च.वि.१.१२
तस्माद्रसप्रभावतश्च द्रव्यप्रभावतश्च दोषप्रभावतश्च विकारप्रभावतश्च तत्त्वमुपदेक्ष्यामः॥ च.वि.१.१२॥
पदच्छेदः-
तस्माद् रसप्रभावतः च द्रव्यप्रभावतः च दोषप्रभावतः च विकारप्रभावतः च तत्त्वम् उपदेक्ष्यामः॥ च.वि.१.१२॥
अन्वयः-
तस्माद् रसप्रभावतः च द्रव्यप्रभावतः च दोषप्रभावतः च विकारप्रभावतः च तत्त्वम् (वयम्) उपदेक्ष्यामः॥ च.वि.१.१२॥
सरलार्थः-
अतः वयं रसप्रभावतत्त्वं तथा द्रव्यप्रभातत्त्वम् उपदिशामः।दोषप्रभावततत्वं तथा विकारप्रभावतत्त्वम् उपदिशामः। च.वि.१.१२
आयुर्वेददीपिका-
उपसंहरति- तस्माद् इत्यादि। तत्त्वम् इति रसादिप्रभावतत्त्वम्। यत् तु पूर्वं “तत्र आदौ रस-द्रव्य-दोष-विकार-प्रभावान् उपदेक्ष्यामः” इति अनेन रसादि-प्रभाव-व्याख्यान-प्रतिज्ञानं कृतं, तत् तु रसप्रभाव-अनुमानेन एव द्रव्यप्रभावकथनात्, तथा दोषप्रभावेण च विकारप्रभावकथनात् चरितार्थं स्यात्। इह तु विकृति-विषम-समवायात्मके द्रव्ये विकारे वा रसदोषप्रभाव-अनुमानेन न द्रव्यविकारप्रभाव-अनुमानम् अस्ति इति कृत्वा पृथक् पृथग् रसादि-प्रभावतत्त्व-अभिधान-प्रतिज्ञानम् इति न पौनरुक्त्यम्। इह द्रव्याणां वीर्यप्रभाव-विपाकप्रभावौ च द्रव्यप्रभावे रसप्रभावे वा अन्तर्भावनीयौ। तत्र यौ रसानुगुणौ वीर्यविपाकप्रभावौ, तौ रसे; यौ तु रसक्रमोक्त-वीर्यविपाकविपरीतौ वीर्यविपाकौ, तौ द्रव्यप्रभावे बोद्धव्यौ। उपदेक्ष्यामः इति निखिलेन तन्त्रेण रसादिप्रभावतत्त्वं पृथग् उपदेक्ष्यामः इति अर्थः; रसादिप्रभावः प्रपञ्चेन निखिले तन्त्र एव वक्तव्यः॥ च.वि.१.१२॥
सुशीला पञ्जिका-
रसप्रभावतः द्रव्यप्रभावतः दोषप्रभावतः विकारप्रभावतः इति। एतानि चत्वारि अपि तसिप्रत्ययान्तान्ति रूपाणि।
प्रतियोगे पञ्चम्यास्तसिः।(अष्टा.५.४.१४)
आद्यादिभ्य उपसङ्ख्यानम्।५.४.१४ (वा.)
आभ्यां सूत्रवार्तिकाभ्यां साधिताः एते तद्धितशब्दाः।रसप्रभावेण, द्रव्यप्रभावेण दोषप्रभावेण विकारप्रभावेण इति तेषामर्थाः।रसप्रभावेण तत्त्वम् उपदिशामः, द्रव्यप्रभावेण तत्त्वम् उपदिशामः इत्यादिः अन्वयः भवति।-च.वि.१.१२
च.वि.१.११ चरकसंहितायां रसविमानाध्याये सुशीला पञ्जिका च.वि.१.१३