मूलम्
निर्बन्धसंजातरुषार्थकार्श्यमचिन्तयित्वा गुरुणाहमुक्तः ।वित्तस्य विद्यापरिसंख्यया मे कोटीष्चतस्रो दश चाहरेति । । ५.२१ । ।

पदच्छेदः
निर्बन्ध–सञ्जात–रुषा अर्थकार्श्यम् अचिन्तयित्वा गुरुणा अहम् उक्तः।वित्तस्य विद्यापरिसङ्ख्यया मे कोटिः चतस्रः दश च आहर इति॥२१॥

अन्वयः
निर्बन्ध–सञ्जात–रुषा गुरुणा अर्थकार्श्यम् अचिन्तयित्वा, वित्तस्य चतस्रः दश च कोटिः मे आहर इति विद्यापरिसङ्ख्यया अहम् उक्तः।२१

सरलार्थः
प्रार्थनातिरेकेण यस्य क्रोधः जातः तादृशेन गुरुणा दारिद्रयम् अविचार्य धनस्य चतुर्दश कोटिः मम कृते आनय इति विद्यासङ्ख्यानुसारम् अहम् उक्तः।२१

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=२१_निर्बन्धसंजात...&oldid=6047" इत्यस्माद् प्रतिप्राप्तम्