७५ इति विरचित-वाग्भिः...

मूलम्-
इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पं उज्झां चकार । मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः । । ५.७५ । ।
पदच्छेदः
इति विरचित-वाग्भिः बन्दिपुत्रैः कुमारः सपदि विगतनिद्रः तल्पम् उज्झां-चकार ।मदपटु-निनदद्भिः बोधितः राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः । । ५.७५ । ।
अन्वयः
मदपटु-निनदद्भिः राजहंसैः इति बोधितः सुरगजः सुप्रतीकः गाङ्गं सैकतम् इव विरचित-वाग्भिः बन्दिपुत्रैः सपदि विगतनिद्रः कुमारः तल्पम् उज्झां-चकार । । । ५.७५ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=७५_इति_विरचित-वाग्भिः...&oldid=6113" इत्यस्माद् प्रतिप्राप्तम्