मूलम्-
मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वम् ।अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य । । ५.५३ । ।
पदच्छेदः
मतङ्ग-शापात् अवलेपमूलात् अवाप्तवान् अस्मि मतङ्गजत्वम् ।अवेहि गन्धर्वपतेः तनूजं प्रियंवदं मां प्रियदर्शनस्य ।।५.५३।।
अन्वयः
अवलेपमूलात् मतङ्ग-शापात् मतङ्गजत्वम् अवाप्तवान् अस्मि । मां प्रियदर्शनस्य (प्रियदर्शन-नाम्नः ) गन्धर्वपतेः तनूजं प्रियंवदम् अवेहि । । ५.५३ । ।
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५३_मतङ्ग-शापात्...&oldid=6089" इत्यस्माद् प्रतिप्राप्तम्