१.२.०२अन्नाधिकरणम्।
अत्ता चराचरग्रहणात्। १.२.९
प्रकरणाच्च।१.२.१०
पूर्वपक्ष:-
कठवल्लीषु वाक्यं विद्यते –
‘यस्य ब्रह्म च क्षत्रं चोभे भवत ओदन:।मृत्युर्यस्योपसेचनं क इत्था वेद यत्र स:॥’ (१.२.२४)
अत्र अत्ता अग्निरभिप्रेत:।‘अग्निरन्नाद:’(बृ.१.४.६) इति श्रुतिप्रसिद्धिभ्याम्।
वेदान्ती.- न।अत्र चराचरं विकारजातम् अद्यत्वेन प्रतीयते। तस्य अत्ता अग्निर्नैव सम्भवति।अत: परमात्मा एवात्र अत्ता।
पू.-तर्हि जीवोऽत्र अत्ता।‘तयोरन्य: पिप्पलं स्वाद्वत्ति’ इति (मुण्डको. ३.१.१)वचनात्।
वे.- न। मृत्युर्यस्योपसेचनम् इति वचनाद् अत्र चराचरं विकारजातम् अद्यत्वेन प्रतीयते। तस्य अत्ता जीवो नैव सम्भवति।अत: परमात्मा एवात्र अत्ता।स सर्वं चराचरं विकारजातं संहरन् सर्वमत्तीति उच्यते।
पू.- अत्र चराचरस्य अद्यत्वेन ग्रहणं नोपपद्यते, साक्षादश्रुतत्वात्।
वे.- मृत्युर्यस्योपसेचनम् इति वचनाद् अत्र चराचरं विकारजातम् अद्यत्वेन प्रतीयते।
पू.- मृत्युर्यस्योपसेचनम् इति वचनाद् एव चराचरं विकारजातम् अद्यत्वेन प्रतीयते चेद् ब्रह्मक्षत्रयो: पृथग् ग्रहणम् अनर्थकम्, चराचरे विकारजाते तयोरन्तर्भावात्।
वे.- तयो: प्राधान्यात्पृथग् ग्रहणमुपपद्यते।
पू.- परमात्मनोऽत्तृत्वं न सम्भवति, ‘अनश्नन्नन्योऽभिचाकशीति’ (मुण्डको. ३.१.१)वचनात्।
वे.-अनश्नन् इति एषा श्रुति: परमात्मन: भोक्तृत्वं निषेधति,न तु सर्वसंहारकर्तृत्वम्। यत्र् यन्ति अभिसंविशन्ति इत्यादिश्रुति: तु परमेश्वरस्य अत्तृत्वं प्रतिपादयति एव।
- - - - - -
ब्रह्मसूत्रशाङ्करभाष्यं संवादरूपम्