यद् आलोके..... रथजवात् ॥१.०९॥

यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखां नयनयो –
र्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥१.०९॥

पदच्छेदः-
यद् आलोके सूक्ष्मं व्रजति सहसा तद् विपुलतां
यद् अर्धे विच्छिन्नं भवति कृतसन्धानम् इव तत् ।
प्रकृत्या यद् वक्रं तद् अपि समरेखां नयनयोः
न मे दूरे किञ्चित् क्षणम् अपि न पार्श्वे रथजवात् ॥१.०९॥

अन्वयः-
रथजवात् यद् आलोके सूक्ष्मं, तत् सहसा द्विपुलतां व्रजति।यद अर्धे विच्छिन्नं, तत् कृतसन्धानम् इव भवति ।यत् प्रकृत्या वक्रं, तद् अपि नयनयोः समरेखां व्रजति।किञ्चित् (अपि वस्तु) क्षणम् अपि न मे दूरे न पार्श्वे (वर्तते) ॥१.०९॥

सन्दर्भः-
सूतेन अश्वानां वेगः प्रशंसितः।तस्य वचनं समर्थयति राजा दुष्यन्तः।

सरलार्थः-
रथस्य वेगः महान् अस्ति, तेन यद् वस्तु दर्शने सूक्ष्मं भाति, तत् सहसा विशालं भवति।यद् वस्तु विच्छिन्नं दृश्यते, तत् संहितम् इव भवति।यद् वस्तु स्वभावतः वक्रं, तद् वस्तु नयनयोः समानरेखायां भवति।किमपि वस्तु क्षणम् अपि समीपे न भवति, क्षणमपि दूरे न भवति।

वृत्तम् – शिखरिणी

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले शिखरिणीवृत्तनिबद्धानि पद्यानि
मुक्तेषु..... इव रथ्याः ॥१.०८॥    न खलु..... शराः ते ॥१.१०॥