विषयः-
विबद्धवातवर्चास्तु बहुशूलप्रवाहिकः।सरक्तपिच्छस्तृष्णार्तः क्षीरसौहित्यमर्हति॥ च. चि. १९.४७

विशयः-
क्षीरमत्र गवां ग्राह्यमुत अन्यासामपि?कुतः संशयः? ब्रूमः। क्षीरेऽनुक्ते गवां क्षीरं ग्राह्यमिति परिभाषा वर्तते । तथाप्यत्र युक्त्या छागदुग्ध-माहिषदुग्धयोरपि प्रयोगः शक्य:।अतः संशयः।

पूर्वपक्षः- छागदुग्ध-माहिषदुग्धयोरपि प्रयोगः शक्यः, स च एवम्-
सौहित्यं मात्रातिक्रमेण तृप्तिः। मात्रा पुनरग्निबलापेक्षिणी। च.सू. ५ चक्र
अतः अत्र सौहित्याय क्षीरमात्रा अग्निबलमपेक्षते।अतः हीने अग्निबले छागदुग्धं मध्यमेऽ-ग्निबले गोदुग्धम्, उत्तमेऽग्निबले माहिषदुग्धमिति विवेकः।
क्षीराभावे क्षीरद्वेषे वा क्षीरविकृतेरपि प्रयोगः शक्यः। तत्र दध्नः नवनीतस्य तक्रस्यातिदेशः कार्यः यतो हि दधि अतीसारे प्रशस्यते(च.सू. २७.२२६.)।तक्रं नवनीतं च सङ्ग्राहि, दीपनं च।तक्रं मधुराम्लसान्द्रत्वाद्वातं शमयति।–
यमकस्योपरि क्षीरं धारोष्णं वा पिबेन्नरः।शृतमेरण्डमूलेन बालबिल्वेन वा पयः॥४८
एवं क्षीरप्रयोगेण रक्तं पिच्छा च शाम्यति।शूलं प्रवाहिका चैव विबन्धश्चोपशाम्यति॥४९

उत्तरपक्षः-
मीमांसादृष्ट्या एतेभ्यो वचनेभ्यो जायमानो बोध ईदृशः - क्षीरसौहित्यादिभिः उपायैः विबद्धवातादीन् शमयेत्।
विबद्धवातवर्चस्त्वं तु वातवर्चःप्रवर्तनेन शाम्यति।क्षीरसौहित्यं च रेचनम्।अतः क्षीर-सौहित्येन विबद्धवातवर्चोजन्या पीडा शाम्यतीति युक्तियुक्तमेव।
एवं तर्हि क्षीरमत्र न रसायनधर्मावच्छिन्नमभिप्रेतं न शमनधर्मावच्छिन्नं न वौजोवर्धकत्वेन।अत्र तु क्षीरं रेचनधर्मावच्छिन्नमभिप्रेतम्। अथ यदि क्षीरं रेचनधर्मावच्छिन्नमभिप्रेतं तर्हि तस्य जरणमपि नाभिप्रेतम्।
अपक्वं वमनं दोषं पच्यमानं विरेचनम्।निर्हरेत् . . .॥च.क.१२.६२
किञ्च विरेचनं भेषजं यदि जीर्यते तर्हि दोषनिर्हरणाय पुनः विरेचनौषधं पायनीयम् इति शास्त्रोपदेशः-
पीते प्रस्रंसने दोषान् न निर्हृत्य जरां गते।वमिते चौषधे धीरः पाययेदौषधं पुनः॥ च. क.१२.६३
अतः प्रकृते क्षीरस्य जरणं नैवाभिप्रेतम्। यदि क्षीरस्य जरणं नाभिप्रेतम् तर्हि अग्निबलमपि नापेक्षणीयम्।हीने अग्निबले छागदुग्धं मध्यमेऽ-ग्निबले गोदुग्धम्, उत्तमेऽग्निबले माहिषदुग्धमिति पूर्वपक्षेण सूचितो विवेको निर्मूलः।
इदमपि चिन्त्यं यद् हीने अग्निबले छागदुग्धं मध्यमेऽ-ग्निबले गोदुग्धम्, उत्तमेऽग्निबले माहिषदुग्धमिति विवेके किमग्निबलं परीक्ष्य निर्णयः क्रियते? स्वास्थ्यकालिकमाहोस्वित् अतीसारव्याधिकालिकम्?

पूर्वपक्षः-
स्वास्थ्यकालिकम्।

उत्तरपक्षः-
स्वास्थ्यकालिकम् अग्निबलं परीक्ष्य कृतो निर्णयः नोचितः, क्षीरसौहित्यप्रयोग-काले तस्य अविद्यमानत्वात् ।

पूर्वपक्षः-
अतीसारव्याधिकालिकम् अग्निबलं परीक्ष्य निर्णयः कार्यः।

उत्तरपक्षः
अग्निमान्द्यजनितेऽतिसारे कुतो वा मध्यममग्निबलं कुतो वोत्तममग्निबलम्? अतः ‘अत्र सौहित्याय क्षीरमात्रा अग्निबलमपेक्षते।अतः हीने अग्निबले छागदुग्धं मध्यमेऽग्निबले गोदुग्धम्, उत्तमेऽग्निबले माहिषदुग्धमिति विवेकः’ इत्येतत्सर्वं निर्युक्तिकम्।

निर्णयः-
परिभाषानुसारं क्षीरपदेन गोक्षीरमेव ग्राह्यम्।

 भिषग् भिषजा सह 
"https://sa.wikibooks.org/w/index.php?title=...क्षीरसौहित्यमर्हति&oldid=6144" इत्यस्माद् प्रतिप्राप्तम्