..व्याकरणशास्त्रं किं करोति?

यदि शब्द: नित्य: ,तस्य अर्थ: नित्य: तयो: मिथ: सम्बन्ध: नित्य: तर्हि व्याकरणशास्त्रं किं करोति?
शास्त्रं धर्मनियमं करोति।कस्य शब्दस्य प्रयोगेण धर्म: भवति, कस्य प्रयोगेण अधर्म: इति निर्धारणं शास्त्रं करोति।एष: शब्द:।एतस्य प्रयोगेण अभ्युदय:। एष: अपशब्द:।एतस्य प्रयोगेण अभ्युदयहानि: इति अयं धर्मनियम:।

पस्पशाह्निक-प्रश्नोत्तरसङ्ग्रह: