं यत्र यत्र प्रणिधीयते तत्र तत्र गुहूचीलागं लगति ।
यदा यदा चात्मनः क्षणिकतां मन्यते स स काव्यकरणकालः ।
यस्तु प्रस्तुतं किञ्चन संविधानकमुद्दिश्य कवते, स प्रायोजनिकस्तस्य प्रयोजनवशात्कालव्यवस्था ।
बुद्धिमदाहार्यबुद्धयोरियं नियममुद्रा ।
औपदेशिकस्य पुनरिच्छैव सर्वे कालाः, सर्वाश्च नियममुद्राः ।
परुषवत् योषितो ऽपि कवीभवेयुः ।
संस्कारो ह्यात्मनि समवैति, न स्त्रैणं पौरुषं वा विभागमपेक्षते ।
श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्रदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ।
सिद्धं च प्रबन्धमनेकादर्शगतं कुर्यात् ।
यदित्थं कथयन्ति- "निक्षेपो विक्रयो दानं देशत्यागो ऽल्पजीविता ।
त्रुटिको वह्निरम्भश्च प्रबन्धोच्छेदहेतवः ।।

दारिद्रयं व्यसनासक्तिरवज्ञा मन्दभाग्यता ।
दुष्टे द्विष्टे च विश्वासः पञ्च काव्यमहापदः" ।।

पुनः समापयिष्यामि, पुनः संस्करिष्यामि, सुहृद्भिः सह विवेचयिष्यामीति कर्तुराकुलता राष्ट्रोपप्लवश्च प्रबन्धविनाशकारणानि ।
"अहर्निशाविभागेन य इत्थं कवते कृती ।
एकावलीव तत्काव्यं सतां कण्ठेषु लम्बते ।।

यथा यथाभियोगश्च संस्कारश्च भवेत्कवेः ।
तथा तथा निबन्धानां तारतम्येन रम्यता ।।

मुक्तके कवयो ऽनन्ताः सङ्घाते कवयः शतम् ।
महाप्रबन्धे तु कविरेको द्वौ दुर्लभास्त्रयः" ।।

अत्राह स्म- "बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितार्थसम्बन्धः प्रबन्धो दुरुदाहरः ।।

रीतिं विचिन्त्य विगणय्य गुणान्विगाह्य शब्दार्थसार्थमनुसृत्य च सूक्तिमुद्राः ।
कार्यो निबन्धविषये विदुषा प्रयत्नः के पोतयन्त्ररहिता जलधौ प्लवन्ते ।।

लीढाभिधोपनिषदां सविधे बुधानाम् अभ्यस्यतः प्रतिदिनं बहुदृश्वनो ऽपि ।
किञ्चित्कदाचन कथञ्चन सूक्तिपाकाद् वाक्-तत्त्वमुन्मिषति कस्यचिदेव पुंसः ।।

इत्यनन्यमनोवृत्तेनिःशेषे ऽस्य क्रियाक्रमे ।
एकपत्नीव्रतं धत्ते कवेर्देवी सरस्वती ।।

सिद्धिः सूक्तिषु सा तस्य जायते जगदुत्तरा ।
मूलच्छायां न जानाति यस्याः सो ऽपि गिरां गुरुः" ।।

राजा कविः कविसमाजं विदधीत ।
राजनि कवौ सर्वो लोकः कविः स्यात् ।
स काव्यपरीक्षायै सभां कारयेत् ।
सा षोडशभिः स्तम्भैश्चतुर्भिर्द्वारैरष्टभिर्मत्तवारणीभिरुपेता स्यात् ।
तदनुलग्नं राज्ञः केलिगृहम् ।
मध्येसभं चतुःस्तम्भान्तरा हस्तमात्रोत्सेधा समणिभूमिका वेदिका ।
तस्यां राजासनम् ।
तस्य चोत्तरतः संस्कृताः कवयो निविशेरन् ।
बहुभाषाकवित्वे यो यत्राधिकं प्रवीणः स तेन व्यपदिश्यते ।
यस्त्वनेकत्र प्रवीणः स सङ्क्रम्य तत्र तत्रोपविशेत् ।
ततः परं वेदविद्याविदः प्रामाणिकाः पौराणिकाः स्मार्त्ता भिषजो मौहूर्त्तका अन्ये ऽपि तथाविधाः ।
पूर्वेण प्राकृताः कवयः, ततः परं नटनर्त्तकगायनवादकवाग्जीवनकुशीलवतालापचरा अन्ये ऽपि तथाविधाः ।
पश्चिमेनापभ्रंशिनः कवयः, ततः परं चित्रलेप्यकृतो माणिक्य वन्धका वैकटिकाः स्वर्णकारवर्द्धकिलोहकारा अन्ये ऽपि तथाविधाः ।
दक्षिणतो भूतभाषाकवयः ॑ ततः परं भुजङ्गणिकाः प्लवकशौभिकजभ्भकमल्लाः शस्त्रोपजीविनो ऽन्ये ऽपि तथाविधाः ।
तत्र यथासुखमासीनः काव्यगोष्टीं प्रवर्त्तयेद् भावयेत् परीक्षेत च ।
वासुदेवसातवाहनशूद्रकसाहसाङ्कादीन्सकलान्सभापतीन्दानमानाभ्यामनुकुर्यात् ।
तुष्टपुष्टाश्चास्य सभ्या भवेयुः स्थाने च पारितोषिकं लभेरन् ।
लोकोत्तरस्य काव्यस्य च यथार्हा पूजा कवर्वा ।
अन्तरान्तरा च काव्यगोष्ठीं शास्त्रवादाननुजानीयात् ।
मध्वपि नानवदंशं स्वदते ।
काव्यशास्त्रविरतौ विज्ञानिष्वभिरमेत ।
देशान्तरागतानां च वितुषामन्यद्वारा सङ्गं कारयेदौचित्याद्यावत्स्थिति पूजां च ।
वृत्तिकामांश्चोपजपत् ।
सङ्गृह्णीयाच्च ।
पुरुषरत्नानामेक एव राजोदन्वान्भाजनम् ।
राजचरितं च रजोपजीविनो ऽप्यनुकुर्युः ।
राज्ञ एव ह्यसावुपकारो यद्राजोपजीविनां संस्कारः ।
महानगरेषु च काव्यशास्त्रपरीक्षार्थं ब्रह्मसभाः कारयेत् ।
तत्र परीक्षोत्तर्णानां ब्रह्मारथयानं पट्टबन्धश्च ।
श्रूयते चोज्जयिन्यां काव्यकारपरीक्षा- "इह कालिदासमेण्ठावत्रामररुपसूरभारवयः ।
हरिचन्द्रचन्द्रगुत्पौ परीक्षिताविह विशालायाम्" ।।

श्रूयते च पाटलिपुत्रे शास्त्रकारपरीक्षा- "अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्यडिः ।
वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः" ।।

इत्थं सभापतिर्भूत्वा यः काव्यानि परीक्षते ।
वशस्तस्य जगद्वयापि स सुखी तत्र तत्र च ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविचर्या राजचर्यां च दशमो ऽध्यायः



एकादशो ऽध्यायः ११


शब्दार्थहरणोपायाः कविविशेषाः, तत्र शब्दहरणोपायाः ।
शब्दहरणोपायाः ।
परप्रयुक्तयोः शब्दार्थयोरुपनिबन्धो हरणम् ।
तद्द्विधा परित्याज्यमनुग्राह्यं च ।
तयोः शब्दहरणमेव तावत्पञ्चधा पदतः, पादतः, अर्द्धतः, वृत्ततः, प्रबन्धतश्च ।
"तत्रैकपदरणं न दोषाय" इति आचार्याः ।
"अन्यत्र द्वयर्थपदात्" इति यायावरीयः ।
तत्र श्लिष्टस्य श्लिष्टपदेन हरणम्- "दूरकृष्टशिलीमुखव्यतिकारान्नो किं किरातानिमा नाराद्वयावृतपीतलोहितमुखान्किं वा पलाशानपि ।
पान्थाः केसरिणं न पश्यत पुरोप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम्" ।।

यथा च- "मा गाः पान्थ प्रियां त्यक्त्या दूराकृष्टशिलीमुखम् ।
स्थितं पन्थानमावृत्य किं किरातं न पश्यसि" ।।

श्लिष्टपदैकदेशेन हरणम्- "नाश्चर्यं यदनार्यात्पावस्तप्रीतिरयं मयि ।
मांसोपयोगं कुर्वीत कथं क्षुद्रहितो जनः" ।।

यथा च- "कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्ते ऽधरः किं वा चुम्बनकारणाद्दयित नो वायोर्विकारादयम् ।
तस्मात्सुभ्रु सुगन्धिमाहितरसं स्निग्धं भजस्वादरान् मुग्धे मांसरसं ब्रुवन्तिति तया गाढं समालिङ्गितः" ।।

श्लिष्टस्य यमकेन हरणम्- "हलमपारयोनिधिविस्तृतं प्रहरता हलीना समराङ्गणे ।
निजयशश्च शशाङ्ककलामलं निरवधीरितमाकुलमासुरम्" ।।

यथा च- "दलयता विशिखैर्बलमुन्मदं निरवधीरितमाकुलमालुरम् ।
दशसु दिक्षु च तेन यशः सितं निरवधीरितमाकुलमासुरम्" ।।

श्लिष्टस्य प्रश्नोत्तरेण हरणम्- "यस्यां भुजङ्गवर्गः कर्णोयतेक्षणं कामिनीववदनं च" ।।

यथा च- "किं करोति कियत्कालं वेश्यावेश्मनि कामुकः ।
कीदृशं वदनं वीक्ष्य तस्याः कर्णायतेक्षणम्" ।।

यमकस्य यमकेन हरणम्- "वरदाय नमो हरये पतति जनो ऽयं स्मरन्नपि न मोहरये ।
बहुशश्चक्रन्द हता मनसि दितिर्येन दैत्यचक्रं दहता" ।।

यथा च- चक्रं दहतारं चक्रन्द हतारं खङ्गेन तवाजौ राजन्नरिनारी ।
एवमन्योन्यसमन्वये ऽन्ये ऽपि भेदाः ।
नन्विदमुपदेश्यमेव न भवति ।।

यदित्थं कथयन्ति- "पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यति ।
अपि पुत्रेषु पौत्रेषु वाक्चौर्यं च न शीर्यति" ।।

"अयमप्रसिद्धः प्रसिद्धिमानहम्ष, अयमप्रतिष्ठः प्रतिष्ठावानहम्, अप्रक्रान्तमिदमस्य संविधानकं प्रक्रान्तं मम, गूडूचीवचनो ऽयं मृद्वीकावचनो ऽहम्, अनादृतभाषाविश्षो ऽयमहमादृतभाषाविशेषः, प्रशान्तज्ञातृकमिदं, देशान्तरितकर्त्तृकमिदम्, उच्छन्ननिबन्धनमूलमिदं, म्लेच्छितकोपनिबन्धमूलमिदमित्येवमादि भिः कारणैः शब्दहरणे ऽर्थहरणे चाभिरमेत" ।।

इत्य् अवन्तिसुन्दरी ।
"त्रिभ्यः पदेभ्यः प्रभृति त्वश्लिश्टेभ्यो हरणम्" इति आचार्याः- यथा- "स पातु वो यस्य जटाकलापे स्थितः शशाङ्कः स्फुटहारगौरः ।
नीलोत्पलानामिव नालपुञ्जे निद्रायमाणः शरदीव हंसः" ।।

यथा च- "स पासु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनरञ्जितेषु ।
लावण्ययुक्तेष्वपि वित्रसन्ति दैत्याः स्वकान्तानयनोत्पलेषु" ।।

"न" इति यायावरीयः ।
उल्लेखवान्पदसन्दर्भः परिहरणीयो नाप्रत्यभिज्ञायातः पादो ऽपि ।
तस्यापि साम्ये न किञ्चन दृष्टं स्यात् ।
यथा- "इत्युक्तवानुक्तिविशेषरम्यं मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां द्वैपायनेनाभिदधे नरेन्द्रः" ।।

यथा च- "इत्युक्तवचनुक्तिविशेषरम्यं रामानुजन्मा विरराम मानी ।
संक्षित्पमात्पावसरं च वाक्यं सेवाविधिज्ञैः पुरतः प्रभूणाम्" ।।

उल्लेखवान्यथा- "नमः संसारनिर्वाणविषामृतविधायिने ।
सत्पलोकोर्मिभङ्गाय शङ्करक्षीरसिन्धवे" ।।

यथा च- "प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमो ऽनन्तप्रकाशाय शङ्करक्षीरसिन्धवे" ।।

"पाद एवान्यथात्वकरणकारणं न हरणम्, अपि तु स्वीकरणम्" इति आचार्याः ।
यथा--- "त्यागाधिकाः स्वर्गमुपाश्रयन्ते त्यागेन हीना नरक व्रजन्ति ।
न त्यागिनां किञ्चिदसाध्यमस्ति त्यागो हि सर्वव्यसनानि हन्ति" ।।

यथा च- "त्यागो हि सर्वव्यसनानि हन्तीत्यलीकमेतद्भुवि सम्प्रतीतम् ।
जातानि सर्वव्यसनानि तस्यास्त्यागेन मे मुग्धविलोचनायाः" ।।

तदिदं स्वीकरणापरनामधेयं हरणमेव (इति यायावरीयः-) ।
तद्वदर्ध्दप्रयोगे ऽपि ।
यथा- "पादस्ते नरवर दक्षिणे समुद्रे पादो ऽन्यो हिमवति हेमकूटलग्ने ।
आक्रामत्यलघु महीतलं त्वयीत्थं भूपालाः प्रणतिमपास्य किन्नु कुर्युः" ।।

यथा चोत्तरार्द्धे- "इत्थं ते विधृतपदद्वयस्य राजन् नाश्चर्यं कथमिव सीवनी न भिन्ना" ।।

एवं व्यस्तार्द्धप्रयोगे ऽपि ।
यथा- "तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति ।
अभ्युद्गते सकलधामनिधौ तु तस्मिन् निन्दोः सिताभ्रशकलस्य च को विशेषः" ।।

यथा च-- "तत्तावदेव शशिनः स्फिरितं महीयो यावन्न किञ्चिदपि गौरितरा हसन्ति ।
ताभिः पुनर्विहसिताननपङ्कजाभिर् इन्दोः सिताभ्रशकलस्य च को विशेषः" ।।

पाद एवान्यथात्वकरणं न स्वीकरणं पादोनहरणं वा ।
यथा- "अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासापह्नवने चैव दिव्या सम्भवति क्रिया" ।।

यथा चोत्तरार्द्धे- "तन्वङ्गी यदी लभ्येत दिव्या सम्भगवति क्रिया" ।
यथा वा--- "यस्य केशेषु जीमूता नद्यः सर्वाङ्गमन्धिषु ।
कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः" ।।

यथा चोत्तरार्द्धे--- "कुक्षौ समुद्राश्चत्वारः स सहेत स्मरानलम्" ।
भिन्नार्थानां तु पादानामेकेन पादेनान्वयनं कवित्वमेव ।
यथा--- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरो ऽयं यन्न नास्तं कदाचित् ।
भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः" ।।

यथा च- "जयति सितविलोलव्तयालयज्ञोपवीती घनकपिलटानतर्भान्तगङ्गाजलौघः ।
अविदितमृगजिह्नमिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी" ।।

यथा च- "कुमुदवनमपश्रि श्रीमदम्भोजखण्डं त्यजति मदमुलूकः प्रीतिमांश्चक्रवाकः ।
उदयमहिमरश्मिर्याति शीतांसुरस्तं हतविधिललितानां ही विचित्रो विपाकः ।।

" यथा च- "किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौधः ।
निवसति स पिनाकी यत्र यायां तदस्मिन् हतविधिललितानां ही विचित्रो विपाकः" ।।

पादोनवत्कतिपयपदप्रयोगो ऽपि यथा- "या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती ।
ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वार्णयन्तो वयं श्रान्ता नैव लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्" ।।

यथा च चतुर्थपादे- "श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्" ।।

पादैकदेशाग्रहणमपि पदैकदेशोपलक्षणपरम् यथा- "असकलहसित्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि ।
पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः" ।।

यथा चोत्तरार्धे- "पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः" ।
वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा ।
यथा- "सुभ्रु!त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्भ्फताः सुरभयः स्रग्दामधूपादयः ।
कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः" ।।

एतञ्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्यख्यातं, न स्वीकृतं हृतं वा ।
यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् ।
मुक्तकप्रबन्धविषयं तत् ।
मूल्यक्रयो ऽपि हरणमेव ।
वरमप्रात्पिर्यशसो न पुनर्दुर्यशः ।
(सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च ।
तत्रोपजीवनमात्रेण न कश्चिद्दोषः ।
यतः सर्वो ऽपि परेभ्य एव व्युत्पद्यते, केवलं तत्र समुदायो गुरुः) "तद्वहक्तिहरणम्" इति आचार्याः ।
यथा - "ऊरुद्वयं सरसकदलीकाण्डसब्रह्मचारि" ।
यथा च -- "उरुद्वयं कदलकन्दलयोः सवंशं श्रोणिः शिलाफलकसोदरसन्निवेशा ।
वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिसश्च मुखं मृगाक्ष्याः" ।।

उक्तयो ह्यर्थान्तरसङ्क्रान्ता न प्रत्यभियाज्ञन्ते, स्वदन्ते च॑ तदर्थस्तु हरणादपि हरणं स्युः" इति यायावरीयः ।
"नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः ।
स नन्दति विना वाच्यं यो जानात् निगूहितुम् ।।

उत्पादकः कविः कश्चित्कश्चिञ्च परिवर्त्तकः ।
आच्छादकस्तथा चान्यस्तथा संवर्गको ऽपरः ।।

शब्दार्थोक्तिषु यः पश्चेदिह किञ्चन नूतनम् ।
उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः" ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे एकादशो ऽध्यायः शब्दहरणानि ।।



द्वदशो ऽध्यायः १२


अर्थहरणोपायाः, कविप्रभेदाः, प्रतिबिम्ब-कल्पविकल्पस्य समीक्षा च ।
"पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कृर्तुं प्रयतेत" इति आचार्याः ।
"न" इति वाक्पतिराजः ।
"आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारो ऽपि ।
अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्यन्दः" ।।

तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत ।
"तदवगाहने हि तदेकयोनयो ऽर्थाः पृथक् पृथक् प्रथन्ते" इत्येके ।
"तत्रत्यानामर्थानां छायया परिवृत्तिः फलम्" इत्यपरे ।
महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागायतानाद्रियेत इति च केचित् ।
"न" इति यायावरीयः ।
सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति ।
तदाहुः- सुत्पस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति ।
तदितरस्य तत्र जाग्रतो ऽप्यन्धं चक्षुः ।
अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धास्तद्विपरीते तु दिव्यदृशः ।
न तत् त्र्यक्षाः सहस्रोक्षो वा यञ्चर्मचक्षुषो ऽपि कवयः पश्यन्ति ।
मदिदर्पणे कवीनां विश्वं प्रतिफलति ।
कथं नु वयं दृश्यामह इति महात्मनामहम्पूर्विकयैव शब्दार्थाः पुरो धावन्ति ।
यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तत्र वाचा विचरन्ति कवयः इत्यनन्ता महाकविषु सूक्तयः (इति) ।
"समस्तमर्स्ति" किन्तु त्रिपथमर्थमध्यगीष्महि ।
इति यायावरीयः ।
यदुतान्ययोनिर्निह्णुतयोनिरयोनिश्च ।
तत्रान्ययोनिद्विधा प्रतिबिम्बकल्पः, आलेख्ययप्रख्यश्च ।
निह्नुतयोनिरपि द्विधा तुल्यदेहितुल्यः परपुरप्रवेशसदृश्च ।
अयोनिः पुनरेकादृश एव ।
तत्र- अर्थः स एव सर्वो वाक्यान्तरविरचनापरं यत्र ।
तदपरमार्थविभेदं काव्यं प्रतिबिम्बिकल्पं स्यात् ।।

यथा-- "ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः ।
चन्द्रामृदाम्बुकणसेकसुखप्ररुढैर् यैरङ्कुरैरिव विराजति कालकूटः" ।।

यथा च- "जयन्ति नीलकण्ठस्य कण्ठे नीलाः महाहयः ।
गलद्गङ्गाम्बुसंसिक्तकालकूटाङ्कुरा इव" ।।

कियताषि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति ।
तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ।।

तत्रैवार्थे यथा- "जयन्ति धवलव्यालाः शम्भोर्जूटावलम्बिनः ।
गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव" ।।

विषयस्य यत्र भेदे ऽप्यभेदबुद्धिर्नितान्तसादृश्यात् ।
तत्तुल्यदेहितुल्य काव्यं बध्नन्ति सुधियो ऽपि ।।

यथा-- "अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् ।
अमीषां निर्माणं किमपि तदभूद्दग्धकरिणां वनं वा क्षेणीभृद्भवनमथवा येन शरणम्" ।।

अत्रार्थे-- "प्रतिगृहमुपलानामेक एव प्रकारो म्रुहुरुपकरणत्वादर्घिताः पूजिताश्च ।
स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा स्वाकरे वा निवासः" ।।

मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतो ऽनेकः ।
तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ।।

यथा-- "यस्यारातिनितम्बिनीभीरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् ।
उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद् घ्राताः कदम्बानिलाः" ।।

अत्रार्थे-- "आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् ।
हृष्यद्भिः परिचुम्बुतं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कार्णावतंसीकृतम् ।।

" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः ।
अमीषां चार्थानामन्वर्था अयस्कान्तवञ्चत्वारः कवयः पञ्चमश्चादृष्टचरार्थदर्शी ।
तदाहुः- "भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च यः ।
स कविर्लौकिको ऽन्यस्तु चिन्तामणिरलौकिकः ।।

तन्वानो ऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः ।
यो ऽप्रसिद्धयादिभिर्भाभ्यत्यसौ स्याद् भ्रामकः कविः ।।

यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा ।
स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ।।

परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेति ।
समुल्लेकेन केनापि स स्मृतः कर्षकः कविः ।।

अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् ।
यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ।।

चिन्तासमं यस्य रसैकसूतिरुदेति चित्राकृतिरर्थसार्थः ।
अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः" ।।

तस्य चाचोनिरर्थः ।
स च त्रिधा लौकिकालौकिकभेदेन, तयोर्मिश्रत्वेन च ।
लौकिकः - "मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन ।
पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृते ऽपि हि यन्त्रयोगात्" ।।

अलौकिकः- "देवी पुत्रमसून नृत्यत गणाः किं तिष्ठतेत्युद्भुजे" हर्षाद्भृङ्गिरिटावुदाः हृतगिरा चामुण्डयालिङ्गिते ।
पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातजर्जरजरत्स्थूलास्थिजन्मा रवः" ।।

मिश्रः- "स्थिते कुक्षेरन्तर्मुरचयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः ।
निपाताः सानन्दं रचितफणचक्रेण हलिना लमन्तादस्यासुः प्रतिदिवसमेनांसि भवतः" ।।

तेषां च चतुर्णामर्थानाम्- चत्वार एते कथिता मयैव ये ऽर्थाः कवीनां हरणोपदेशे ।
प्रत्तयेकमष्टत्ववशाद्भवन्ति द्वात्रिंशता ते ऽनुगताः प्रभेदैः ।।

तत्र प्रतिबिम्बकल्पविकल्पाः ।
स एवार्थः पौर्वापर्यविपर्यासाद् व्यस्तकः ।
यथा- "दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय ।
गच्छन्दघ्रे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः" ।।

अत्रार्थे- "निर्विवेकमनसो ऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम ।
यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारि करिण्या" ।।

बृहतो ऽर्थस्यार्द्धप्रणयनं खण्डम् ।
"पुरा पाण्डुप्रायं तदनु कपिशिन्मा कृतपदं ततः पाकोद्रेकाररुणगुणसंवर्गितवपुः ।
शनैः शोषारम्भे स्थपुटनिजविष्कम्भविषमं वने वीतामोदं बदरमरसत्वं कलयति" ।।

अत्रार्थे- "पाकक्रियापरिचयप्रगुणीकृतेन संवर्द्धितारुणगुणं वपुषा निजेन ।
आपादितस्थपुटसंस्यितिशोषपोषादेतद्वने विरसतां बदरं बिभर्त्ति" ।।

संक्षित्पार्थविस्तरेण तैलबिन्दुः ।
यथा- "यस्य तन्त्रभराक्रान्त्या पातालतलगामिनी ।
महावराहृदंष्ट्राया भूयः सस्मार मेदिनी" ।।

अत्रार्थे- "यत्तन्त्राक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा ।
सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः-स्थूलास्थिश्रेणिशाणानिकाषणसितमप्याशु दंष्ट्राग्रमुग्रम्" ।।

अन्यतमभाषानिबन्द्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।
यथा- "नेच्छै पासासंकी काओ दिण्णं पि पहिअघरिणीए ।
ओहत्तकरयलोग्गलियवलयमज्झदिट्रिठां पिण्डं" ।।

("नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या ।
अनवरतकरतलोद्गतवलयमध्यस्थितं पिण्डम्" ।।

) अत्रार्थे- "दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् ।
वक्रग्रीवश्चलनतशिराः पार्श्रसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः" ।।

छन्दसा परिवृत्तिश्छन्दोविनिमयः ।
यथा- "कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः को ऽसौ कास्मि रतं नु किं कथमिति स्वल्पापि मे न स्मृतिः" ।।

अत्रार्थे- "धन्यास्तु याः कथयथ प्रियसङ्गमे ऽपि विश्रब्धचाटुकशतानि रतान्तरेषु ।
नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि" ।।

कारणपरावृत्त्या हेतुव्यत्ययः ।
यथा- "ततो ऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी ।
दघ्रे कामपरिक्षामकामिनीगण्डपाण्डुताम्" ।।

अत्रार्थे-- "समं कुसुमचापेन गर्भिणीगण्डपाण्डुना ।
उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना" ।।

दृष्टस्य वस्तुनो ऽन्यत्र संक्रमितिः सङ्क्रान्तकम् ।
यथा- "स्नानार्द्रैर्विधुतकवरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्किशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां कोलिहंसाः पिबन्ति" ।।

अत्रार्थे- "सद्यः स्नातजपत्तपोधनजटाप्रान्तस्त्रुताः प्रोन्मुखैः पीयन्ते ऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः ।
एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्" ।।

उभयवाक्यार्थोपादानं सम्पुटः ।
यथा- "विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्त्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य ।
यस्यामन्तः स्फुरितशफरत्रासहासाकुलाक्षी स्वैरं स्वैरं कथमपि मया तीरमृत्तारितासि" ।।

यथा- "नाभीगुहाबिलविशश्चलवीचिजातमञ्जुध्वनिश्रुतिकणत्कलकुक्कुभानि ।
रेवाजलान्यविरलं ग्रहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु" ।।

अत्रार्थे- "यद्वर्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास-व्यस्तोरुस्तम्भिकाभिदिंशि दिशि सरितां दिग्जयप्रक्रमेषु ।
अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोलत्-कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुक्कुभं कामिनीभिः" ।।

सो ऽयं कवेरकवित्वदायी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः ।
यतः-- "पृथक्त्वेन न गृह्णान्ति वस्तु काव्यान्तरस्थितम् ।
पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम्" ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकणे शब्दार्थहरणोपायाः कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशो ऽध्यायः ।।



राजचर्या त्रयोदशो ऽध्यायः १३

अर्थहरणेष्वालेख्यप्रख्यादिभेदाः आलेख्यप्रख्यपरिसङ्ख्याः ।
सदृशञ्चारणं समक्रमः ।
यथा- "अस्ताद्रिवेश्मनि दिशो वरुणप्रियायास् तिर्यक्कथञ्चिदपयन्त्रणमास्थितायाः ।
गण्डैकपार्श्वमिव कुङ्कुमपङ्कचिम्बु बिम्बं रुचामधिपतेरगुणं रराज" ।।

१।।

यथा च- "प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कुमारुणकपोलतलेन ।
साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः" ।।

अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः ।
यथा- "कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततो ऽग्रे पाकपीताम्रपीतम् ।
अभिनवरविरोचिर्धूमधूभ्रं शिखायाम् इति विवधविकारं दिद्युते दैपमर्चिः" ।।

अत्रार्थे- "मनाङ्मूले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु ।
शिखायामाधूभ्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्दैपं दलयति तमः पुञ्जितमपि" ।।

क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः ।
यथा तत्रैव-- "श्यामं शिखाभुवि मनागरुणं ततो ऽधः स्तोकावपाण्डुरधनं च ततो ऽप्यधस्तात् ।
आपिञ्जरं तदनु तस्य तले च नीलम् अन्धं तमः पटलमर्द्दति दैपमर्चिः" ।।

सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः ।
यथा- "इत्युद्गते शशिनि पेशलकान्तदूती-संलापसञ्चलितलोचनमानसाभिः ।
अग्राहि मण्डनविधिर्विपरीतभूषा-विन्यासहासितसखीजनमङ्गनाभिः" ।।

अत्रार्थे- " चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारदृष्टे ।
प्रियं प्रति प्रेषितचित्तवृत्तिर्नितम्बबिम्बे च बबन्ध हारम्" ।।

उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः ।
यथा- "दीपयन्नथ नभः किरणौधैः कुङ्कुमारुणपयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधेरुन्ममञ्ज शनकैस्तुहिनांशुः" ।।

अत्रार्थे- "ततस्तमः श्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्ददश्यतान्तरा ।
निशातरुण्याः स्थितशेषकुङ्कुमस्तनाभिरामं सकलं कलावतः" ।।

तदेव वस्तूक्तिवशादन्यथा क्रियत इति नटनेपथ्यम् ।
यथा-- "आननेन्दुशशलक्ष्मकपोले सादरं विरचितं तिलकं यत् ।
तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः" ।।

अत्रार्थे-- "शोकाश्रुभिर्वासरखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् ।
कान्तेषु कालात्ययमाचरन्सु स्वल्पायुषः पत्रलता बभूवुः" ।।

परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः" ।
अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्गतेन गगने महता करेण ।
मूलावलग्रसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोहस्य" ।।

अत्रार्थे - "सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति ।
मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव" ।।

विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः ।
यथा-- "रविसङ्क्रान्तसौभाग्यस्तुषारावृतमण्डलः ।
निःश्वारान्ध इवादर्शश्चन्द्रमा न प्रकाशते" ।।

अत्रार्थे - "तस्याः प्रतिद्वन्द्विभवाद्विषादात् सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमे प्रसन्नः प्रसादमात्मीयमिवात्मदर्शः" ।।

ता इमा आलेख्यप्रख्यस्य भिदाः ।
सो ऽयमनुग्राह्यो मार्गः ।
आहुश्च- "सो ऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः ।
नटवद्वर्णिकायागादन्यथान्यथात्वमिवार्च्छति" ।।

अथ तुल्यदेहितुल्यस्य भिदाः ।
तस्यैव वस्तुनो विषयान्तरयोजनादन्यरुपापत्तिर्विशयपरिवर्त्तिः ।
यथा- "ये सीमन्तितगात्रभस्मरजसो ये कुम्भकद्वेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यद्रुहः ।
ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभ्रुवः श्वासानिलाः पान्तु वः" ।।

अत्रार्थे-- "ये कीर्णाक्वथितोदराब्जमधवो ते म्लापितोरः स्त्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतापोभ्फिज्ताः ।
ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रतत्पसरलाः श्वासा हरेः पान्तु वः" ।।

द्विरुपस्य वस्तुनो ऽन्यतररुपोपादानं द्वन्द्वविच्छित्तिः ।
यथा- "उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्याद् यत्रेन्दनं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् ।
क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः" ।।

अत्रार्थे- "दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद् द्राग दृष्टनष्टा सुखम् ।
यां चञ्चत्सफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहुर्मुह्यल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः" ।।

पूर्वोर्थानामर्थान्तरैरन्तरणं रत्नमाला ।
यथा-- "कपोले मार्जारः पय इति करांल्लेढि शशिनस् तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति ।
रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति" ।।

अत्रर्थे-- "ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः स्वांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः ।
पुभ्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहः सम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च" ।।

सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः ।
यथा-- "नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः ।
त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रेन्दवो दश" ।।

अत्रार्थे- "उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरः समागमे ।
षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः" ।।

सममभिधायाधिकस्योपन्यासश्चूलिका ।
द्विधा च सा संवादिनी विसंवादिनी च ।
तयोः प्रथमा यथा- "अङ्गणे शशिमरीचिलेपने सुत्पमिन्दुकरपुञ्जसन्निभम् ।
राजहंसमसमीक्ष्य कातरा रौति हंसवनिताश्रुगद्गगम्" ।।

अत्रार्थे- "चन्दप्रभाप्रसरहिसिनि सौधपृष्टे दुर्लक्षपक्षतिपुटां न विवेद जायाम् ।
मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः" ।।

