मूलम्-
तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परस्परतुलां अधिरोहतां द्वे । प्रस्पन्दमानपरुषेतरतारं अन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मं ।। .६८ । ।
पदच्छेदः -
तद् वल्गुना युगपद् उन्मिषितेन तावत् सद्यः परस्परतुलाम् अधिरोहतां द्वे प्रस्पन्दमान-परुषेतर-तारम् अन्तः चक्षुः तव प्रचलितभ्रमरं च पद्मम् । । ५.६८
अन्वयः
तद् वल्गुना युगपद् तावत् उन्मिषितेन सद्यः द्वे परस्परतुलाम् अधिरोहताम् । प्रस्पन्दमान-परुषेतर-तारम् तव चक्षुः, अन्तः प्रचलितभ्रमरं च पद्मम् । । ५.६८
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=६८_तद्_वल्गुना...&oldid=6106" इत्यस्माद् प्रतिप्राप्तम्