"काव्यमीमांसा" इत्यस्य संस्करणे भेदः

New page: ==शास्त्रसंग्रहः प्रथमो ऽध्यायः १== काव्यमीमांसा ऽप्रकाशऽ अथ कविरहस्य...

पङ्क्तिः ३०२:

== आध्यय ४ ==

शिष्यप्रतिभे चतुर्थो ऽध्यायः

शिष्यप्रतिभे द्विविधं शिष्यमाचक्षते यदुत बुद्धिमानाहार्यबुद्धिश्च |

यस्य निसर्गतः शास्त्रमनुधावति बुद्धिः स बुद्धिमान् |

यस्य च शास्त्राभ्यासः संस्कुरुते बुद्धिमसावाहार्यबुध्दिः |

त्रिधा च सा, स्मृतिर्मतिः प्रज्ञेति |

अतिक्रान्तस्यार्थस्य स्मर्त्रीस्मृतिः |

वर्त्तमानस्य मन्त्री मतिः |

अनागतस्य प्रज्ञात्री प्रज्ञेति |

सा त्रिप्रकारापि कवीनामुपकर्त्री |

तयोर्बुद्धिमान् शुश्रूषते शृणोति गृह्णीते धारयति विजानात्यूहते ऽपोहति तत्त्वं चाभिनिविशते |

आहार्यबुद्धेरप्येत एव गुणाः किन्तु प्रशास्तारमपेक्षन्ते |

अहरहः सुगुरुपासना तयोः प्रकृष्टे गुणः |

सा हि बुद्धिविकासकामधेनुः |

तदाहुः-

ऽप्रथयति पुरः प्रज्ञाज्योतिर्यथार्थपरिग्रहे तदनु जनयत्यूहापोहक्रियाविशदं मनः |

अभैनिविशते तस्मात्तत्त्वं तदेकमुखोदयं सह परिचयो विद्यावृद्धैः क्रमादमृतायतेऽ ||

ताभ्यामन्यथाबुद्धिर्दुर्बुद्धिः |

तत्र बुद्धिमतः प्रतिपत्तिः |

स खलु सकृदभिधानप्रतिपन्नार्थः कविमार्गं मृगयितुं गुरुकुलमुपासीत |

आहार्यबुद्धेस्तु द्वयमप्रतिपत्तिः सन्देहश्च |

स खल्वप्रतिपन्नमर्थं प्रतिपत्तुं सन्देहं च निराकर्तुमाचार्यानुपतिष्ठेत |

दुर्बुद्धेस्तु सर्वत्र मतिविपर्यास एव |

स हि नीलीमेचकितसिचयकल्पो ऽनाधेयगुणान्तरत्वात् तं यदि सारस्वतो ऽनुभावः प्रसादयति तमौपनिषदिके वक्ष्यामः |

ऽकाव्यकर्मणि कवेः समाधिः परं व्याप्रियते इति श्यामदेवः |

मनस एकाग्रता समाधिःऽ |

समाहितं चित्तमर्थान्पश्यति, उक्तञ्च-
ऽसारस्वतं किमपि तत्सुमहारहस्यं दद्गोचरं च विदुषां निपुणैकसेव्यम् |

तत्सिद्धये परमयं परमो ऽभ्यपायो यच्चेतसो विदितवेद्यविधेः समाधिः ||

ऽऽभ्यासःऽ इति मङ्गलः |

अविच्छेदेन शीलनमभ्यासः |

स हि सर्वगामी सर्वत्र निरतिशयं कौशलमाधत्ते |

समाधिरान्तरः प्रयत्नो बाह्यस्त्वभ्यासः |

तावुभावपि शक्तिमुद्भासयतः |

ऽसा केवलं हेतुःऽ इति यायावरीयः |

विप्रसृतिश्च सा प्रतिभाव्युत्पत्तिभ्याम् |

शक्तिकर्तृकेहि प्रतिभाव्युत्पत्तिकर्मणी |

शक्तस्य प्रतिभाति शक्तश्च व्युत्पद्यते |

या शब्दग्राममर्थसार्थमलङ्कारतन्त्रमुक्तिमार्गमन्यदपि तथाविधमधिहृदयं प्रतिभासयति सा प्रतिभा |

अप्रतिभस्य पदार्थसार्थः परोक्ष इव, प्रतिभावतः पुनरपश्यतो ऽपि प्रत्यक्ष इव |

यतो मेघाविरुद्रकुमारदासादयो जात्यन्धाः कवयः श्रूयन्ते |

किञ्चन महाकवयो ऽपि देशद्वीपान्तरकथापुरुषादिदर्शनेन तत्रत्यां व्यवहृर्ति निबध्नन्तिस्म |

तत्र देशान्तरव्यवहारः-
ऽप्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे पुण्याभिषेकक्रिया |

ध्यानं रत्नशिलागृहेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तर्स्मिस्तपस्यन्त्यमी ||