द्वितीया तत्रैवार्थे यथा- "ज्योत्स्नाजलस्नायिनि सौधपृष्टे विविक्तमुक्ताफलपुज्जरौरम् ।
विवेद हंसी वयितं कथञ्चिच् चुलत्तुलाकोटिकलैर्निनादैः" ।।

निषेधस्य विधिना निबन्धो विधानापहारः ।
यथा- "कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् ।
चरणघटनाशून्यो यास्यस्यशोक सशोकताम् इति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः" ।।

अत्रार्थे-- "मुखमदिरया पादन्यासैर्विलासविलोकितैर् बकुलविटपी रक्ताशोकस्तता तिलकद्रुमः ।
जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिता यद्वर्ग्याभिर्विकासमहोत्सवम्" ।।

बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुज्जः ।
यथा- "शैलच्छलेन स्वं दीर्घं भुजमुक्तभ्य भूवधूः ।
निशासख्या करोतीव शशाङ्कतिलकं मुखे" ।।

यथा च -- "फुल्लातिमुक्तकुसुमस्तवकाभिराम दूरोल्लसत्किरणकेसरमिन्दुर्सिंहम् ।
दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार-दुर्वारवारणघटा व्यघटन्त सद्यः" ।।

यथा च- "संविधातुमभिषेकमुदासे मन्मथस्य लसर्दशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ।।

यथा च-- "उदयति पश्य कृशोदरि दलितत्व(क्)क्षीरकरणिभिः किरणैः ।
उदयाचलचूडमणिरेष पुरा रोहिणीरमणः" ।।

यथा च-- "उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः ।
उदयगिरितटस्फटाट्टहासो रजनिवधीमुखदर्पणः शशाङ्कः" ।।

यथा च- "प्रेषिदैकेन्दुहंसे ऽस्मिन्सस्नाविव तमो ऽम्बुभिः ।
नभस्तडागे मदनस्ताराकुमुदहासिनि" ।।

अत्रार्थे- "रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयो ऽभिषेककलशः कुसुमायुधमेदिनीपतेः ।
अयमुदयाचलैकचूडामणिरभिनवदर्पणो दिशाम् उदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी" ।।

कन्दभूतो ऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः ।
यथा च-- "विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु ।
कुमुदाकरेषु विकसति शशिकलशपरिस्त्रुता ज्योत्स्ना" ।।

अत्रार्थे- "वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां प्रतिफलतीव जरठशरकाण्डुषु गण्डभित्तिषु ।
अम्भसि विकसतीव लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका" ।।

स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः ।
क्षरति चिरं येन यथा ज्योत्स्ना घनसारधूलिरिव ।।

सितमणिकलशाकदिन्दोर्हरिणहरित्तृणपिधानत्.ओ गलितैः ।
रजनिभुजिष्या सिञ्चति नभो ऽङ्गणं चन्द्रिकाम्भोभिः ।।

संविधातुमभिषेकमुदासे मन्यथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः" ।।

ता इमास्तुल्यदेहितुल्यस्य परिसंख्याः" ।
सो ऽयमुल्लेखवाननुग्राह्यो मार्गः" इति सुरानन्दः ।
तदाह-- "सरस्वती सा जयति प्रकामं देवी श्रुतिः स्वस्त्ययनं कवीनाम् ।
अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चदिहार्थनत्नम्" ।।

अथ परपुरप्रवेशसद्दशस्य भिदाः ।
उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुङ्डयुद्धम् ।
यथा-- "कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्यथः ।
प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने" ।।

अत्रार्थे-- "कथमसौ मदनो न नमस्यतां स्थितविवेकपदो मकरध्वजः ।
मृगदृशां कदलीललितं वपुर्यदभिहन्ति शरैः कुसुमोद्भवैः" ।।

प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् ।
यथा-- "माद्यञ्चकोरेक्षणतुल्यधाम्नो धारां दधाना मधुना मधुनः पतन्तीम् ।
चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी" ।।

अत्रार्थे- "मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन ।
वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन" ।।

उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः ।
यथा- "अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण ।
कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः" ।।

अत्रार्थे- "मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव ।
दीर्घापाङ्गनदीं विलङ्ध्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा भृगदृशो मामभ्यषिञ्चन्दृशः" ।।

शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः ।
यथा- "जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांशवः" ।।

अत्रार्थे- "सन्मार्गालोकनप्रौढिनीरजीकृतजन्तवः ।
जयन्त्यपूर्वव्यापाराः पुरारेः पादपांशवः" ।।

तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः ।
यथा- "स्नानार्द्रार्दैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् ।
अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति" ।।

अत्रार्थे- "लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसूत्रसुभगाः प्रात्पाः पयोबिन्दवः ।
ते वः पान्तु विशेषसस्पृहद्दशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः" ।।

पूर्वं सदृशः पश्चाद्भिन्नो जीवञ्चीवकः ।
यथा- "नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु ।
सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणैव काचितासीत्" ।।

अत्रार्थे- "भास्वत्कपोलतलकुण्डलपारिहार्य-सन्मेखलामणिगणप्रतिबिम्बितेन ।
चन्द्रेण भाति रमणी रमणीयवक्त्र-शोभाभिभूतवपुषेव निषेव्यमाणा" ।।

प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा ।
यथा- "ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु ।
तमालपत्रास्तरणासु रन्तुं प्रसीद शश्चन्मलयस्थलीषु" ।।

अत्रार्थे- "निश्वेतनानामपि युक्तयोगदो नूनं स एनं मदनो ऽधिष्ठति ।
एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताधिरोहति" ।।

पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी (धिनी) ।
यथा- "हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ ।
वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरश्चन्द्रात्त्वया शिक्षितः" ।।

अत्रार्थे- "मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया वाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।
व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम्" ।।

इत्यर्थहरणोपाया द्वार्त्रिंशदुपदर्शिताः ।
हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ।।

कि.ं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः ।
अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ।।

किञ्च- शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः ।
किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति-सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशो ऽध्यायः ।।



चतुर्दशो ऽध्यायः १४


कविसमयः जातिद्रव्यक्रियासमयस्थापना ।
अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः ।
"नन्वेष दोषः ।
कथङ्कारं पुनरुपनिबन्धनार्हः?"इति आचार्याः ।
"कविमार्गानुग्राही कथमेष दोषः?" इति यायावरीयः ।
"निमित्तं तर्हि वाच्यम्" इति आचार्याः ।।

"इदमभिधीयते" इति यायावरीयः ।
पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तेराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेन अन्यथात्वे ऽपि तथात्वेनोपनिबन्धो यः स कविसमयः ।
कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदशिभिः प्रयुक्तो रूढश्च ।
तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्यरोपक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः ।
स च त्रिधा स्वर्ग्यो भौमः पातालीयश्च ।
स्वर्ग्यपातालीययोर्भौमः प्रधानः ।
स हि महाविषयकः ।
स च चतुर्द्धा जातिद्रव्यगुणक्रियारुपार्थतया ।
ते ऽपि प्रत्यक्षं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च ।
तत्र सामान्यस्यासतो निबन्धनम्, यथा--नदीषु पद्मोत्पलादीनि, जलाशयमात्रे ऽपि हंसादयो, यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च ।
नदीपद्मानि यथा- "दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः" ।।

नदीनीलोत्पलानि-- "गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलवारैः खेचराणां हरन्तीम् ।
कुवलयवनकान्त्या जाह्ववीं सो ऽभ्यपश्यत् दिनपतिसुतयेव व्तक्तदत्ताङ्कपालीम्" ।।

एवं नदीकुमुदाद्यपि ।
सलिलमात्रे हंसा यथा- "आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः क्षीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् ।
हेलान्दोलितहंससारसकुलर्क्रेकारसंमूर्च्चितैर् इत्याघोषयतीव तन्नवनदी यच्चेष्टितं वारिभिः" ।।

पर्वतमात्रे सुवर्णं यथा- "नागावासश्चित्रपोताभिरामः स्वर्णस्फीतिव्यात्पदिक्चक्रवालः ।
साम्यात्सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता" ।।

रत्नानि यथा- "नीलाश्मरश्मिपटलानि महेभमुक्त-सूत्कारसीकरविसृञ्जि तटान्तरेषु ।
आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियात्र मयूरनार्थः" ।।

एवमन्यदपि ।
सतो ऽप्यनिबन्धनम्, तद्यथा-न मानती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु ।
तत्र प्रथमः- "मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् ।
आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः" ।।

द्वितीयः- "यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः ।
निजवपुषैव परेषां तथापि सन्तापमपहरति" ।।

तृतीयः- "दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः ।
नाशोकऽस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः" ।।

अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः, तद्यथा-समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि ।
तयोः प्रथमः- "गोत्राग्रहारं नयतो गृहत्वं स्वनाममुद्राङ्कितमम्बुराशिम् ।
दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः" ।।

द्वतीयः- "कामं भवन्तु सरितो भुवि सप्रतिष्ठाः स्वादूनि सन्तु सलिलानि च शुक्तयश्च ।
एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः" ।।

असतो ऽपि द्रव्यस्य निबन्धनम् ।
तद्यथा-मुष्टिग्राह्यत्वं सूचीभेद्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः ।
तत्र प्रथमम्- "तनुलग्रा इव ककुभः भूवलयं चरणचारमात्रमिव ।
दिवमिव चालिकदध्नीं मुष्टिग्राह्यं तमः कुरुते" ।।

तथा च- "पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये ।
मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम्" ।।

द्वितीयम् - "यन्त्रद्रावितकेतकोदरदलस्रोतः श्रियं बिभ्रती येयं मौक्तिकदामगुम्फनर्विधेर्योग्यव्छविः प्रागभूत् ।
उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका" ।।

द्रव्यस्य सतो ऽनिबन्धनं, तद्यथा-कृष्णपक्षे सत्या अपि ज्योत्स्नायाः, शुक्लपक्षे त्वन्धकारस्य ।
तयोः प्रथमम्- "ददृशाते जनैस्तत्र याघत्रायां सकुतूहलैः ।
बलभद्रहृषीकेशौ पक्षाविव सितासितौ" ।।

द्वितीयम् - "मासि मासि समा ज्योत्स्ना पक्षयोः शक्लकृष्णयोः ।
तत्रैकः शक्लतां यातो यशः कुण्यैरवाप्यते" ।।

द्रव्यनियमः, तद्यथा-मलय एव चन्दनस्थानं, हिमवानेव भूर्जोत्पत्तिस्थानम् ।
तत्र प्रथमः- "तापापहारचतुरो नागावासः सुरप्रियः ।
नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः" ।।

द्वितीयः- "न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्" ।।

प्रकीर्णकद्रव्यकविसमयस्तु, तद्यथा- क्षीरक्षारसमुद्रयोरैक्यं सागरमहासमुद्रयोश्च ।
तयोः प्रथमः- "शेतां हरिर्भवतु रत्नमनन्तमन्तर्-लक्ष्मीप्रसूतिरिति नो विवदामहे हे ।
हा दूरदूरसपयास्तृषितस्य जन्तोः किं त्वत्र कूपपयसः स मरोर्जघन्यः" ।।

