न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाता वज्रसाराः शरास्ते ॥१.१०॥

पदच्छेदः-
न खलु न खलु बाणः सन्निपात्यः अयम् अस्मिन्
मृदुनि मृगशरीरे पुष्पराशौ इव अग्निः ।
क्व बत हरिणकानां जीवितं च अतिलोलं
क्व च निशितनिपाताः वज्रसाराः शराः ते ॥१.१०॥

अन्वयः-
पुष्पराशौ अग्निः इव अस्मिन् मृदुनि मृगशरीरे अयं बाणः न खलु न खलु सन्निपात्यः।बत! हरिणकानाम् अतिलोलं जीवितं च क्व? निशितनिपाताः वज्रसाराः ते शराः च क्व ? १.१०॥

सन्दर्भः-
मृगं हन्तुम् उद्यतं दुष्यन्तम् आश्रमस्थः तपस्वी वारयति अनेन वचनेन।

सरलार्थः-
यथा पुष्पाणां चये अग्निः न सन्निपात्यः, तथा अस्मिन् कोमले मृगशरीरे अयं बाणः न सन्निपात्यः।अहो! हरिणानाम् अतिचञ्चलं जीवनं कुत्र? तव वज्रकठोराः तीक्ष्णाः बाणाः कुत्र?

वृत्तम् – मालिनी

अभिज्ञानशाकुन्तले प्रथमाङ्के पद्यानि अभिज्ञानशाकुन्तले मालिनीवृत्तनिबद्धानि पद्यानि

"https://sa.wikibooks.org/w/index.php?title=न_खलु....._शराः_ते_॥१.१०॥&oldid=7277" इत्यस्माद् प्रतिप्राप्तम्