अत्र
दृष्टान्त: पक्ष: साध्यम् हेतु: व्याप्ति: सन्दर्भ:
इति एतेन क्रमेण वर्णनमस्ति

अग्ने: औष्ण्यवत्
कर्तृत्वम् (आत्मन:) न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्षम्भवाभाव:।
अग्ने: औष्ण्यवत्
कर्तृत्वम् आत्मन: न स्वाभाविकम् तत: मोक्षसम्भवात् यत्र स्वाभाविकत्वाभाव: तत: मोक्सम्भवाभाव:। ब्र.सू.भाष्यम्२.३.४०

आकाशवत्
मन: विभु स्पर्शरहितत्वात् यत्र यत्र स्पर्शरहितत्वं तत्र तत्र विभुत्वं
आकाशादिवत्
आत्मा न निराकरणार्ह:, प्रमाणानामविषयत्वात् यन्नैवं तन्नैवं ब्र.सू.शां भा. २.३.७
आकाशादिवत्
ब्रह्म उत्पत्तिमत्, विकारजनकत्वात्, यत्र विकारजनकत्वं तत्र उत्पत्तिमत्त्वम् ब्र.सू.२.३.९
आत्मवत्
आकाशं नित्यं विभुत्वात् यत्र विभुत्वं तत्र नित्यत्वम् ब्र.सू.शां भा. २.३.७

इतरांशिवत्
पट: अयं एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, अंशित्वात्, यत्र अंशित्वं तत्र एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वम् अद्वैतसिद्धि: अंशित्वप्र.

कार्षापणादिवत्
ब्रह्म सद्वितीयं उन्मितत्वात यत्र उन्मितत्वम् तत्र सद्वितीयत्वम् पराधिकरणं३.२.३१-३७
कालवत्
आकाशं विभु एकत्वे सति सर्वत्रोपलब्धे: यत्र एकत्वे सति सर्वत्रोपलब्धि: तत्र विभुत्वम् ब्र.सू.शां भा. २.३.७
किञ्चिदुदयनवत्
मुग्ध: न स्वप्नावस्थ: नि:संज्ञत्वात् यत्र स्वप्नावस्था, तत्र ससंज्ञत्वम् ३.२.१०

गौरवर्णवत्
चैतन्यं देहधर्म: ।देहे सति सत्त्वात्, देहाभावे असत्त्वात्। यत्र देहेसति सत्त्वं देहाभावे सति असत्त्वं तत्र देहधर्मत्वम्

घटवत्
क्षित्यङ्कुरादिकं कर्तृजन्यं कार्यत्वात् यत्र यत्र कार्यत्वं तत्र तत्र कर्तृजन्यत्वम्
घटवत्
वायु: प्रत्यक्ष: प्रत्यक्षस्पर्शाश्रयत्वात् यत्र प्रत्यक्षस्पर्शाश्रयत्वं तत्र प्रत्यक्षत्वम्
घटवत्
विमतम् (जगत्) अचेतनप्रकृतिकं कार्यत्वात्, यत्र कार्यत्वं तत्र अचेतनप्रकृतिकत्वम् न्या.र.म१.१.५
घटवत्
सुवर्णं न वाय्वादिष्वन्तर्भूतम् रूपवत्वात् यत्र रूपवत्त्वं तत्र वाय्वादिष्वन्तर्भावो न
घटादिवत्
आकाशं विकाररूपं, विभक्तत्वात् यत्र विभक्तत्वं तत्र विकाररूपत्वम् ब्र.सू.शां भा. २.३.७
घटादिवत्
आकाशम् अनित्यम् अनित्यगुणाश्रयत्वात् यत्र अनित्यगुणाश्रयत्वं तत्र अनित्यत्वम् ब्र.सू.शां भा. २.३.७
घटादिवत्
जगत् चेतनकर्तृकम् नामरूपाभ्यां व्याकृतत्वात् यत्र यत्र नामरूपाभ्यां व्याकृतत्वं तत्र तत्र चेतनकर्तृकत्वं भामती १.१.२
घृतवत्
सुवर्णं न आप्यं नैमित्तिकद्रवत्वाधिकरणत्वात् यत्र नैमित्तिकद्रवत्वाधिकरणत्वं तत्र आप्यत्वाभाव:
घृतवत्
सुवर्णं न पार्थिवम् अत्यन्तानलसंयोगे सति अनुच्छिद्यमानद्रवत्वाधिकरणत्वात् यत्र पार्थिवत्वं तत्र अत्यन्तानलसंयोगे सति उच्छिद्यमानद्रवत्वाधिकरणत्वम्

चन्दनमिश्रितोदकवत्
जलम् (इदं) पृथ्वीसंयुक्तं, गन्धात् यत्र गन्ध: तत्र पृथ्वीसंयुक्तत्वम् न्या.र.म.
चन्दनोदकादिवत्
जलं (निर्मल-) तद्गतपृथिवीगन्धवत् पृथिवीसंयोगात् यत्र पृथिवीसंयोग: तत्र तद्गतपृथिवीगन्धवत्त्वम् न्या.र.म.