द्वितीयः- "रङ्गत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः ।
स ददर्श पुरो गङ्गां सत्पसागरवल्लभाम्" ।।

असतो ऽपि क्रियार्थस्य निबन्धनम्, यथा-चक्रवाकमिथुनस्य निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च ।
तत्र प्रथमः- "सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयः पूरान् ।
रथचरणाह्वयवयसां किं नोपकृतं निदाघेन" ।।

द्वितीयः- "एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुवश् चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः ।
यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विवृतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः" ।।

सतो ऽपि क्रियार्थस्यानिबन्धनम्, तद्यथा-दिवा नीलोत्पलानामविकासो, निशानिमित्तश्च शोफालिकाकुसुमानाविस्त्रंसः ।
तत्र प्रथमः- "आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजितचन्द्रबिम्बे ।
जातः पुनर्विकसनावसरो ऽयमस्येत्य् उक्त्वा सखो कुवलयं श्रवणे चकार" ।।

द्वितीयः- "त्वद्विप्रयोगे किरणैस्तथोग्रैर्दग्धास्मि कृत्स्नं दिवसं सवित्रा ।
इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः" ।।

नियमस्तु, तद्यथा-ग्रीष्मादौ सम्भवतो ऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः ।
तयोः प्रथमः- "वसन्ते शीतभीतेन कोकिलेन वने रुतम् ।
अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः" ।।

द्वितीयः- "मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि" ।।

कवीनां समयः सो ऽयं जातिद्रव्यक्रियागतः ।
गुणस्थैष ततः स्वर्ग्यः पातालीयश्च कथ्यते ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कविसमये जातिद्रव्यक्रियासमयस्थापना नाम चतुर्दशो ऽध्यायः ।।



पञ्चदशो ऽध्यायः १५


गुणसमयस्थापना असतोगुणस्य निबन्धनम् ।
यथा-यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम् ।
तत्र यशःशौक्ल्यम्- "स्तेमः स्तोको ऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्तिर् मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं को ऽयमीदृक्प्रकारः ।
इत्थं दिग्भित्तिरोधःक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ।।

हासशौक्ल्यम्- "अट्टहासच्छलेनास्याद्यस्य फेनौघपाण्डुराः ।
जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः" ।।

अयशः कृष्णत्वम् - "प्रसरन्ति कीर्त्तयस्ते तव च रिकूणामकीर्त्तयो युगपत् ।
कुवलयदलसंवलिताः प्रतिदिनमिव मालतीमालाः" ।।

पापकार्ष्ण्यम्- "उत्खातनिर्मलमयूखकृपाणलेखाश्यामायिता तनुरभूद्धयकन्धरस्य ।
सद्यः प्रकोपकृतकेशववंशनाशसङ्कल्पसज्जनितपापमलीमसेव" ।।

क्रोधरक्तता- "आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण ।
भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोदरवर्त्तनेव" ।।

अनुरागरक्तता यथा- "गुणानुरागमिश्रेण यशसा तव सर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्ध्दकुङ्कुमम्" ।।

सतो ऽपि गुणस्यानिबन्धनम्, (यथा)- कुन्दकुड्मलानां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुषुष्पाणां च पीतत्वम् ।
कुन्दकुड्मलाद्यरक्तता- "द्योतितान्तः सभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती" ।।

पद्ममुकुलाहरितत्वम्- "उद्दण्डोदरपुण्डरीकमुकुलभ्रान्तिस्पृशा दंष्ट्रया मग्नां लावणसैन्धवे ऽम्भसि महीमुद्यच्छतो हेतया ।
तत्कालाकुलदेवदानवकुलैरुत्तालकोलाहलं शौरेरादिवराहलीलमवतादभ्रंलिहाग्रं वपुः" ।।

प्रियङ्गुपुष्पापीतत्वम्- "प्रियङ्गुश्याममम्भोधिरन्ध्रणां स्तनमण्जलम् ।
अलङ्कर्तुमिव स्वच्छाः सूते मौक्तिकसम्पदः" ।।

गुणनियमस्तु तद्यथा-सामान्योपादाने माणिक्यानां शोणता, पुष्पाणां शुक्लता, मेघानां शुक्लता, मेघानां कृष्णता च ।
तत्र प्रथमः- "सांयात्रिकैरविरतोपहृतानि कूटैः श्यामासु तीरघनराजिषु सम्भृतानि ।
रन्तानि ते दधति कञ्चिदिहायताक्षि मेधोदरोदितदिनाधिपबिम्बशङ्काम्" ।।

पुष्पशुक्लता- "पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततो ऽनुकुर्याद्विशदस्य तस्यास्ताभ्रौष्ठपर्यस्तरुचः स्मितस्य" ।।

मेघकार्ष्ण्यम्- "मेघश्यामेन रोमेण पूतवेदिर्विमानराट् ।
मध्ये महेन्द्रनीलेन रत्नराशिरिवावभौ" ।।

कृष्णनीलयोः, कृष्णहरितयोः, कृष्णश्यामयोः, पीतरक्तयोः, शुक्लगौरयोरेकत्वेन निबन्धनं च कविसमयः ।
कथं कृष्णनीलयोरैक्यम्- "नदीं तूर्णं कर्णोप्यनुसृतपुलिनां दाक्षिणात्याङ्गनाभिः समुत्तीर्णो वर्णामुभयतटचलाबद्धवानीरहारम् ।
ततः सह्यस्योच्चैः स्वसलिलनिवहो भाति नीलः स यस्याः प्रियस्यांसे पीने लुलित इव घनः केशपाशः सुकेश्याः" ।।

कृष्णहरितयोरैक्यम्- "मरकतसदृशं च यामुनं स्फटिकशिलाविमलं च जाह्नवम् ।
तदुभयमुदकं पुनातु वो हरिहरयोरिव सङ्गतं वपुः" ।।

कृष्णश्यामलयोरैक्यम्- "एतत्सुन्दरि नन्दनं शशिमणिस्निग्धालवालद्रुमं मन्दाकिन्यभिषिक्तमौक्तिकशिले मेरोस्तटे नन्दति ।
यत्र श्यामनिशासु मुञ्चति मिलन्मन्तः प्रदोषानिलाम् उद्दामामरयोषितामभिरतं कल्पद्रुमश्चन्द्रिकाम्" ।।

पीतरक्तयोरैक्यम् - "लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकभङ्गपिशङ्ग्या मण्डलं भुव इवादिवराहः" ।।

शुक्लगौरयोरैक्यम् - "कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतष्ठम् ।
अवेहि मां किङ्करमष्टमूर्त्तेः कुम्भोदरं नाम निकुम्भपुत्रम्" ।।

एवं वर्णान्तरेष्वपि ।
चक्षुरादेरनेकवर्णोपवर्णनम् ।
तत्र चक्षुषः शुक्लता- "तिष्ठन्त्या जनसङ्कुले ऽपि सुदृशा सायं गृहप्राङ्गणे तद्द्वारं मयि निःसहालसतनौ वीङ्खामृदु प्रेङ्खति ।
हीनभ्राननयैव लोलसरलं निःश्वस्य तत्रान्तरे प्रेमार्द्राः शशिखण्डपाण्डिममुषो मुक्ताः कटाक्षच्छटाः" ।।

श्यामता- "अथ पथि गमयित्वा रम्यकॢत्पोपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः ।
पुनरविशदयोध्यां मैथिलीदर्शिनीनां कुवलयितगवाक्षां लोचनैरङ्गनानाम्" ।।

कृष्णता- "पादन्यासक्वणितरशनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः ।
वेश्यास्त्वत्तो नखपदसुखान्प्राप्य वर्षाग्रबिन्दू-नामोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान्" ।।

मिश्रवर्णता- "तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्योत्क्षेपादुपरि विलसत्कृष्णशारप्रभाणाम् ।
कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम्" ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे गुणसमयस्थापना पञ्चदशो ऽध्यायः ।।



कविसमयः षोडशो ऽध्यायः १६


स्वर्ग्यपातालीयकविरहस्य (समय)स्थापना भौमवत्स्वर्ग्यो ऽपि कविसमयः, विशेषस्तु चन्द्रमसि शशहरिणयोरैक्यम् ।
यथा- "मा भैः शशाङ्क? मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर किं बिभेषि ।
प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनः प्रचलतीति किमत्र चित्रम्" ।।

यथा च - "अङ्काधारोपितमृगश्चन्द्रमा मृगलाञ्छनः ।
केसरी निष्टुरक्षित्पमृगयूतो मृगाधिपः" ।।

कामकेतने मकरमत्स्ययोरैक्यं यथा- "चापं पुष्पमयं गृहाण मकरः केतुः समुच्छ्रीयतां चेतोलक्ष्यभिदश्च पञ्च विशिखाः पाणौ पुनः सन्तु ते ।
दग्धा कापि तवाकृतेः प्रतिकृतिः कामो ऽसि किं गूहसे रुपं दर्शय नात्र शङ्करभयं सर्वे वयं वैष्णवाः" ।।

यथा च- "मीनध्वजस्त्वमसि नो न च षुष्पधन्वा केलिप्रकाश तव मन्मथता तथापि ।
इत्थं त्वया विरहितस्य मयोपलब्धाः कान्ताजनस्य जननाथ चिरं विलापाः" ।।

यथा च - "आपातमारुतविलोडितसिन्धुनाथो हात्कारभीतपरिवर्त्तितमत्स्यचिह्वाम् ।
उल्लङ्घ्य यादवमहोदधिभीमवेलां द्रोणाचलं पवनसूनुरिवोद्धरामि" ।।

अत्रिनेत्रसमुद्रोत्पन्नचन्द्रयोरैक्यम् - "वन्द्या विश्वसृजो युगादिगुरवः स्वायम्भुवाः सत्प ये तत्रात्रिर्दिवि सन्दधे नयनजं ज्योतिः स चन्द्रो ऽभवत् ।
एका यस्य शिखण्डमण्डनमणिर्देवस्य शम्भोः कला शेषाभ्यो ऽमृतमाप्नुवन्ति च सदा स्वाहास्वधाजीविनः" ।।

बहुकालजन्मनो ऽपि शिवचन्द्रमसो वालत्वम् ।
"मालायमानामरसिन्धुहंसः कोटीरवल्लीकुसुमं भवस्य ।
दाक्षायणीविभ्रमदर्पणश्रि बालेन्दुखण्डं भवतः पुनीतात्" ।।

कामस्य मूर्त्तत्वं च यथा- "अयं स भुवनत्रयप्रथितसंयमः शङ्करो बिभर्त्ति वपुषाधुना विरहकातरः कामिनीम् ।
अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयन् जयति जातहासः स्मरः" ।।

यथा च - "धनुर्माला मौर्वी क्वणदलिकुलं लक्ष्यमबला मनो भेद्यं शब्दप्रभृति य इमे पञ्च विशिखाः ।
इयान् जेतुं यस्य त्रिभुवनमनङ्गस्य विभवः स वः कामः कामान्दिशतु दयितापाङ्गवसतिः" ।।

