१.२.०५अन्तर्याम्यधिकरणम्।

अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्।१.२.१८
न च स्मार्ततद्धर्माभिधानात्।१.२.१९
शारीरश्चोभयेऽपि हि भेदेनैनमधीयते।१.२.२०

पूर्वपक्ष: .- य इमं च (बृह. ३.७.१,२)इत्यत्र अन्तर्यामिशब्देन प्राप्ताणिमाद्यैश्वर्य: सिद्ध: योगी निर्दिष्ट:,तस्य सर्वानुप्रवेशेन यमयितृत्वं सिद्धम्।
वेदान्ती.- (भामती) न , ‘ जगद्व्यापारवर्जं प्रकरणात्’ इति न्यायेन विकारविषये विद्यासिद्धानां व्यापाराभावात् सोऽपि नान्तर्यामी भवितुमर्हति।
पू.- तर्हि जीव: अन्तर्यामी।स च देहेन्द्रियादिमान्,द्रष्टृत्वादिसम्पन्न:,अमृत:।तस्य सर्वभूतनियन्तृत्वं जीवस्य अदृष्टद्वारा।तदुपार्जितौ धर्माधर्मौ नियच्छत:।
वे.-(भामती) देहेन्द्रियादिनियम: अन्तर्यामिनोऽस्ति चेत् ,देहेन्द्रियादे: नियमने अन्यद् देहेन्द्रियदि आवश्यकम्, तच्च जीवस्य नास्ति । जगद् जीवस्य धर्माधर्माभ्यामर्जितं चेद् जीवस्य अविद्यानिमित्तं जगदिति आपद्यते।तस्मात् न जीव: अन्तर्यामी।
अन्तर्यामिपदेन अत्र परमेश्वरः निर्दिष्ट:।तद्धर्मव्यपदेशात्।
पू.-बृ.३.७.१,२ इत्यत्रान्तर्यामिपदेन पृथिव्याद्यभिमानी कश्चन देवोऽभिप्रेत:, यतो हि श्रूयते (बृ.३.९.१)
वे.- न।
१)समस्तं विकारजातमन्तसतिष्ठन् यमयतीति न कोऽपि एक: देव:पृथिव्यादि:।
२)तस्मिंश्च देवे अमर्त्यत्वम् आत्मत्वं च नास्ति यदिहोपदिष्टम्।
३)यं पृथिवी न वेद इति वचनादपि स अनतर्यामी पृथिवीतर: इत्यवगम्यते।पृथिवी देवता आत्मानं न जानातीति न सम्भवति।
४)अदृष्ट: अश्रुत: इति वर्णनं पृथिव्यां नोपपद्यते।
पू.- परमात्मन: कार्यकरणसङ्घाताभावात् न स अन्तर्यामी भवितुमर्हति।(कथम्?)
वे.- इह परमात्मन: धर्मा: अन्तर्यामिणि निर्दिष्टा: सन्ति यथा
१ सर्वविकारान्त:स्थ: अन् अ यमयतीति सर्वयमयितृत्वं तस्मिन् विद्यते।
२ आत्मत्वं तस्मिन् विद्यते।
३ अमृतत्वं तस्मिन् विद्यते।


ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्   प्रथमाध्याये द्वितीय: पाद: