मूलम्
स विद्धमात्रः किल नागरूपमुत्सृज्य तद्विस्मितसैन्यदृष्टः ।स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्योमचरं प्रपेदे । ।५१
पदच्छेदः
सः विद्धमात्रः किल नागरूपम् उत्सृज्य तद् -विस्मितसैन्यदृष्टः ।स्फुरत्-प्रभामण्डल-मध्यवर्ति कान्तं वपुः व्योमचरं प्रपेदे । ।
अन्वयः
सः गजः विद्धमात्रः किल नागरूपम् उत्सृज्य तद्-विस्मित-सैन्यदृष्टः (सन्) स्फुरत्-प्रभामण्डल-मध्यवर्ति कान्तं व्योमचरं वपुः प्रपेदे ॥५१
सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=५१_स_विद्धमात्रः...&oldid=6087" इत्यस्माद् प्रतिप्राप्तम्