द्वीपान्तरव्यवहारः-

अनेन सार्द्धं विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु |

द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवे मरुद्भिः ||

कथापुरुषव्यवहारः-

हरो ऽपि तावत्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः |

उमामुखे बिम्बफलाधरोष्टे व्यापारयामास विलोचनानि ||

आदिग्रहणात्-

तथागतायां परिहासपूर्वं सख्यां सखी वेत्रभृदाबभाषे |

बाले व्रजामो ऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श ||

सा च द्विधा कारयित्री भावयित्री च |

कवेरुपकुर्वाणा कारयित्री |

सापि त्रिविधा सहजाऽहार्यौपदेशिकी च |

जन्मान्तरसंस्कारापेक्षिणी सहजा |

इह जन्मसंस्कारयोनिराहार्या |

मन्त्रतन्त्राद्युपदेशप्रभवा औपदेशिकी |

ऐहिकेन कियतापि संस्कारेण प्रथमां तां सहजेति व्यपदिशन्ति |

महता पुनराहार्या |

औपदेशिक्याः पुनरैहिक एव उपदेशकालः, ऐहिक एव संस्कारकालः |

त इमे त्रयो ऽपि कवयः सारस्वतः, आभ्यासिकः, औपदेशिकश्च |

जन्मान्तरसंस्कारप्रवृत्तसरस्वतीको बुद्धिमान्सारस्वतः |

इह जन्माभ्यासोद्भासितभारतीक आहार्यबुद्धिराभ्यासिकः |

उपदेशितदर्शितवाग्विभवा दुर्बुद्धिरौपदेशिकः |

तस्मान्नेतरौ तन्त्रशेषमनुतिष्ठताम् |

ऽनहि प्रकृतिमधुरा द्राक्षा फाणिततसंस्कारमपेक्षतेऽ इत्याचार्याः |

ऽनऽिति यायावरीयः |

एकार्थं हि क्रियाद्वयं द्वैगुण्याय सम्पद्यते |

ऽतेषां पूर्वः पूर्वः श्रेयान्ऽ इति श्यामदेवः |

सारस्वतः स्वतन्त्रघः स्याद्भवेदाभ्यासिको मितः |

औपदेशकविस्त्वत्र वल्गु फल्गु च जल्यपि ||

ऽुत्कर्षः श्रेयान्ऽ इति यायावरीयः |

स चानेकगुणसन्निपाते भवति |

किञ्च-
ऽबुद्धिमत्त्वं च काव्याङ्गविद्यास्वभ्यासकर्म च |

कवेश्चोपनिषच्छक्तिस्त्रयमेकत्रघ दुर्लभम् ||

काव्यकाव्याङ्गविद्यासु कृताभ्यासस्य धीमतः |

मन्त्रानुष्ठाननिष्ठस्य नेदिष्ठा कविराजताऽ ||

कवीनां तारतम्यतश्चैष प्रायोवादः |

यथा-
ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् |

न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ||

सेयं कारयित्री |

भावकस्योपकुर्वाणा भावयित्री |

सा हि कवेः श्रममभिप्रायं च भावयति |

तया खलु फलितः कवेर्व्यापारतरुः |

अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः |

तदाहुः-
ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा |

भावकस्तु कविः प्रायो न भजत्यधमां दशम् ||

"नऽिति कालिदासः |

पृथगेव हि कवित्वाभ्दावकत्वं, भावकत्वाच्च कवित्वम् |

स्वरुपभेदाद्विषयभेदाच्च |

यदाहुः-
ऽकश्चिद्वाचं रचयितुमलं श्रोतुमेवापरस्तां कल्याणी ते मतिरुभयथा विस्मयं नस्तनोति |

नह्येकस्मिन्नतिशयवतां सन्निपातो गुणानाम् एकः सूते कनकम्रुपलस्तत्परीक्षाक्षमो ऽन्यः ||

"ते च द्विधारोचकिनः, सतृणाभ्यवहारिणश्चऽ इति मङ्गलः |

ऽकवयोपि भवन्तिऽिति वामनीयाः ऽ |

चतुर्धाऽ इति यायावरीयः ऽमत्सरिणस्तत्त्वाभिनिवेशिनश्चऽ |

ऽतत्र विवेकिनः पूर्वे तद्विपरीतास्तु ततो ऽनन्तराःऽिति वामनीयाः |

ऽरोचकिता हि तेषां नैसर्गिकी, ज्ञानयोनिर्वा |

नैसिर्गिकीं हि संस्कारशतेनापि वङ्गमिव कालिकां ते न जहति |

ज्ञानयोनौ तु तस्यां विशिष्टज्ञायवति वचसि रोचकितावृत्तिरेवऽ इति यायावरीयः |

. किञ्च सतृणाभ्यवहारिता सर्वसाधारणी |

तथाहि-व्युत्पित्सोः कौतुकिनः सर्वस्य सर्वत्र प्रथमं सा |

प्रतिभाविवेकविकलता हि न गुणागुणयोर्विभागसूत्रं पातयति |

ततो बहु त्यजति बहु च गृह्णाति |

विवेकानुसारेण हि बुद्धयो मधु निष्यन्दन्ते |

परिणामे तु यथार्थदर्शी स्यात् |

विभ्रमभ्रंशश्च निःश्रेयसं सन्तिधत्ते |

मत्सरिणस्तु प्रतिभातमपि न प्रतिभातं, परगुणेषु वाचंयमत्वात् |

स पुनरमत्सरी ज्ञाता च विरलः |

तदुक्तम्-
ऽकस्त्वं भोः कविरस्मि काप्यभिनवा सूक्तिः सखे पठ्यतां त्यक्ता काव्यकथैव सम्प्रति मया कस्मादिदं श्रुयताम् |

यः सम्पग्विविनक्ति दोषगुणयोः सारं, स्वयं सत्कविः सो ऽस्मिन्भावक एव नास्त्यथ भवेद्दैवान्न निर्मत्सरःऽ ||

तत्त्वाभिनिवेशी तु मध्येसहस्रं यद्येकस्तदुक्तम्-
ऽशब्दानां विविनक्ति गुम्फनविधीनामोदते सूक्तिभिः सान्दं लेढि रसामृतं विचिनुते तात्पर्यम्रुद्रां च यः |

पुण्यैः सङ्घटते विवेक्तृविरहादन्तर्मुखं ताम्यतां केषामेव कदाचिदेव सुधियां काव्यश्रमज्ञो जनः ||

स्वानी मित्रं च मन्त्री च शिष्यश्याचार्य एव च |

कवेर्भवति ही तित्रं किं हि तद्यन्न भावकः ||

काव्येन किं कवेस्तस्य तन्मनोमात्रवृत्तिना |

नीयन्ते भावकैर्यस्य न निबन्धा दिशो दश ||

सन्ति पुस्तकविन्यस्ताः काव्यबन्धा गृहे गृहे |

द्वित्रास्तु भावकमनः शिलापट्टनिकुट्टिताः ||

सत्काव्ये विक्रियाः कश्चिद्भावकस्योल्लसन्ति ताः |

सर्वाभिनयनिर्णीतौ दृष्टा नाट्यसृजा न, याः ||

वाग्भवको भवेत्कश्चित्कश्चिद्धृदयभावकः |

सात्त्विकैराङ्गिकैः कश्चिदनुभावैश्च भावकः ||

गुणादानपरः कश्चिद्दोषादानपरो ऽपरः |

गुणदोषाहृतित्यागपरः कश्चन भावकः ||

अभियोगे समाने ऽपि विचित्रो यदयं क्रमः |

तेन विद्मः, प्रसादे ऽत्र नृणां हेतुरमानुषः ||

न निसर्गकविः शास्त्रे न क्षुण्णः कवते च यः |

विडम्बयति सात्मानमाग्रहग्रहिलः किल ||

कवित्वं न स्थितं यस्य काव्ये च कृतकैतुकः |

तस्य सिद्धिः सरस्वत्यास्तन्त्रमन्त्रप्रयोगतः ||

यदान्तरं वेत्ति सुधीः स्ववाक्यपरवाक्ययोः |

तदा स सिद्धो मन्तव्यः, कुकविः कविरेव वा ||

कारयित्रीभावयिघत्र्यावितीमे प्रतिभाभिदे |

अथातः कथयिष्यामो व्युत्पत्तिं काव्यमातरम्ऽ ||

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे शिष्यप्रतिभाव्याख्यानः चतुर्थो ऽध्यायः

== आध्यय ५ ==

व्युत्पत्तिकविपाकाः

पञ्चमो ऽध्यायः ५.

व्युत्पत्तिकविपाकाः ऽबहुज्ञाता व्युत्पत्तिःऽ इत्याचार्याः |

सर्वतोदिक्का हि कविवाचः |

तदुक्तम् -
ऽप्रसरति किमपि कथञ्चन नाभ्यस्ते गोचरे वचः कस्य |

इदमेव तत्कवित्वं यद्वाचः सर्वतोदिक्का ||

"उचितानुचितविवेको व्युत्पत्तिःऽ इति यायावरीयः |

ऽप्रतिभाव्युत्पत्त्योः प्रतिभा श्रेयसीऽ इत्यानन्दः |

सा हि कवेरव्युत्पत्तिकृतं दोषमशेषमाच्छादयति |

तदाह-
ऽव्युत्पत्तिकृतो दोषः शक्त्या संव्रियते कवेः |

यस्त्वशक्तिकृतस्तस्य भ्कगित्येवावभासतेऽ ||

शक्तिशब्दश्चायमुपचरितः प्रतिभाने वर्त्तते |

प्रतिभा यथा-
ऽेतत्किं शिरसि स्थितं मम पितुः, खण्डं सुधाजन्मनो लालाटं किमिदं विलोचनमिदं, हस्ते ऽस्य किं पन्नगाः |

इत्थं क्रौञ्चरिपोः क्रमादुपगते दिग्वाससः शूलिनः प्रश्ने वामकरोपरोधसुभगं देव्याः स्मितं पातु वः ||

"व्युत्पत्तिः श्रेयसीऽ इति मङ्गलः |

सा हि कवेरशक्तिकृतं दोषमशेषमाच्छादयति |

यथा हि-
ऽकवेः संव्रियते ऽशक्तिर्व्युत्पत्त्या काव्यवर्त्मनि |

वैदग्धीचित्तानां हेया शब्दस्य गुम्फनाऽ ||

व्युत्पत्तिर्यथा-
ऽकृतः कण्ठे निष्को नहि किमुत तन्वी मणिलता कृशं लीलापत्रं श्रवसि निहितं कुण्डलम्रचि |

न कौशेयं चित्रं वसनमवदातं तु वसितं समासन्नीभूते निधुवनविलासे वनीतया ||

"प्रतिभाव्युत्पत्ती मिथः समवेते श्रेयस्यौ इति यायावरीयः |

न खलु लावण्यलाभादृते रुपसम्पदृते रुपसम्पदो वा लावण्यलब्धिर्महते सौन्दर्याय |

उभययोगो यथा-
ऽजङ्घाकाण्डोरुनाले नखकिरणलसत्केसरासीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः |

भर्त्तुर्नृत्यानुकारे जयति निजतनुस्वच्छलावण्यवापी-सम्भूताम्भोजशोभां विदधदभिनवो दण्डपादो भवान्याःऽ ||

प्रतिभाव्युत्पत्तिमांश्च कविः कविरित्युच्यते |

स च त्रिधा |

शास्त्रकविः काव्यकविरुभयकविश्च |

ऽतेषामुत्तरोत्तरीयो गरीयान्ऽ इति श्यामदेवः |

ऽनऽिति यायावरीयः |

यथास्वविषये सर्वो गरीयान् |

नहि राजहंसश्चन्द्रिकापानाय प्रभवति, नापि चकोरो ऽद्भयः क्षीरोद्धरणाय |

यच्छास्त्रकविः काव्ये रससम्पदं विच्छिनत्ति |

यत्काव्यकविःशास्त्रे तर्ककर्कशमप्यर्थमुक्तिवैचित्र्येण श्लथयति |

उभयकविस्तूभयोरपि वरीयान्यद्युभयत्र परं प्रवीणः स्यात् |

तस्मात्तुल्यप्रभावावेव शास्त्रकाव्यकवी |

उपकार्योपकारकभावं तु मिथः शास्त्रकाव्योरनुमन्यामहे |

यच्छास्त्रसंस्कारः काव्यमनुगृह्णाति शास्त्रैकप्रवणता तु निगृह्णाति |

काव्यसंस्कारो ऽपि शास्त्रघवाक्यपाकमनुरुणद्धि काव्यैकप्रवणता तु विरुणद्धि |

तत्रघ त्रिधा शास्त्रकविः |

यः शास्त्रं विधत्ते, यश्च शास्त्रे काव्यं संवलिधत्ते, यो ऽपि काव्ये शास्त्रार्थं निधत्ते |

काव्यकविः पुनरष्टधा |

तद्यथा-रचनाकविः, शब्द-कविः, अर्थकविः, अलङ्कारकविः, उक्तिकविः, रसकविः, मार्गकविः, शास्त्रार्थकविरिति |

तत्र रचनाकविः-
ऽलोलल्लाङ्गूलवल्लीवलयितबकुलानोकहस्कन्धगोलैर् गोलाङ्गूलैर्नदद्भिः प्रतिरसितजरत्कन्दरामन्दिरेषु |

षण्डेषूद्दण्टपिण्डीतगरलनाः प्रतिरे येन वेलामालङ्घयोत्तालतल्लस्फुटितपुटकिनीबन्धवो गन्धवाहाःऽ ||

त्रिधा च शब्दकविर्नामाख्यातोभयभेदेन |

तत्र नामकविः-
ऽविद्येव पुंसो महिमेव राज्ञः प्रज्ञेव वैद्यस्य दयेव साधोः |

लज्जेव शूरस्य मृजेव यूनो विभूषणं तस्य नृपस्य सैवऽ ||

आख्यातकविर्यथा-
ऽुच्चैस्तरां जहसुराजहृषुर्जगर्जुराजध्निर भुजतटीनिकरैः स्फुरद्भिः |

सन्तुष्टुवुर्मुमुदिरे बहु मेनिरे च वाचं गुरोरमृतसम्भवलाभगर्भाम्ऽ ||

नामाख्यातकविः-
ऽहतत्विषो ऽन्धाः शिथिलांसबाहवः स्त्रियो विषादेन विचेतना इव |

न चुक्रुशुर्नो रुरुदुर्न सस्वनुर्न चेलुरासुर्लिखिता इव क्षणम्ऽ ||

अर्थकविः-
ऽदेवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे हर्षाद्भृङ्गिरिटाहृतगिरा चामुण्डयालिङ्गिते |

पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयोर् अन्योन्याङ्कनिपातर्जरजरत्स्थूलास्थिजन्मा रवःऽ ||

द्विधालङ्कारकविः शब्दार्थभेदेन |

तयोः शब्दालङ्कारः-
ऽन प्रात्पं विषमरणं प्रात्पं पापेन कर्मणा विषमरणं च |

न मृतो भागीरथ्यां मृतो ऽहमुपगुह्य मन्दभागी रथ्याम्ऽ ||

अर्थालङ्कारः-
ऽभ्रान्तजिह्वापताकस्य फणच्छत्रस्य वासुकेः |

दंष्ट्राशलाकादारिद्यं कर्त्तु योग्यो ऽस्ति मे भुजःऽ ||

उक्तिकविः-
ऽुदरमिदनिन्द्यं मानिनीश्वासलाव्यं स्तनतटपरिणाहे दोर्लतालेह्यसीमा |

स्फुरति च वदनेन्दुर्द्दक्प्रणालीनिपेयस्तद् इह सुदृशि कल्याः केलयो यौवनस्यऽ ||

यथा वा-
ऽप्रतीच्छत्याशोकीं किसलयपरावृत्तिमधरः कपोलः पाण्डुत्वादवतरति ताडीपरिणतिम् |

