५५ इक्ष्वाकुवंशप्रभवो...

मूलम्-
इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भमयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्माम्।।५.५५।।
पदच्छेदः
इक्ष्वाकु-वंश-प्रभवः यदा ते भेत्स्यति अजः कुम्भम् अयोमुखेन । संयोक्ष्यसे स्वेन वपुर्महिम्ना तदा इति अवोचत् सः तपोनिधिः माम् । । ५.५५ । ।
अन्वयः
इक्ष्वाकु-वंश-प्रभवः अजः यदा ते कुम्भम् अयोमुखेन भेत्स्यति । तदा स्वेन वपुर्महिम्ना संयोक्ष्यसे इति सः तपोनिधिः माम् अवोचत् । । ५.५५ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः