मूलम्-
तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः। उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापात् । । ५.५९ । ।
पदच्छेदः

तथा इति उपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितः नृसोमः। उदङ्मुखः सः अस्त्रविद् अस्त्रमन्त्रं जग्राह तस्मात् निगृहीतशापात् । । ५.५९ । ।
अन्वयः
अस्त्रविद् सः नृसोमः (अजः) तथा इति सोमोद्भवायाः सरितः पवित्रं पयः उपस्पृश्य । उदङ्मुखः निगृहीतशापात् तस्मात् अस्त्रमन्त्रं जग्राह । । ५.५९ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५९_तथेत्युपस्पृश्य...&oldid=6097" इत्यस्माद् प्रतिप्राप्तम्