परिम्लानप्रायामनुवदति दृष्टिः कमलिनीम् इतीयं माधुर्यं स्पृशति च तनुत्वं च भजतेऽ ||

रसकविः-
ऽेतां विलाकय तनूदरि ताम्रपर्णीम् अम्भोनिधौ विवृतशुक्तिपुटोद्धृतानि |

यस्याः पयांसि परिणाहिषु हारमूर्त्त्या वामभ्रुवां परिणमन्ति पयोधरेषुऽ ||

मार्गकविः-
ऽमूलं बालकवीरुधां सुरभयो जातीतरुणां त्वचः सारश्चन्दनशाशिनां किसलयान्यार्द्राण्यशोकस्य च |

शैरीषी कुसुमोग्दतिः परिणमन्मोचं च सो ऽयं गणो ग्रीष्मेणोष्महरः पुरा किल ददे दग्धाय पञ्चषवेऽ ||

शास्त्रार्थकविः-
ऽात्मारामा विहितरतयो निर्विकल्पे समाधौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः |

यं वीक्षिन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम्ऽ ||

एषां द्वित्रैर्गुणैः कनीयान्, पञ्चकैर्मध्यमः, सर्वगुणयोगी महाकविः |

दश च कवेरवस्था भवन्ति |

तत्र च बुद्धिमदाहार्यबुद्धयोः सत्प, तिस्त्रश्च औपदेशिकस्य |

तद्यथा-काव्यविद्यास्नातको, हृदयकविः, अन्यापदेशी, सेविता, घटमानः, महाकविः, कविराजः, आविच्छेदी, सङ्क्रामयिता च |

यः कवित्वकामः काव्यविद्योपविद्याग्रहणाय गुरुकुलान्युपास्ते स विद्यास्नातकः |

यो हृदय एव कवते निह्नुते च स हृदयकविः |

यः स्वमपि काव्यं दोषभयादन्यस्येत्यपदिश्य पठति सो ऽन्यापदेशी |

यः प्रवृत्तवचनः पौरस्त्यानामन्यतमच्छायामभ्यस्यति स सेविता |

यो ऽनवद्यं कवते न तु प्रबध्नाति स घटमानः |

यो ऽन्यतरप्रबन्धे प्रवीणः स महाकविः |

यस्तु तत्र तत्रघ भाषाविशेषे तेषु तेषु प्रबन्धेषु तस्मिंस्तस्मिंश्च रसे स्वतन्त्रः स कविराजः |

ते यदि जगत्यपि कतिपये |

यो मन्त्राद्युपदेशवशाल्लब्धसिद्धिरावेशसमकालं कवते स आविशिकः |

यो यदैवेच्छति तदैवाविच्छिन्नवचनः सो ऽविच्छेदी |

यः कन्याकुमारादिषु सिद्धमन्त्रः सरस्वतीं सङ्क्रामयति स सङ्क्रामयिता |

सततमभ्यासवशतः सुकवेः वाक्यं पाकमायाति |

ऽकः पुनरयं पाकः?ऽ इत्याचार्याः |

ऽपरिणामःऽ इति मङ्गलः |

ऽकः पुनरयं परिणामः?ऽ इत्याचार्याः |

ऽसुपां तिङ्गां च श्रवः सैषा व्युत्पत्तिःऽिति मङ्गलः |

सौशब्द्यमेतत् |

ऽपदनिवेशनिष्कम्पता पाकःऽित्याचार्याः |

तदाहुः-
ऽावापोद्धरणे तावद्यावद्दोलायते मनः |

पदानां स्थापिते स्थैर्ये हन्त सिद्धा सरस्वती ||

"आग्रहपरिग्रहादपि पदस्थैर्यपर्यवसायस्तस्मात्पदानां परिवृत्तिवैमुख्यं पाकःऽिति वामनीयाः |

तदाहुः-
ऽयत्पदानि त्यजन्त्येव परिवृत्तिसहिष्णुताम् |

तं शब्दन्यासनिष्णाताः शब्दपाकं प्रचक्षते ||

"इयमशक्तिर्न पुनः पाकःऽित्यवन्तिसुन्दरी |

यदेकस्मिन्वस्तुनि महाकवीनामिनेको ऽपि पाठः परिपाकवान्भवति, तस्माद्रसोचितशब्दार्थसूक्तिनिबन्धनः पाकः |

यदाह-
ऽगुणालङ्काररीत्युक्तिशब्दार्थग्रथनक्रमः |

स्वदते सुधियां येन वाक्यपाकः स मां प्रतिऽ ||

तदुक्तम्-
ऽसति वक्तरि सत्यर्थे शब्दे सति रसे सति |

अस्ति तन्न विना येन परिस्त्रवति वाङ्मधु ||

"कार्यानुमेयतया यत्तच्छब्दनिवेद्यः परं पाको ऽभिधाविषयस्तत्सहृदयप्रसिद्धिसिद्ध एव व्यवहाराङ्गमसौऽिति यायावरीयः |

स च कविग्रामस्यकाव्यमभ्यस्यते नवधा भवति |

तत्राद्यन्तयोरस्वादु पिचुमन्दपाकम्, आदावस्वादु परिणामे मध्यमं बदरपाकम्, आदावस्वादु परिणामे स्वादु मृद्वीकापाकम्, आदौ मध्यममन्ते चास्वादु वार्त्ताकपाकम्, आद्यन्तयोर्मध्यमं तिन्तिडीकपाकम्, आदौ मध्यममन्ते स्वादु सहकारपाकम्, आदावुत्तममन्ते चास्वादु क्रमुकपाकम्, आदावुत्तममन्ते मध्यमं त्रपुसपाकम्, आद्यन्तयोः स्वादु नालिकेरपाकमिति |

तेषां त्रिष्वपि त्रिकेषु पाकाः प्रथमे त्याज्याः |

वरमकविर्न पुनः कुकविः स्यात् |

कुकविता हि सोच्छ्रवासं मरणम् |

मध्यमाः संस्कार्याः |

संस्कारो हि सर्वस्य गुणमुत्कर्षयति |

द्वादशवर्णमपि सुवर्णं पावकपाकेन हेमीभवति |

शेषा ग्राह्याः |

स्वभावशुद्धं हि न संस्कारमपैक्षते |

न मुक्तामणेः शाणस्तारतायै प्रभवति |

अनवस्थितपाकं पुनः कपित्थपाकमामनिन्ति |

तत्र पलालधूननेन अन्नकणलाभवत्सुभाषितलाभः |

सभ्यगभ्यस्यतः काव्यं नवधा परिपच्यते |

हानोपादानसूत्रेण विभजेत्तद्धि बुद्धिमान् ||

अयमत्रैव शिष्याणां दर्शितस्त्रघिविधो विधिः |

किन्तु वैविध्यमप्येतत्घत्रिजगत्यस्य वर्त्तते ||

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे व्युत्पत्तिकविपाकानां निरुपणं पञ्चमो ऽध्यायः ||

