मूलम्-
वृन्ताच्छ्लथं हरति पुष्पं अनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः । स्वाभाविकं परगुणेन विभातवायुः सौरभ्यं ईप्सुरिव ते मुखमारुतस्य । । ५.६९
पदच्छेदः
वृन्तात् श्लथं हरति पुष्पम् अनोकहानां संसृज्यते सरसिजैः अरुणांशु-भिन्नैः । स्वाभाविकं परगुणेन विभात-वायुः सौरभ्यम् ईप्सुः इव ते मुखमारुतस्य। । ५.६९
अन्वयः
विभात-वायुः स्वाभाविकं ते मुखमारुतस्य सौरभ्यम् परगुणेन ईप्सुः इव अनोकहानां श्लथं पुष्पम् वृन्तात् हरति अरुणांशु-भिन्नैः सरसिजैः संसृज्यते (च) ।
। । ५.६९ सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६९_वृन्ताच्छ्लथं...&oldid=6107" इत्यस्माद् प्रतिप्राप्तम्