द्वादशानामप्यादित्यानामैक्यम् - "यस्याधो ऽधस्तथोपर्युपरि निरवधि भ्राभ्यतो विश्वमश्वैर् आवृत्तालातलीलां रचयति रयतो मण्डलं चण्डधाम्नः ।
सो ऽव्यादुत्तत्पकार्त्तस्वरसरलशरस्पर्द्धिभिर्द्धामदण्डैर् उद्दण्डैः प्रापयन्वः प्रयुरतमतमः स्तोममस्तं समस्तम्" ।।

नारायणमाधवयोश्च यथा- "येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यो गङ्गां च दधे ऽन्धकक्षयकरो यो बर्हिपत्रप्रियः ।
यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः सो ऽव्यादष्टभुजङ्गहारवलयस्त्वां सर्वदोमाधवः" ।।

एवं दामोदरशेषकूर्मादेः ।
कमलासम्पदेश्च यथा- "दोर्मन्देरितमन्दरेण जलधेरुत्थापिता या स्वयं यां भूत्वा कमठः पुराणककुदन्यस्तामुदस्तभ्भयत् ।
तां लक्ष्यीं पुरुषोत्तमः पुनरसौ लीलाञ्चितभ्रूलता-निर्देशैः समवीविशत्प्रणयिनां गेहेषु दोष्णि क्षितिम्" ।।

भौमस्वर्ग्यवत्पातालीयो ऽपि कविसमयः ।
तत्र नागसर्पयोरैक्यम् - "हे नागराज बहुमस्य नितम्बभागं भोगेन गाढमभिवेष्टय मन्दराद्रेः ।
सोढाविषह्यवृषवाहनयोगलीला-पर्यङ्कबन्धनविधेस्तव को ऽतिभारः" ।।

दैत्यदानवासुराणामैक्यम्, यथा तत्र हिरण्याक्षहिरण्यकशिप्रुप्रह्लादविरोचनबलिबाणादयो दैत्याः, विप्रचित्तिशम्बरनमुचिपुलोमप्रभृतयो दानवाः, वलवृत्रविक्षुरस्तवृषपर्वादयासुराः ।
तेषामैक्यं यथा- "जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः ।
सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः" ।।

यथा च - "तं शम्बरासुरशराशनिशल्यसारं केयूररत्नकिरणारुणबाहुदण्डम् ।
पीनांसलग्नदयिताकुचपत्रभङ्गं मीनध्वजं जितजगत्त्रितयं जयेत्कः" ।।

यथा च- "अस्ति दैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः ।
प्रथयन्ति बलं बाह्वो सितच्छत्रस्मिताः श्रियः" ।।

यथा च-हयग्रीवं प्रति- "दानवाधिपतेः भूयो भुजो ऽयं किं न नीयते ।
सहायतां कृतान्तस्य क्षयाभिप्रायसिद्धिषु" ।।

यथा च- "महासुरसमाजे ऽस्मिन् न चैको ऽप्यस्ति सो ऽसुरः ।
यस्य नाशनिनिष्पेषनीराजितमुरः स्थलम्" ।।

एवमन्ये ऽपि भेदाः - "सो ऽयं कवीनां समयः काव्ये सुत्प इव स्थितः ।
स साम्प्रतमिहास्माभिर्यथाबुद्धि बिबोधितः" ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे स्वर्ग्यपातालीयकविसमयस्थापना षोडशो ऽध्यायः ।।



सप्तदशो ऽध्यायः १७


देशकालविभागः तत्र देशविभागः देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति ।
जगज्जगदेकदेशाश्च देशः ।
"द्यावापृथिव्यात्मकमेकं जगत्" इत्येके ।
तदाहु- "हलमगु बलस्यैको ऽनड्वान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् ।
प्रवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम्" ।।

"दिवस्पृथिव्यौ द्वे जगती" इत्यपरे ।
तदाहुः- "रुणद्धि रोदसी वास्य यावत्कीर्त्तिरनश्वरी ।
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम्" ।।

"स्वर्गमर्त्यपातालभेदात्त्रीणि जगन्ति" इत्येके ।
तदाहुः- "त्वमेव देव पातालमाशानां त्वं निबन्धनम् ।
त्वं चामरमरुद्भूमिरेको लोकत्रयायसे" ।।

"तान्येव भूर्भ्रुवःस्वः"इत्यन्ये ।
तदाहुः- "नमस्त्रिभुवनाभोगभृतिखेदभरादिव ।
नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने" ।।

"महर्जनस्तपःसत्यमित्येतैः सह सत्प" इत्यपरे ।
तदाहुः- "संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः ।
हर्षस्य सत्पभुवनप्रथितोरुकीर्त्तेः प्रासादपड्क्तिरियमुच्छिखरा विभाति" ।।

"तानि सत्पभिर्वायुस्कन्धैः सह चतुर्दश" इति केचित् ।
तदाहुः- "निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् ।
प्रथम इह भवान्स कूर्ममूर्त्तिर्जयति चतुर्द्दशलोकवल्लिकन्दः" ।।

"तानि सत्पभिः पातालैः सहैकविंशतिः" इति केचित् ।
तदाहुः- "हरहासहरावासहरहारनिभप्रभाः ।
कीर्त्तयस्तव लिम्पन्तु भुवनान्येकर्विंशतिम्" ।।

"सर्वमुपपन्नम्" इति यायावरीयः ।
अविशेषविवक्षा यदेकयति, विशेषविवक्षात्वनेकयति ।
तेषु भूर्लोकः पृथिवी ।
तत्र सत्प महाद्वीपाः ।
"जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलो ऽतः कुशो ऽतः ।
क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः" ।।

"लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः ।
स्वादुवारिरुदधिश्च सत्पमस्तान्परीत्य त इमे व्यवस्थिताः" ।।

"एक एवायं लावणः समुद्रः" इत्येके ।
तदाहुः- "द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैर् रेकोम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् ।
कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरवीर्ये पर्यात्पं मे न दातुं तदिदमिति धिया वेधसे यश्चुकोप" ।।

"त्रयः" इत्यन्ये ।
तदाहुः- "आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य ।
वीर्येण संहतिभिदा विहतोन्तेन कल्पान्तकालविसृतः पवनो ऽनुचक्रे" ।।

यथा वा- "माताङ्गानामभावे मदमलिनमुखैः प्रात्पमाशाकरीन्द्रैः जाते रन्तापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् ।
छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदञ्चत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत्" ।।

"चत्वारः" इत्यपरे ।
तदाहुः- "चतुः समुद्रवेलोर्मिरचितैकावलीलतम् ।
मेरुमप्यद्रिम्रुल्लङ्घ्य यस्य क्वापि गतं यशः" ।।

"भिन्नाभिप्रायतयया सर्वमुपपन्नम्" इति यायवरीयः ।
सत्पसम्रुद्रीवादिनस्तु शास्त्रादनपेता एव ।
तदाहुः- "आगस्त्यचुलुकोच्छिष्टसत्पवारिधिवारिणि ।
म्रुहूर्त्तं केशवेनापि तरता पूतरायितम्" ।।

मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः ।
यो मूर्त्तानामौषधीनां निधानं यश्वावासः सर्ववृन्दारकाणाम् ।।

"तमेनमवधीकृत्य देवेनाम्बुजजन्मना ।
तिर्यगूर्ध्वमधस्ताञ्च विश्वस्य रचना कृता" ।।

स भगवान्मेरुराद्यो वर्षपर्वतः ।
तस्य चतुर्दिशमिलावृतं वर्षम् ।
तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च ।
रम्यकं, हिरण्ययम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि ।
दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च ।
हरिवर्षं, किंपुरुषं, भारतमिति च त्रीणि वर्षाणि ।
तत्रेदं भारतं वर्षमस्य च नव भेदाः ।
इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णो, गभस्तिमान्, नागद्वीपः, सौम्यो, गन्धर्वों, वरुणः, कुमारीद्वीपश्चायं नवमः ।
पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते ।
तान्येतानि यो जयति स सभ्राडित्युच्यते ।
कुमारीपुरात्प्रभृति बिन्दुसरो ऽवधि योजनानां दशशती चक्रवर्त्तिक्षेत्रम् ।
तां विजयमानश्चक्रवर्त्ती भवति ।
चक्रवर्त्तिचिह्नानि तु- "चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा ।
प्रोक्तानि सत्प रत्नानि सर्वेषां चक्रवर्त्तिनाम्" ।।

अत्र च कुमारीद्वीपे- "विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः ।
महेन्द्रसह्यमलयाः सत्पैते कुलपर्वताः" ।।

तत्र विन्ध्यादयः प्रतीतस्वरुपाः, मलयविशेषास्तु चत्वारः ।
तेषु प्रथमः- "आ मूलयष्टेः फणिवेष्टितानां सच्च्न्दनानां जननन्दनानाम् ।
कक्कोलकैलामरिचैर्युतानां जातीतरुणां च स जन्मभूमिः" ।।

द्वितीयः- "यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चिति ताम्रपर्णी ।
रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ।।

तत्र द्रुमा विद्रुमनामधेया वंशेषि मुक्ताफलजन्म तत्र ।
मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः" ।।

तृतीयः- "विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य ।
सदाफलैः पुष्पलताप्रवालैराश्चर्यमूलं मलयः स तत्र" ।।

चतुर्थः- "सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः ।
द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ।।

प्रवर्त्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्यो ऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा" ।।

पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्वान्तरमार्यावर्त्तः ।
तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च ।
यन्मूलश्च सदाचारः ।
तत्रत्यो व्यवहारः प्रायेण कवीनाम् ।
तत्र वाराणस्याः पुरतः पूर्वदेशः ।
यत्राङ्गकलिङ्गकोसलतोस(शष) लोत्कलमगधमुद्गरविदेहनेपालपुण्ड्र प्राग्ज्योतिषतामलित्पकमलदमल्लवर्त्तकसुह्यब्रह्योत्तरप्रभृतयो जनपदाः ।
बृहद्गृहलोहितगिरिचकोरदर्दुरनेपालकामरुपादयः पर्वताः ।
शोणलौहित्यौ नदौ ।
गङ्गाकरतोयाकपिशाद्याश्च नद्यः ।
लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः ।
माहिष्मत्याः परतो दक्षिणापथः ।
यत्र महाराष्ट्रमाहिषकाश्मकविदर्भकुन्तलक्रथकैशिकसूर्पारककाञ्चीकेरलकावेरमुरलवानवासकसिंहलचोडदण्ड कपाण्ड्यपल्लवगाङ्गनाशिक्यकौङ्कणकोल्ल (ल) गिरिवल्लरप्रभृतयो जनपदाः ।
विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः ।
नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणाकृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्युत्पलावतीरावणगङ्गाद्या नद्यः ।
तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता ।
देवसभायाः परतः पश्चाद्देशः ।
तत्र देबसभसुराष्ट्रदशेरकत्रवणभृगुकच्छकच्छीयानर्त्तर्बुदब्रबह्यणवाहयवनप्रभृतयो जनपदाः ।
गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदादयाश्च पर्वताः ।
सरस्वतीश्वभ्रवतीवार्तध्नीमहाहिडिम्बाद्या नद्यः ।
करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः ।
पृथूदकात्परत उत्तरापथः ।
यत्र शककेकयवोक्काणहूणवाणायुजकाम्बोजवालीकवलवलिम्पाककुलूतकीरतङ्गणतुषारतुरुष्कबर्बरहरहूरवहूहूकसहुड हंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः ।
हिमालयकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः ।
गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनेरावतीवितस्ताविपाशाकुहूतेवि काद्या नद्यः ।
सरलदेवदारुद्राक्षाकुङ्कुमचराजिनसौवीरस्रोतोज्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः ।
तेषां मध्ये मध्यदेश इति कविव्यवहारः ।
न चायं नानुगन्ता शास्त्रार्थस्य ।
तदाहुः- "हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्त्तितः" ।।

तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् ।
द्वीपान्तराणां ये देशाः पर्वताः सरितस्था ।
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ।।

"विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तरर्वेदी ।
तदपेक्षया दिशा विभजेत" इति आचार्याः ।
"तत्रापि महोदयं मूलमवधीकृत्य" इति यायावरीयः ।
"अनियतत्वाद्दिशा मनिश्चिचो दिग्विभाग" इत्येके ।
तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति ।
"अवधिनिबन्धनमिदं रुपमितरत्त्वनियतमेव" इति यायावरीयः ।
"प्राच्यपाचीप्रतीच्युदीच्यः चतस्रो दिशः" इत्येके ।
तदाहुः- "चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन ।
विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म" ।।

"ऐन्द्री, आग्नेयी, याम्या, नेरृती, वारुणी, वायव्या कौबेरी, ऐशानी चाष्टौद्दिशः" इत्येके ।
तदाहुः- "एकं ज्योतिर्द्दशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर् भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सत्पत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानोर् यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितानां शतानि" ।।

"ब्राह्मी नागीया च द्वे ताभ्यां सह दशैताः" इत्यपरे ।
तदाहुः- "दशदिक्तटपर्यन्तसीमसङ्कटभूमिके ।
विषमा स्थूललक्ष्यस्य ब्रह्याण्डग्रामके स्थितिः" ।।

सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता ।
तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, घ्रुवेणोदीची, तदनुसारेणापाची ।
अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधश्तान्नागीयेति ।
द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च ।
तत्र प्राक्सिद्धे प्राची- "द्वित्रैर्व्योन्मि पुराणमौक्तिकमणिच्छेयैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुत्पाश्चकोराङ्गनाः ।
यातो ऽस्ताचलचूलमुदूसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्" ।।

दक्षिणा- "दक्षिणो दक्षिणामाशां यियासुः सो ऽधिकं बभौ ।
जिहासुर्दक्षिणामशां भगवानिव भास्करः" ।।

पश्चिमा- "पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
दीर्घया प्रतिमया सरोभ्भसस्तापनीयमिव सेतुबन्धनम्" ।।

उत्तरा- "अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः" ।।

विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा- "यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन ।
नो चेन्निरन्तरधराधरसेतुसूतिर् आकल्पमेष न विरंस्यति वो वियोगः" ।।

दक्षिणोत्तरौ यथा- "काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः ।
कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः" ।।

उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावपि उत्तरदिगभिधानम् ।
तयोः प्रथमम् - "तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन ।
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः" ।।

द्वितीयम् - "सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी ।
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः" ।।

एवं दिगन्तरेष्वपि ।
तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् ।
साधारणां तूभयत्र लोकप्रसिद्धितश्च ।
तदूद्वर्णनियमः ।
तत्र पौरस्त्यानां श्यामो वर्णाः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डु, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च ।
पौरस्त्यश्यामता- "श्यामेष्वङ्गेषु गौहीनां सूत्रहारैकहारिषु ।
चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति" ।।

दाक्षिणात्यकृष्णता- "इदं भासां भर्त्तुद्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् ।
अथैष प्राचीनः सरति मुरलीगण्डमलिनस् तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः ।।

" पाश्चात्यपाण्डुता- "शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति ।
किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु ।।

" उदीच्यगौरता- "पुष्पैः सम्प्रति कञ्चनारतरवः प्रत्यङ्गमालिङ्गिताः वा लीकीदशनव्रणारुणतरैः पत्रैरशोको ऽर्चितः ।
जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः" ।।

यथा वा- "काश्मीरीगात्रेखासु लोलल्लावण्यवीचिषु ।
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्" ।।

मध्यदेश्यकृष्णता यथा- "युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः ।
पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव" ।।

तद्न्मध्यदेश्यश्यामता ।
न च कविमार्गे श्यामकृष्णयोः पाण्डुगौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम ।
मध्यदेश्यगौरता- "तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः ।
अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन" ।।

विशेषस्तु पूर्वदेशे राजपुत्र्यादीना गौरः पाण्डुर्वा वर्णः ।
एवं दक्षिणदेशे ऽपि ।
तत्र प्रथमः - "कपोले जानक्याः करिकलभदन्तद्युतिमुषु स्मरस्मेरस्फारोड्मरपुलके वक्त्रकमलम् ।
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः" ।।

द्वितीयः- "तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् ।
शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी" ।।

एवमन्यदपि यथासम्भवमभ्यूह्यम्- निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः ।
तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ।।

इत्थं देशविभागो म्रुद्रामात्रेण सूत्रितः सुधियाम् ।
यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे देशविभागः सप्तदशो ऽध्यायः ।।



अष्टादशो ऽध्यायः १८


कालविभागः कालः काष्टादिभेदभिन्नः ।
काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति ।
त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ।।

ते च चैत्रघाश्वयुजमासयोर्भवतः ।
चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च ।
आश्वयुजीत्परतः पुनरेतदेव विपरीतम् ।
राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् ।
पञ्चदशाहोरात्रः पक्षः ।
वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् ।
अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः ।
पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् ।
इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः ।
एवं च द्वौ पक्षौ मासः ।
द्वौ मासावृतुः ।
षण्णामृतूनां परवर्त्तः संवत्सरः ।
स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः ।
तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः ।
तत्र "वर्षासु पूर्वो वायुः" इति कवयः ।
"पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता" इत्याचार्याः ।
तदाहुः- "पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्" इति ।
तदाहुः- "प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् ।
कादम्बकुसुमामोदा वायवो वान्ति वारुणाः" ।।

"वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्" इति यायावरीयः ।
तदाहुः- "पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः ।
सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य" ।।

शरद्यनियतदिक्को वायुर्यथा- "उषःसु ववुराकृष्णजहावश्यायशीकराः ।
शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः" ।।

"हेमन्ते पाश्चात्यो वायुः", इति एके ।
"उदीच्य" इति अपरे ।
"उभयमपि"इति यायावरीयः ।
तयोः पाश्चात्य-- "भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः ।
पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः" ।।

उदीच्यः- "लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः ।
एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः" ।।

शिशिरे ऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा ।
वसन्ते दक्षिणः ।
तदुक्तम् - "धुन्वलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनाम् आन्ध्रीधंमिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः ।
उद्दामं दाक्षिणात्यो मलितमलयजः सारिथिर्मीनकेतोः प्रात्पः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः" ।।

"उभयतदिक्को वायुर्ग्रीष्मे" इत्येके ।
"नैऋर्तः " इत्यपरे ।
"उभयमपि" इति यायावरीयः ।
तत्र प्रथमः- "वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रथ्नन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः ।
किं चान्यन्मृगतृष्णिङ्काम्बुवसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्" ।।

द्वितीयः- "सो ऽयं करैस्तपति वह्णिमयैरिवार्कः साङ्गारविस्तरविस्तरभरेव धरा समग्रा ।
वायुः कुकूलमिव वर्षति नैऋर्तश्च कार्शानवैरिव शरैर्मदनश्च हन्ति" ।।

किञ्च - गर्भान्बलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनदैः सृजन्तः ।
"रजो ऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति" ।।

स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः ।
दग्धोर्वरासुन्दरगन्धबन्धुरर्घत्ययं वारिमुचामनेहा ।।

वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति ।
पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि ।।

चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा ।
गृहान्प्रति प्रस्थितपान्थसार्थः कालो ऽयमाध्मातनभाः पयोदैः ।।

या केलियात्रा करिकामिनीभिर् यातुङ्गहर्म्याग्रविलासशय्या ।
चतुःसमं (मो यो)यन्मृगनाभिगर्भर्ं(भः) सा वारिदर्त्तोः प्रथमातिथेयी ।।

चलञ्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः ।
शिखण्डिकुलताण्डवामुदितमद्गुकङ्काह्वयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ।।

दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः ।
कदम्बकलुषाम्बरः कलितकेतकीकोरकश् चलन्निचुलसञ्चयो हरति हन्त धर्मात्ययः ।।

वर्षाः ।।

द्राग्गर्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफन् ।
शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ।।

सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु ।
शेफालिकासत्पपलाशकाशमण्डीरसौगन्धिकमालतीषु ।।

सखञ्जरीटा सपयः प्रसादा सा कस्य नो मानसमाच्छिनति ।
कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ।।

उपानयन्ती कलहंसयूथमगस्त्यदृष्टया पुनती पयांसि ।
मुक्तासु शुभ्रं दधती च गर्भं शरद्वचित्रैश्चरितैश्चकास्ति ।।

क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः ।
शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ।।

अत्रावदातद्युति चन्द्रिकाम्बुनीलावभासं च नभः समन्तात् ।
सुरेभवीथी दिविसावतारो जीर्णाभ्रखण्डानि च पाण्डुराणि ।।

महानवम्यां निखिलास्त्रपूजाः नीराजना वाजिभटद्विपानाम् ।
दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ।।

व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही ।
भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ।।

केदार एव कलमाः परिणामनभ्राः प्राचीनमामलकमर्धति पाकनीलम् ।
एर्वारुकं स्फुटननिर्गतगर्भगन्धम् अम्लीभवन्ति च जरत्त्रपुसीफलानि ।।

गेहाजिरेषु नवशालिकणावपात-गन्धानुभावसुभगेषु कृषीवलानाम् ।
आनन्दयन्ति मुसलोल्लसनावधूत-पाणिस्खलद्वलयद्धतयो वधूट्यः ।।

तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः ।
तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपौति पङ्कम् ।।

नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिर् एखाङ्कवालपुलिनोदरसुत्पकूर्माः ।
अस्यां तरङ्गितनुतोयपलायमान-मीनानुसारिबकदत्तकरालफलाः ।।

अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः ।
लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति" ।।

शरत् ।।

द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु ।
पञ्चषफलिनीकुसुमो जयति हिमर्त्तुर्नवावतरः ।।

पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः ।
वक्रोल्लसत्कुङ्कुमसिक्थकाङ्काः सुगन्धतैलाः कवरीर्वहन्ति ।।

यथा यथा पुष्पति शीतकालस्तुषारचूर्णोत्करकीर्णवातः ।
तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ।।

वराहवर्धाणि नवौदनानि दधीनि सन्नद्धशराणि चात्र ।
सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ।।

अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदते ऽन्नपानम् ।
सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवे ऽस्मै ।।

विमुक्तबर्हा विमदा मयूराः प्ररुढगोधूमयवा च सीमा ।
व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ।।

सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च ।
त्रिशङ्कुतिलका रात्र्यः पच्चन्ते लवणानि च ।।

उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु ।
मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ।।

कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति ।
कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते काप्यपूर्वा ।।

येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः ।
लीलावह्निर्निह्नुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति" ।।

इति हेमन्तः ।
हेमन्तधर्मः शिशिरः, विशेषस्तु ।
"रात्रिर्विचिघत्रसुरतोचितयामदैर्ध्या चाण्डो मरुदूहति कुङ्कुमपङ्कसाघ्यः ।
तल्पस्थितिर्द्विगुणतूलपटा किमन्यद् अर्घन्ति चात्र विततागुरुधूपधूमाः ।
ब" आश्लेषिणा पृथुरतक्लमपीतशीतम् आयामिनीं घनमुदो रजनीं युवानः ।
ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल-पादान्तसंवलिततूलपटाः स्वपन्ति ।।

पाने ऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र ।
नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ।।

पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि ।
सौभाग्यमेणतिलकाद्भजते ऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ।।

सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तानभिन्नघनसूचिपरम्परासु ।
द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ।।

उदीच्यचण्डानिलाताडितासु सुलीनमीनासु जलस्य मूले ।
नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ।।

माद्यन्मतङ्गः पृषतैकतोषी पुष्पद्वराहो धृतिमल्लुलायः ।
दरिद्रनिन्द्यः सधनैकवन्द्यः स एष कालः शिशिरः करालः ।।

अभानवबधूरोषस्वादुः करीषतनूनपा-दसरलजनाश्लेषक्रूरस्तुषारसमीरणः ।
गलितविभवस्यज्ञेवाद्य द्युतिर्मसृणा रवे र्विरहिवनितावक्त्रौपभ्यं बिभर्त्तिं निशाकरः ।।

स्त्रियः प्रकृतिपित्तलाः क्कथितकुङ्कुमालेपनैर् नितम्बफलकस्तनस्थलभुजोरुमूलपादिभिः ।
इहाभिनवयौवनाः सकलरात्रिसश्लेषितैर् हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि" ।।

शिशिरः ।।

"चैत्रे मदर्ध्दिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् ।
पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुररेषु एव ।।

मनो ऽधिकं चात्र विलासलास्ये प्रेङ्खासु दोलासु च सुन्दरीणां ।
गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ।।

पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति ।
स्मरो वसन्ते ऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ।।

पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते ।
स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ।।

अयं प्रसूनोद्धुरकर्णिकारः पुष्पपञ्चार्चितकाञ्चनारः ।
विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ।।

रोहितकाम्रातककिङ्किराता मधूकमोचाः सह माधवीभिः ।
जयन्ति शोभाञ्जनकश्च शाखी सकेसरः पुष्पभरैर्वसन्ते ।।

यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलकलरुतेः कथने च लाभः ।
पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ।।

नालिङ्गितः कुरबकस्तलको न दृष्टो ना ताडितश्च चरणैः सुदृशामशोकः ।
सिक्ता न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णाः ।।

चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः ।
जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेः भूर्भुवः स्वस्त्रये ऽपि ।।

गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलसीकिंशिकानाम् ।
खर्जूराणां ताडताडीतरुणां पुष्पापीडन्यासहेतुर्वसन्तः ।।

विकासकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः ।
पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मो ऽयमुल्लासितधातकीकः ।।

खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः ।
द्वन्द्वानि खेदालसतामुपस्य रतानुसन्धानमिहाद्रियन्ते ।।

स्रोतांस्यनभ्भांसि सकूपकानि प्रपाः कठोरे ऽहनि पान्थपूर्णाः ।
शुचौ समभ्यर्थितसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ।।

यत्कायमानेषु दिनार्दिनिद्रा यत्स्नानकेलिर्दिवसावसाने ।
यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ।।

या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला ।
या तालवृन्तैरुदबिन्दुवृष्टिर्-जलाञ्जलिं सा शुचये ददाति ।।

कर्पूरचूर्णं सहकारभङ्गस्ताम्बूलमार्द्रक्रमुकोपकॢत्पम् ।
हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ।।

मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः ।
स्त्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मे ऽपि सो ऽयं शिशिरावतारः" ।।

अत्र हि- "पच्यन्त इव भूतानि ताप्यन्त इव पांसवः ।
क्कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ।।

एणाः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः ।
ताम्यत्तिमीनि च सरांसि जलस्य शेषाद् उच्चारघट्टिघटिकावलयाश्च कूपाः ।।

करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् ।
करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य चासते ।।

सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः ।
मृगलावरसाः शृतं च दुग्ध स्मरसञ्जीवनमौषधं निदाधे ।।

जलचन्दनचारवस्तारुण्यः सजलार्द्राः सहतारहारमालाः ।
कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ।।

ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सौरिभाः सेभकोलाः ।
लोलज्जिह्वाः सर्पसारङ्गवर्गा मूलस्त्रस्तैः पत्रिणश्चांसदेशैः ।।

हर्म्यं रम्यं चन्द्रिकाधौतपृष्टं कान्तोच्छिष्टा वारुणी वारिमिश्रा ।
मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ।।

ग्रीष्मः ।।

चतुरवस्थश्च ऋतुरुपनिबन्धनीयः ।
तद्यथा सन्धिः, शैशवं, प्रौढिः, अनवृत्तिश्च ।
ऋतुद्वयमध्यं सन्धिः ।
शिशिरवसन्तसन्धिर्यथा- "त्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः ।
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्" ।।

वसन्तशैशवम् - "गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः ।
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्विघत्रैर्मनोजन्मनो देवस्यापि चिरोज्भ्फितं यदि भवेदभ्यासवश्यं धनुः" ।।

वसन्तप्रौढिः- "साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माज्जिष्टधौतात्पटात् ।
हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्" ।।

अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवत्तते ।
लिङ्गनुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ।।

वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः ।
खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।
गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्यो ऽपि विभाव्यते कमलिनीहासेन भासां पतिः ।।

" एवमन्या अपि ।
किञ्च- ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके ।
जलधरसमयप्रात्पौ स एव धाराकदम्बः स्यात् ।।

यथा- "धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्टनस्य ।
दीत्पायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य" ।।

जलसमयजायमानां जातिं यां कर्द्दमीति निगदन्ति ।
सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ।।

यथा- "स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरटपरिमलप्लावितानां जजृम्भे ।
नानाहंसोपधानं सपदि जलनिधेश्वोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमभ्भः" ।।

स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति ।
यथा- "असूच्यतः शरत्कालः केतकीधूलिधूसरैः ।
पद्मताम्रैर्नवायातश्चरणैरिव वासरैः" ।।

शरद्भावानामनुवृत्तिरत्र बाणासनानां सकुरुण्टकानाम् ।
हेमन्तवक्त्रे यदि दृश्यते ऽपि न दृश्यते बन्धविधिः कवीनाम् ।।

हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव ।
उक्तं च ।
"द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्तशिशिरयोः समासेन" ।
मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः ।
रचनीयश्चित्रश्रीः कश्चित्कुन्दानुवृत्त्या च ।।

"गृहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति ।
सद्यो भङ्गानुसारस्त्रुतसरभिशिराशीकरः साहकारः सर्परन्नम्भःशरावे रचयति च रसो रचकीचन्द्रकाणि ।।

कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किङ्किराते रक्ताशोके सशोकश्चिरमतिविकचे चम्पके कुञ्चिताक्षः ।
पान्थः खेदालसो ऽपि श्रवणकटुरटच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन" ।।

यथा वा- "धुनानः कावेरीपरिसरभुवश्चन्दनतरुन् मरुन्मन्दः कुन्दप्रकारमकरन्दानवकिरन् ।
प्रियक्रीडाकर्षच्युतकुसुममामूलसरलं ललाटे लाटीलां लुठितमलकं ताण्डवयिति" ।।

एवमन्याप्यनुवृत्तिः ।
"विचकिलकेरसरपाटलिचम्पपुष्पानुवृत्तयो ग्रीष्मे ।
तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति" ।।

यथा- "कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः कण्ठे मार्णालहारो वलयितमसिताभ्भोजनालं कलाच्योः ।
समोदं चन्दनाभ्भः स्तनभुवि नयने म्लाननाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः" ।।

यथाच - "अमिनवकुशसूचिस्पर्द्धि कर्णे शिरीषं मरुबकरिवारं पाटलादाम पण्ठे ।
स तु सरसजलार्देन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा को ऽपि वेषश्चकास्ति" ।।

एवमुदाहरणान्तराणि ।
"ऋतुभववृत्त्यनुवृत्ती दिङ्मात्रेणात्र सूचिते सन्तः ।
शेषं स्वधिया पश्यत नामग्राहं कियद्ब्रूमः ।।

देशेषु पदार्थानां व्यत्यासो दृश्यते स्वरूपस्य ।
तन्न तथा बध्वीयात्कविबद्धमिह प्रमाणं नः" ।।

शोभान्धोगन्धसरैः फलार्चनाभ्यां च पुष्पमुपयोनि ।
षोढा दर्शितमेतत्स्यात्सत्पममनुपयोगि ।।

यथा- यत्प्राचि मासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् ।
तदग्रिमे प्रौढिधरं च कार्यं तदग्रिमे पाकपरिष्कृतं च ।।

द्रुमोद्भवानां विधिरेषु दृष्टो बल्लीफलाना न महाननेहा ।
तेषां द्विमासावधिरेव कार्यः पष्पे फले पाकविधौ च कालः ।।

अन्यर्व्याजं बहिव्याजं बाह्यान्तर्व्याजमेव च ।
सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम् ।।

लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि ।
आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ।।

पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् ।
सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ।।

एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् ।
प्रबन्धेषु निबन्धीयात्क्रमेण व्युत्क्रमेण वा ।।

न च व्युत्क्रमदोषो ऽस्ति कवेरर्थपथस्पृशः ।
तथा तथा कापि भवेद् व्युत्क्रमो भूषाणां यथा ।।

अनुसन्धानशून्यस्य भूषणं दूषणायते ।
सावधानस्य च कवेर्दूषणं भूषणायते ।।

इति कालविभागस्य दर्शिता वृत्तिरीदृशी ।
कवेरिह महान्मोह इह सिद्धो महाकविः ।।

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कालविभागो नाम अष्टादशो ऽध्यायः


समात्पमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम्


उपरोक्त सामग्री यहाँ से रोमन यूनिकोड में ली गयी
और Diacritic Conversion - diCrunch v2.00:b5 की सहायता से इसे देवनागरी में परिवर्तित करके तथा कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया। (01-02-2008)

"https://sa.wikibooks.org/w/index.php?title=काव्यमीमांसा&oldid=4992" इत्यस्माद् प्रतिप्राप्तम्