७१ यावत् प्रतापनिधिः...

मूलम्-
यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तं । आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयं उच्छिनत्ति । । ५.७१ । ।
पदच्छेदः
यावत् प्रतापनिधिः आक्रमते न भानुः अह्नाय तावद् अरुणेन तमः निरस्तम् । आयोधन-ग्रसरतां त्वयि वीर याते किं वा रिपून् तव गुरुः स्वयम् उच्छिनत्ति । । ५.७१ । ।
अन्वयः
यावत् प्रतापनिधिः भानुः न आक्रमते तावद् अह्नाय अरुणेन तमः निरस्तम् । हे वीर त्वयि आयोधन-अग्रसरतां याते तव गुरुः रिपून् स्वयम् उच्छिनत्ति किं वा । । ५.७१ ।।
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=७१_यावत्_प्रतापनिधिः...&oldid=6109" इत्यस्माद् प्रतिप्राप्तम्