== आध्यय ६ ==

पदवाक्यविवेकः

षष्ठो ऽध्यायः ६

पदवाक्यविवेकः व्याकरणस्मृतिनिर्णीतः शब्दो निरुक्तनिघण्ट्वादिभिर्निर्दिष्टस्तदभिधेयो ऽर्थस्तौ पदम् |

तस्य पञ्च वृत्तयः सुब्वृत्तिः, समासवृत्तिः, तद्धितवृत्तिः, कृद्वृत्तिः, तिङ्वृत्तिश्च |

गौरश्वः पुरुषो हस्तीति जातिवाचिनः शब्दाः |

हरो हरिर्हरण्यगर्भः काल आकाशं दिगिति द्रव्यवाचिनः |

श्वेतः कृष्णो रक्तः पीत इति च गुणवाचिनुः |

पाचकः पाठक इति क्रियावाचिनः प्रादयश्चादयश्वासत्त्ववचनाः |

नगरमुप प्रस्थितः पन्थाः, वृक्षमनु द्योतते विद्युदिति कर्मप्रवचनीयाः |

"सेयं सुब्वृत्तिः पञ्चतय्यपि वाङ्मयस्य माता"इति विद्वांसः |

सुब्वृत्तिरेव समासवृत्तिः |

व्याससमासावेसानयोर्भेदहेतू |

सा च षोढा द्वन्दादिभेदेन |

तत्र पट्समासीसमाससूक्तम्-
"द्वन्दो ऽस्मि द्विगुरस्मि च गृहे च मे सततमव्ययीभावः |

तत्पुरुष कर्म धारय येनाङ्गं स्यां बहुव्रीहिः" ||

तद्वितवृत्तिः पुनरनन्ता |

तद्धि शास्त्रप्रायोवादो यदुततद्धितमूढाः पाणिनीयाः |

माञ्जिष्टं रौचनिकं सौरं सैन्धवं वैयासीयमिति वद्धितान्ताः |

प्रातिपदिकविषया चेयम् |

कृद्वृत्तिश्च धातुविषया |

कर्त्ता हर्त्ता कुम्भकारो नगरकार इति कृदन्ताः |

तिङ्वृत्तिर्दशधा दशलकारीभेदेन |

द्विधा च सा धातुसुब्धातुविषयत्वेन |

अपाक्षीत् पचति पक्ष्यतीति धातवीयान्याख्यातानि |

अपल्लवयत् पल्लवयति पल्लवयिष्यतीति सौब्धातवीयानि |

तदिदमित्थङ्कारं पञ्चप्रकारमपि पदजातं मिथः समन्त्रीयमानमानन्त्याय कल्पते |

तज्जन्मा चैष विदुषां वादो यत्किल दिव्यं समासहस्रं बृहस्पतिर्वक्ता शतक्रतुरध्येता तथापि नान्तः शब्दराशेरासीत् |

तत्र दयितसुब्वृत्तयो विदर्भाः |

वल्लभसमासवृत्तयो गौडाः |

प्रियतद्धिता दाक्षिणात्याः |

कृत्प्रयोगरुचय उदीच्याः |

अभीष्टतिङ्गवृत्तयः सर्वे ऽपि सन्तः |

तेषां च विशेषलक्षणानुसन्धानेनावर्द्धताख्यातगणः |

उक्तञ्च-
"विशेषलक्षणविदां प्रयोगाः प्रतिभान्ति ये |

आख्यातराशिस्तैरेष प्रत्यहं ह्युपचीयते" ||

पदानामभिधित्सितार्थग्रन्थनाकरः सन्दर्भो वाक्यम् |

"तस्य च त्रिधाभिधाव्यापारः" इत्यौद्भटाः |

वैभक्तः शाक्तः शक्तिविभक्तिमयश्च |

प्रतिपदं श्रूयमाणासूपपदविभक्तिषु कारकविभक्तिषु वा वैभक्तः |

लुत्पास्वपि विभक्तिषु समाससामर्थ्यात्तदर्थावगतौ शाक्तः |

उभयात्मा च शक्तिविभक्तिमयः |

तत्र वैभक्तः-
"नमस्तस्मै वराहाय लीलयोद्धरते महीम् |

खुरयोर्मध्यगो यस्य मेरुः खणखणायते" ||

शक्तिः-
"वित्रस्तशत्रुः स्पृहयालुलोकः प्रपन्नसामन्त उदग्रसत्त्वः |

अधिष्टितौदार्यगुणो ऽसिपत्रजितावनिर्नास्ति नृपस्त्वदन्यः" ||

यथा वा-
"कण्ठदोलायितोद्दामनीलेन्दीवरदामकाः |

हरिभीत्याश्रिताशेषकालियाहिकुला इव" ||

शक्तिविभक्तिमयः-
"अथागादेकदा स्पष्टचतुराशामुखद्युतिः |

तं ब्रह्मेव शरत्कालः प्रोत्फुल्लकमलासनः" ||

तत्र वाक्यं दशधा |

एकाख्यातम्, अनेकाख्यातम्, आवृत्ताख्यातम्, एकाभिधेयाख्यातं, परिणताख्यातम्, अनुवृत्ताख्यातं, समुचुताख्यातम्, अध्याहृताख्यातं, कृदभिहिताख्यातम्, अनपेक्षिताख्यातमिति ||

तत्रैकाख्यातम्-
"जयत्येकपदाक्रान्तसमस्तभुवनत्रयः |

द्वितीयपदविन्यासव्याकुलाभिनयः शिवः" ||

अनेकाख्यातम्-
तच्च द्विधा सान्तरं निरन्तरम् ||

तयोः प्रथमम्-
"देवासुरास्तमथ मन्थगिरां विरामे पद्मासनं जय जयेति बभाषिरे च |

प्राग्भेजिरे च परितो बहु मेनिरे च ट स्वाग्रेसरं विदधिरे च ववन्दिरे च" ||

द्वितीयम्-
"त्वं पासि हंसि तनुषे मनुषे बिभर्षि विभ्राजसे सृजसि संहरसे विरौषि |

आःसे निरस्यसि सरस्यसि रासि लासि सङ्क्रीडसे ब्रुडसि मेघसि मोदसे च" ||

"आख्यातपरतन्त्रघा वाक्यवृत्तिरतो यावदाख्यातमिह वाक्यानि" इत्याचार्याः |

"एकाकारतया कारकग्रामस्यैकार्थतया च वचोवृत्तेरेकमेवेदं वाक्यम्" इति यायावरीयः |

आवृत्ताख्यातम्-
"जयत्यमलकौस्तुभस्तबकितांसपीठो हरिर् जयन्ति च मृगेक्षणाश्चलदपाङ्गदृष्टिक्रमः |

ततो जयति मल्लिका तदनु सर्वसंवेदना-विनाशकरणक्षमो जयति पञ्चमस्य ध्वनिः" ||

एकाभिधेयाख्यातम्-
"हृष्यति चूतेषु चिरं तुष्यति बकुलेषु भोदते मरुति |

इह हि मधौ कलकूजुषु पिकेषु च प्रीयते रागी" ||

परिणताख्यातम्-
"सो ऽस्मिञ्जयति जीवातुः पञ्चेषोः पञ्चमध्वनिः |

ते च चैत्रे विचित्रैलाकक्कोलीकेलयो ऽनिलाः" ||

अनुवृत्ताख्यातम्-
"चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः |

चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते" ||

समुचिताख्यातम्-
"परिग्रहभराक्रान्तं दौर्गत्यगतिचोदितम् |

मनो गन्त्रीव कुपथे चीत्करोति च याति च" ||

यथा च-
"स देवः सा दंष्ट्रा किटिकृतविलासस्मितसिता द्वयं दिश्यात्तुभ्यं मुदमिदमुदारं जयति च |

उदञ्चद्भियस्तरलितनिवेशा वसुमत्ती यदग्रे यच्छ्रवासैर्गिरिगुडकलीलामुदवहति" ||

अध्याहृताख्यातम्-
"दोर्दण्डताण्डवभ्रष्टमुडुखण्डं बिभर्ति यः |

व्यस्तपुष्पाञ्जलिपदे चन्द्रचूडः श्रिये स वः" ||

कृदभिहिताख्यातम्-
"अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकथोदयं |

विनयवाधितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः" ||

अनपेक्षिताख्यातम्-
"कियन्मात्रं जलं विप्र? जानुदध्नं नराधिप |

तथापीयमवस्था ते न सर्वत्रघ भवादृशाः" ||

गुणवदलङ्कृतञ्च वाक्यमेव काव्यम् ||

"असत्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्"इत्येके ||

यथा-
"स्तेमः स्तोको ऽपि नाङ्गे श्रसितमविकलं चक्षुषां सैव वृत्तिः मध्येक्षीराब्धि मग्नाः स्फुतमथ च वयं को ऽयमीदृक्प्रकारः |

इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः" ||

यथा च -
"भ्रश्यद्भूग्नभोगीश्वरफणपवनाध्मातपातालतालुः त्रुट्यन्नानागिरीन्द्रावलिशिखरखरास्फाललोलाम्बुराशिः |

उद्यन्निरन्ध्रलीविधुरसुरवधूमुच्यमानोपशल्यः कल्योद्योगस्य यस्य त्रिभुवनदमनः सैन्यसंमर्द आसीत्" ||

आहुश्च-
"दृष्टं किञ्चिददृष्टमन्यदपरं वाचालवार्त्तार्पितं भूयस्तुण्डपुराणतः परिणतं किञ्चिञ्च शास्त्रश्रुतम् |

सूक्त्या वस्तु यदत्र चित्ररचनं तत्काव्यमव्याहतं रत्नस्येव न तस्य जन्म जलधेर्नो रोहणाद्वा गिरेः" ||

"न" इति यायावरीयः-
"नासत्यं नाम किञ्चन काव्ये यस्तु स्तुत्येष्वर्थवादः |

स न परं कविकर्मणि श्रुतौ च शास्त्रे च लोके च" ||

तत्र श्रौतः-
"पुष्पिण्यौ चरतो जङ्घे भूष्णुरात्मा फलेग्रहिः |

शेरे ऽस्य सर्वे पाप्मानः श्रमेण प्रपथे हृताः" ||

शास्त्रीयः-
"आपः पवित्रं प्रथमं पृथिव्यामपां पवित्रं परमं च मन्त्राः |

तेषां च सामर्ग्यजुषां पविघत्रं महर्षयो व्याकरणं निराहुः" ||

किञ्च-
"यस्तु प्रयुङ्क्ते कुशलो विशेषे शब्दान्यथावद्वयवहारकाले |

सो ऽनन्तमान्पोति जयं परघत्र वाग्योगविदुष्यति चापशब्दैः" ||

"कः? |

वाग्योगविदेव |

कुत एतत् ? |

योहि शब्दाञ्जानात्यपशब्दानप्यसौ जानाति |

यथैव हि शब्दज्ञाने धर्मः, एवमपशब्दज्ञघानेप्यधर्मः |

अथवा भूयानधर्मः प्रान्पोति |

भूयांसो हृपशब्दा अल्पीयांसः शब्दाः |

एकैकस्य हि शब्दस्य बहवो ऽप्रभ्रंशाः |

तद्यथा |

गौरित्यस्य शब्दस्य गावो गोणी गोता गोपातलिकेत्येवमादयो ऽपभ्रंशाः |

अथ यो ऽवाग्योगविद् अज्ञानं तस्य शरणम् |

विषम उपन्यासः |

नात्यन्तायाज्ञानं शरणं भवितुमर्हति |

यो ह्यजानन्वै ब्राह्मणं हन्यात्सुरां वा पिबेत्से ऽपि मन्ये पतितः स्यात् |

एवं तर्हि सो ऽनन्तमाप्नोति जयं परत्र वाग्योगविद्दुष्यति चापशब्दैः |

कः? |

अवाग्योगविदेव |

अथ यो वाग्योगविद् विज्ञघानं तस्य शरणम् |

क्व पुनरिदं पठितम्? |

भ्राजा नाम श्लोकाः |

किञ्च भोः श्लोका अपि प्रमाणम्? |

किञ्चातः? |

यदि प्रमाणमयमपि श्लोकः प्रमाणं भवितुमर्हति |

" "यद्युदुम्बरवर्णानां घटीनां मण्डलं महत् |

पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत्" ||

इति |

"प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणमेव"इति गोनर्दीयः |

लौकिकः-
"गुणानुरागमिश्रेण यशसा तव सर्पता |

दिग्वधूनां मुखे जातमकस्मादर्द्धकुङ्कुमम्" ||

"असदुपदेशकत्वात्तर्हि नोपदेष्टव्यं काव्यम्" इत्यपरे |

यथा एवं-
"वयं बाव्ये डिम्भांस्तरुणिमनि यूनः परिणताव् अपीच्छामो दृद्धान्परिणयविधेस्तु स्थितिरियम् |

त्वयारब्धं जन्म क्षपयितुममार्गेण किमिदं न नो गोघत्रे पुत्रि क्वचिदपि सतीलाञ्छनमभूत्" ||

"अस्त्ययमुपदेशः किन्तु निषेध्यत्वेन न विधेत्वेन" इति यायावरीयः |

य एवंविधा विधयः परस्त्रीषु पुंसां सम्भवन्ति तानवबुध्येतेति कवीनां भावः |

किञ्च कविवचनायत्ता लोकयात्रा |

"सा च निःश्रेयसमूलम्" इति महर्षयः |

यदाहुः-
"काव्यमय्यो गिरो यावञ्चरन्ति विशदा भुवि |

तावत्सारस्वतं स्थानं कविरासाद्य मोदते" ||

किञ्च-
"श्रीमन्ति राज्ञां चरितानि यानि प्रभुत्वलालाश्व सुधाशिनां याः |

ये च प्रभावास्तपसामृषीणां ताः सत्कविभ्यः श्रुतयः प्रसूताः" ||

उक्तञ्च-
"ख्याता नराधिपतयः कविसंश्रयेण राजाश्रयेण च गताः कवयः प्रसिद्धिम् |

राज्ञा समो ऽस्ति न कवेः परमोपकारी राज्ञे न चास्ति कविना सदृशः सहायः" ||

"बल्मीकजन्मा स कविः पुराणः कवीश्वरः सत्यवतीसुतश्च |

यस्य प्रणेता तदिहानवद्यं सारस्वतं वर्त्म न कस्य वन्द्यम् ?" ||

"असभ्यार्थाभिधायित्वान्नोपदेष्टव्यं काव्यम्" इति च केचित् |

यथा-
"प्रसर्पन्प्रग्रीवैर्भृतभ्रुवनकुक्षिर्झणझणा-करालः प्रागल्भ्यं वदति तरुणीनां प्रणयिषु |

विलासव्यत्यासाज्जघनफलकास्फालनघन-स्फुदच्छेदोत्सोक्तः कलकनककाञ्चीकलकालः" ||

अपि च-
"नित्यं त्वयि प्रचुरचित्रकपत्रभङ्गी-ताटङ्कतानविपण्डुरगण्डलेखाः |

स्निह्यन्तु रत्नरशनारणनाभिराम-कामार्तिनर्तितनितम्बतटास्तरुण्यः" ||

"प्रकमापन्नो निबन्धनीय एवायमर्थः" इति यायावरीयः |

यदिदं श्रुतौ शास्त्रे चोपलभ्यते |

तत्र याजुषः-
"उपोप मे परामृश मा मे दभ्राणि मन्यथाः |

सर्वाहमस्ति रोमशा गान्धारीणामिवाविका" ||

शास्त्रीयः-
"यस्याः प्रसन्नधवलं चश्रुः पर्यन्तपक्ष्मलम् |

नवनीतोपमं तस्या भवति स्मरमन्दिरम्" ||

पदवाक्यविवेको ऽयमिति किञ्चित्प्रञ्चितः |

अथ वाक्यप्रकारांश्च कांश्चिदन्यान्निबोधत ||

इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे षष्ठो ऽध्यायः पदवाक्यविवेकः ||

== आध्यय ७ ==

वाक्यविधयः

सत्पमो ऽध्यायः ७

वाक्यविधयः, काकुप्रकाराः, पाठप्रतिष्ठा वाक्यं वचनमिति व्यवहरन्ति |

तच्च त्रिधा प्रणेतृभेदेन ब्राह्यं, शैवं, वैष्णवमिति |

तदिदं वायुप्रोक्तपुराणादिभ्य उपलब्धं यदुत ब्राह्यं वचः पञ्चधा स्वायम्भुवमैश्वरमार्षमार्षीकपुत्रकं च |

स्वयम्भूर्ब्रह्मा तस्य स्वायम्भुवम् |

तन्मनोजन्मानो भृगुप्रभृतयः पुत्रास्ते ईश्वरास्तेषामैश्वरम् |

ईश्वराणां सुता ऋषयस्तेषामार्षम् |

ऋषीणामपत्यानि ऋणीकास्तेषामार्षीकम् |

ऋषीकाणां सूनव ऋषिपुत्रकास्तेषामार्षिपुत्रकम् |

स्वयम्भुवः प्रथमं वचः श्रुतिः, श्रुतेरन्यञ्च स्वायम्भुवम् |

तदाहुः-
"सर्वभूतात्मकं भूतं परिवादं च यद्भवेत् |

क्वचिन्निरुक्तमोक्षार्थं वाक्यं स्वायम्भुवं हि तत्" ||

तदेव स्तोकरुपान्तरपरिणतमैश्वरं वचः |

उक्तञ्च-
"व्यक्तक्रममसंक्षित्पं दीत्पगम्भीरमर्थवत् |

प्रत्यक्षं च परोक्षं च लक्ष्यतामैश्वरं वचः" ||

आर्षम्-
"यत्किञ्चिन्मन्त्रसंयुक्तं युक्तं नामविभक्तिभिः |

प्रत्यक्षाभिहितार्थं च तदृषोणां वचः स्मृतम्" ||

आर्षीकम्-
"नैगमैर्विविधैः शब्दैर्निपातबहुलं च यत् |

न चापि सुमहद्वाक्यमृषीकाणां वचस्तु तत्" ||

आर्षिपुत्रकम्-
"अविस्पष्टपदप्रायं यच्च स्याद्वहुसंशयम् |

ऋषिपुत्रवचस्तत्स्यात् ससर्वपरिदेवनम्" ||

तदुदाहरणानि पुराणेभ्य उपलभेत |

सारस्वताः कवयो नः पूर्वे इत्थङ्कारं कथयन्ति |

ब्रह्मविष्णुरुद्रगुहबृहस्पतिभार्गवादिशिष्येषु चतुःषष्टावुपदिष्टं वचः पारमेश्वरम् |

क्रमेण च सञ्चरद्देवैर्देवयोनिभिश्च यथामत्युपजीव्यमानं दिव्यमिति व्यपदिश्यते |

देवयोनयस्तु-
"विद्याधरोप्सरोयक्षरक्षोगन्धर्वकिन्नराः |

सिद्धगुह्यकभूताश्च पिशाचा देवयोनयः" ||

तत्र पिशाचादयः शिवानुचराः स्वभूमौ संस्कृतवादिनः, मर्त्ये तु भूतभाषया व्यवहरन्तो निबन्धनीयाः |