जागरित-देवदत्तवत्
मुग्ध: न मृत: पुनरुत्थानात् यत्र पुनरुत्थानं तत्र अमृतत्वं ३.२.१०
जीवद्देवदत्तवत्
मुग्ध: न मृत: प्राणोष्मणो: सद्भावात् यत्र प्राणोष्मणो: सद्भाव: तत्र अमृतत्वं ३.२.१०

तन्तुवत्
अनुष्णाशीत: स्पर्श: (वायौ वाति सति भासमान:) क्वचिदाश्रित: गुणत्वात् यत्र यत्र गुणत्वं तत्र तत्र क्वचिदाश्रितत्वं

तन्तुवत्
द्व्यणुक: (त्र्यणुक- अवयव:) सावयव: महदारम्भकत्वात् यत्र महदारम्भकत्वं तत्र सावयवत्वम्

दीपगतप्रकाशशक्तिवत्
वेदगतसर्वार्थप्रकाशन-शक्ति: तदुपादानगता कार्यगतप्रकाशशक्तित्वात् यत्र कार्यगतप्रकाशशक्तित्वं तत्र तदुपादानगतत्वम् न्या.र.म१.१.३

नरनगरवत्
ब्रह्म सद्वितीयं सम्बन्धित्वात् यत्र सम्बन्धित्वं तत्र सद्वितीयत्वम् पराधिकरणं३.२.३१-३७

पटवत्
रज: (जालसूर्यमरीचिस्थं सूक्ष्मतमम् उपलभ्यमानं) सावयवम् चाक्षुषत्वात् यत्र यत्र चाक्षुषत्वं तत्र तत्र सावयवत्वम्
प्रतियोगिघटवत्।
-प्रागभाव: (घट-) घटात्यन्ताभावानधिकरण: घटप्रागभावविरोधित्वात् यत्र घटप्रागभावविरोधित्वं तत्र घटात्यन्ताभावानधिकरणत्वम् अद्वैतसिद्धि: चतुर्थं मिथ्यात्वम्
प्रत्येकं चन्द्रानुविद्ध-जलतरङ्गचन्द्रवत्
घटादिकं सद्रूपे कल्पितम्, प्रत्येकं सदनुविद्धत्वेन प्रतीयमानत्वात्, यत्र यदनुविद्धत्वेन प्रतीयमानत्वं तत्र तद्रूपे कल्पितत्वम् अ.सि.

वह्ने: औष्ण्यवत्
आत्मा निराकर्तुमशक्य: निराकर्तु: स्वरूपभूतत्वात् यद् यद् निराकर्तु: स्वरूपभूतं तत्तद् निराकर्तुमशक्यं ब्र.सू.शां भा. २.३.७
व्रीहिभिर्यजेत यवैर्यजेत इतिवत्३.२.७
नाड्यादीनाम् एकार्थत्वम्, समानविभक्तिकत्वात्, यत्र समानविभक्तिकत्वं तत्र एकार्थत्वम्
व्रीहियवादिवत्
नाड्यादीनां विकल्पसद्भाव:, एकार्थत्वात्, यत्र एकार्थत्वं तत्र विकल्पसद्भाव:

शुक्तिरजतवत्
विमतं(जगत्) मिथ्या परिच्छिन्नत्वात् यत्र परिच्छिन्नत्वं तत्र मिथ्यात्वम् अ.सि. ग्रन्थारम्भ:

सुप्तवत्
मुग्ध: न जागरितावस्थ: इन्द्रियैर्विषयानीक्षणात्, यत्र इन्द्रियैर्विषयानीक्षणं तत्र न जागरितावस्थत्वम् ३.२.१०
सेतुवत्
आत्मा सद्वितीय: विच्छेदकरत्वात् यत्र विच्छेदकरत्वं तत्र सद्वितीयत्वम् ब्र.सू.पराधिकरणं३.२.३१-३७

हरिद्रावत्
सुवर्णं पार्थिवं पीतत्वात् यत्र पीतत्वं तत्र पार्थिवत्वम्


साध्यानुसारम्      हेत्वनुसारम्      अनुमानप्रयोगकोश:
"https://sa.wikibooks.org/w/index.php?title=दृष्टान्तानुसारम्&oldid=7158" इत्यस्माद् प्रतिप्राप्तम्