मूलम्
तथेति तस्यावितथं प्रतीतः प्रत्यग्रहीत्संगरमग्रजन्मा ।गामात्तसारां रघुरप्यवेक्ष्य निष्कष्टुमर्थं चकमे कुबेरात् । । ५.२६ । ।

पदच्छेदः
तथा इति तस्य अवितथं प्रतीतः प्रति–अग्रहीत् सङ्गरम् अग्रजन्मा।गाम् आत्तसारां रघुः अपि अवेक्ष्य निष्काष्टुम् अर्थं चकमे कुबेरात्॥२६॥

अन्वयः
अग्रजन्मा प्रतीतः (सन्) तस्य अवितथं सङ्गरं तथा इति प्रति–अग्रहीत् ।रघुः अपि गाम् आत्तसाराम् अवेक्ष्य कुबेरात् अर्थं निष्काष्टुम् चकमे॥२६॥

सरलार्थः
ब्राह्मणः प्रूतः (सन्) तस्य (रघोः) अमोघां प्रतिज्ञा तथा इति स्वीकृतवान्।रघुः अपि भूमिः गृहितधनाम् अवलोक्य कुबेरस्य सकाशात् धनम् आहर्तुम् इष्टवान्॥२६॥

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२६_तथेति...&oldid=7164" इत्यस्माद् प्रतिप्राप्तम्