च.वि.१.१३
तत्रैष रसप्रभाव उपदिष्टो भवति।द्रव्यप्रभावं पुनरुपदेक्ष्यामः।तैलसर्पिर्मधूनि वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि भवन्ति॥ च.वि.१.१३॥
पदच्छेदः-
तत्र एषः रसप्रभावः उपदिष्टः भवति।द्रव्यप्रभावं पुनः उपदेक्ष्यामः।तैल-सर्पि-र्मधूनि वात-पित्त-श्लेष्मप्रशमन-अर्थानि द्रव्याणि भवन्ति॥ च.वि.१.१३॥
अन्वयः-
तत्र एषः रसप्रभावः उपदिष्टः भवति।द्रव्यप्रभावं पुनः उपदेक्ष्यामः।तैल-सर्पि-र्मधूनि वात-पित्त-श्लेष्मप्रशमन-अर्थानि द्रव्याणि भवन्ति॥ च.वि.१.१३॥
सरलार्थः-
तत्र रसप्रभावः पूर्वम् उपदिष्टः।अधुना द्रव्यप्रभावम् उपदिशामः।तैलम् इति वात-प्रशमनार्थं द्रव्यम्। घृतम् इति पित्तप्रशमनार्थं द्रव्यम्।मधु इति कफप्रशमनार्थं द्रव्यम्। च.वि.१.१३
आयुर्वेददीपिका-
सङ्क्षेपाभिधानम् एतद् एव इति दर्शयन् आह तत्र एषः इत्यादि। एषः इति ‘रसाः षड्’ इत्यादिना ‘तत्त्वमुपदेक्ष्यामः’ इत्यन्तेन ग्रन्थेन उक्तः इति अर्थः। उपदिष्टः भवति इति सङ्क्षेपेण कथितः भवति। अन्ये तु ‘तत्र एषः रसप्रभावः उद्दिष्टः भवति’ इति पठन्ति। अस्मिन् पक्षे द्रव्यदोषविकारप्रभावः अपि यः अत्र उद्दिष्टः सः अपि रसद्वारा, तेन रसस्य एव प्रपञ्चाभिहितत्वात् तस्य एव अभिधानम् उपसंहरति न द्रव्य-आदीनाम् इति ज्ञेयम्। द्रव्यप्रभावम् इत्यादौ पुनः इति सामान्येन द्रव्यप्रभाव-कथनात् पुनः शृङ्गग्राहिकया तैलादिद्रव्यप्रभावं कथयिष्यामः इति अर्थः। प्रशमनार्थानि इति प्रशमन-प्रयोजनानि॥ च.वि.१.१३॥
सुशीला पञ्जिका-
तैलसर्पिर्मधूनि इति।तैलं च सर्पिः च मधु च तैलसर्पिर्मधूनि।
वातपित्तश्लेष्मप्रशमनार्थानि इति।वातः च पित्तं च श्लेष्मा च वातपित्त-श्लेष्माणः। वातपित्तश्लेष्मणां प्रशमनं वातपित्तश्लेष्मप्रशमनम्। वातपित्तश्लेष्मपशमनम् अर्थः प्रयोजनं येषां तानि वातपित्तश्लेष्मप्रशमनार्थानि। द्रव्याणि इति अस्य विशेषणम् एतद्।
वाक्ये ‘तैलसर्पिर्मधूनि’ इति उद्देशांशः, ‘वातपित्तश्लेष्मप्रशमनार्थानि द्रव्याणि’ इति विधेयांशः।उद्देशांशे त्रयः घटकाः सन्ति।विधेयांशे अपि त्रयः घटकाः सन्ति। उद्देशगतपदार्थानां सङ्ख्या तथा विधेयगतपदार्थानां सङख्या समाना।एवं स्थिते यथासङ्ख्यन्यायः प्रवर्तते।
यथासङ्ख्यमनुदेशः समानाम्।अष्टा.१.३.१०
इति पाणिनिसूत्रे एषः न्यायः उक्तः।उद्देशगतपदार्थाः तथा विधेयगतपदार्थाः समसङ्ख्याकाः सन्ति चेत् तेषां क्रमशः अन्वयः करणीयः इति अस्य न्यायस्य अर्थः। तेन-
तैलं वातप्रशमनार्थं द्रव्यम्,
सर्पिः पित्तप्रशमनार्थं द्रव्यं तथा
मधु श्लेष्मप्रशमनार्थं द्रव्यम् इति अर्थः ज्ञायते। च.वि.१.१३
च.वि.१.१२ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.१४