अत्सरसस्तु प्राकृतभाषया |

तद्दिव्यं वचश्चतुर्द्धा |

वैबुधं वैद्याधरं गान्धर्वं योगिनीगतं च |

शेषाणामेतेष्वेवोपलक्षणं प्रकृतिसादृश्येन |

तत्र वैबुधम्-
"समासव्याससंदृब्धं शृङ्गाराद्भुतसम्भृतम् |

सानुप्रासमुदारं च वचः स्यादमृताशिनाम्" ||

यथा-
"यञ्चन्द्रकोटिकरकोरकभारभाजि बभ्राम बभ्रुणि जटाकुहरे हरस्य |

तद्वः पुनातु हिमशैलशिलानिकुञ्ज-भ्फात्कारडम्बरविरावि सुरापगाम्भः ||

" वैद्याधरम्-
"स्तोकानुप्राससच्छायं चतुरोक्ति प्रसादि च |

द्राधीयसा समासेन विद्धि वैद्याधरं वचः ||

" यथा-
"प्रणतसुरकिरीटप्रांशुरत्नांशुवंशच्छुरित-नखशिखाग्रोद्भासमानारुणाङ्घ्रे |

उदिततरणिवृन्दोद्दामधामोर्ध्वनेत्र-ज्वलननिकरदग्धानङ्गमूर्ते नमस्ते" ||

यथा वा-
"भ्रमति भ्रमरकरविम्बतनन्दरवनचम्पकस्तबकगौरः |

वात्याहत इव वियति स्फुटलक्ष्मा रोहणीरमणः" ||

गान्धर्वम्-
"ह्रस्वैः समासैर्भूयोभिर्विभूषितपदोच्चया |

तत्त्वार्थग्रथनग्राह्या गन्धर्वाणां सरस्वती" ||

यथा-
"नमः शिवाय सोमाय सगणाय ससूनवे |

सवृषव्यालशूलाय सकपालय सेन्दवे" ||

योगिनीगतम्-
"समासरुपकप्रायं गम्भीरार्थपदक्रमम् |

सिद्धान्तसमयस्थायि योगिनीनामिदं वचः" ||

यथा-
"दुःखेन्धनैकदहनामृतवर्शषमेघ? संसारकूपपतनैकरावलंब? |

योगीन्द्रदर्पण? जगद्गतकृत्स्नतेजः-प्रत्यक्षचौरवर? वीरपते? नमस्ते" ||

महाप्रभावत्वाद्भौजङ्गममपि दिव्यमित्युपचर्यते |

"प्रसन्नमधुरोदात्तसमासव्यासभागवत् |

अनोजस्विपदप्रायं वचो भवति भोगिनाम्" ||

यथा-
"सुसर्जितां श्रोतसुखां सुरुपामनेकरत्नोज्ज्वलचित्रिताङ्गीम् |

ऽेकस्य तिष्ठति कवेर्गृह एव काव्यम् अन्यस्य गच्छति सुहृद्भवनानि यावत् |

विद्याधरेन्द्रः प्रतिगृह्य वीणां पिनाकिने गायति मङ्गलानि" ||

न्यस्याविदग्धवदनेषु पदानि शश्चत् कस्यापि सञ्चरति विश्चकुतूहलीवऽ ||

"किमर्थं पुनरनुपदेश्ययोर्ब्राह्यपारमेश्वरयोर्वाक्यमार्गयोरुपमन्यासः?" इत्याचार्याः |

सेयं कारयित्री |

"सो ऽपि कवीनामुपदेशपरः" इति यायावरीयः |

भावकस्योपकुर्वाणा भावयित्री |

यतो नाटकादावीश्वरादीनां देवानां च प्रवेशे तच्छायावन्ति वाक्यानि विधेयानीति दिव्यम् |

सा हि कवेः श्रममभिप्रायं च भावयति |

इह हि प्रयोवादो यदुत मर्त्यावतारव्यवहाररुचेर्भगवतो वासुदेवस्य वचो वैष्णवं तन्मानुषमिति व्यपदिशन्ति |

तया खलु फलितः कवेर्व्यापारतरुः |

तच्च त्रिधा रीतित्रयभेदेन |

अन्यथा सो ऽवकेशी स्यात् ऽकः पुनरनयोर्भेदो यत्कविर्भावयति भावकश्च कविःऽ इत्याचार्याः |

तदाहुः-
"वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः |

ऽप्रतिभातारतम्येन प्रतिष्ठा भ्रुवि भूरिधा |

आशु च साक्षान्निवसति सरस्वती तेन लक्ष्यन्ते" ||

भावकस्तु
रीतिरुपं वाक्यत्रितयं काकुः पुनरनेकयति |

"काकुर्वक्रोक्तिर्नाम शब्दालङ्कारोयम्" इति रुद्रटः ||

"अभिप्रायावान्पाठधर्मः काकुः, स कथमलङ्कारी स्यात्?" इति यायावरीयः |

सा च द्विधा साकाङ्क्षा निराकाङ्क्षा च |

वाक्यान्तराकाङ्क्षिणी साकाङ्क्षा, वाक्योत्तरभाविनी निराकाङ्क्षा |

तदेव वाक्यं काकुविशेषेण साकाङ्क्षम् |

तदेव काकुमन्तरेणनिराकाङ्क्षम् |

आक्षेपगर्भा, प्रश्नगर्भा, वितर्कगर्भा चेति साकाङ्क्षा |

विधिरुपा, उत्तररुपा, निर्णयरुपेति निराकाङ्क्षा |

तत्राक्षेपगर्भा-
"यदि मे वल्लभा दूती तदाहमपि वल्लभा |

यदि तस्याः प्रिया वाचः तन्ममापि प्रियप्रियाः" ||

एवमेव निर्देष्टुर्विधिरुपा |

प्रश्नगर्भा-
"गतः स कालो यत्रासीन्मुक्तानां जन्म वल्लिषु |

वर्त्तन्ते साम्प्रतं तासां हेतवः शुक्तिसम्पुटाः" ||

इयमेवोपदेष्टिरुत्तररुपा |

वितर्कगर्भा-
"नवजलधरः सन्नद्धो ऽयं न दृत्पनिशाचरः सुकधनुरिदं दूराकृष्टं न नाम शरासनम् |

अयमपि पटुर्धारासारो न बाणपरम्परा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी" ||

इयमेवोपदेष्टुर्निर्णयरुपा |

ता इमास्तिस्रो ऽपि नियतनिबन्धाः |

तद्विपरीताः पुनरनन्ताः |

तत्राभ्युपगमानुनयकाकू-
"युष्मच्छासनलङ्घनाम्भसि मया मग्नेन नाम स्थितं प्रात्पा नाम विगर्हणा स्थितिमतां मध्ये ऽनुजामामपि |

क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा-नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव" ||

अभ्यनुज्ञोपहासकाकू-
"मथ्नामि कौरवशतं समरे न कोपाद् दुःशासनस्य रुधिरं न पुबाम्युरस्तः |

सञ्चूर्णयामि गदया न सुयोधनोरु सन्धिं करोतु भवतां नृपतिः पणेन" ||

एवं त्रिचतुरकाकुयोगो ऽपि |

तत्र त्रियोगः-
"सेयं पश्यति नो कुरङ्गकवधूस्त्रस्तैवमरद्वीक्षते तस्याः पाणिरयं न मारुतवलत्पत्राङ्गुलिः पल्लवः |

तारं रोदिति सैव नैष मरुता वेणुः समापूर्यते सेयं मामभिभाषते प्रियतमा नो कोकिलः कूजति" ||

चदुर्योगः-
"उच्यतां स वचनीयमशेषं नेश्
"https://sa.wikibooks.org/wiki/काव्यमीमांसा" इत्यस्माद् प्रतिप्राप्तम्