मूलम्
इत्थं द्विजेन द्विजराजकान्तिरावेदितो वेदविदां वरेण । एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः । । ५.२३ । ।

पदच्छेदः
इत्थं द्विजेन द्विजराजकान्तिः आवेदितः वेदविदां वरेण।एनेनिवृत्त–इन्द्रियवृत्तिः एनं जगाद् भूयः जगद्–एकनाथः॥२३॥

अन्वयः
द्विजराजकान्तिः, एनेनिवृत्त–इन्द्रियवृत्तिः, जगद्–एकनाथः(रघुः) वेदविदां वरेण द्विजेन कौत्सेन इत्थम् आवेदितः(सन्), भूयः एनं जगाद्।२३

सरलार्थः
चन्द्रतुल्यकान्तिः,पापात् यस्य इन्द्रियवृत्तिः निवृत्ता,सः जगतः एकः स्वामी(रघुः) वेदज्ञेषु श्रेष्ठेन ब्राह्मणेन कौत्सेन एवं निवेदितः(सन्) पुनःकौत्सम् उक्तवान्।२३

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२३_इत्थं_द्विजेन...&oldid=6049" इत्यस्माद् प्रतिप्राप्तम्