मूलम्
तदन्यतस्तावदनन्यकार्यो गुर्वर्थं आहर्तुं अहं यतिष्ये ।स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि।।५.१७ । ।

पदच्छेदः
तद् अन्यतः तावद् अनन्यकार्यः गुरु–अर्थम् आहर्तुम् अहं यतिष्ये।स्वस्ति अस्तु ते निर्गलित–अम्बुगर्भं शरद्–घनं न अर्दति चातकः अपि॥१७॥

अन्वयः
तद् तावद् अनन्यकार्यः अहं अन्यतः गुरु–अर्थम् आहर्तुम् यतिष्ये।ते स्वस्ति अस्तु। चातकः अपि निर्गलित–अम्बुगर्भं शरद्–घनं न अर्दति।१७

सरलार्थः
तत् अस्माद् अन्यकार्यरहितः अहं अन्यजनात् गुरुधनम् अर्जयितुं यत्नं यतिष्ये। तव कल्याणं चातकः अपि यस्य उदरात् जलं समाप्तं(तादृशं) शरदकालीनं मेघं न याचते।अस्तु।१७

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१७_तदन्यतस्तावद्_...&oldid=6042" इत्यस्माद् प्रतिप्राप्तम्