मूलम्
स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति ।पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः। ।५.१६। ।

पदच्छेदः
स्थाने भवान् एकनराधिपः सन् अकिञ्चनत्वं मखजं व्यनक्ति।पर्यायपीतस्य सुरैः हिमांशोः कलाक्षयः श्लाघ्यतरः हि वृद्धेः॥१६॥

अन्वयः
भवान् एकनराधिपः सन् मखजम् अकिञ्चनत्वं व्यनक्ति स्थाने।हि सुरैः पर्यायपीतस्य हिमांशोः कलाक्षयः वृद्धेः श्लाघ्यतरः।१६

सरलार्थः
त्वं सार्वभौमः असि(तथापि) यज्ञजन्यं दरिद्रत्वं प्रकटयसि(इति) योग्यम्(एव) यस्मात् देवैः क्रमेण पीतस्य चन्द्रस्य कलाकक्षः वृद्धेः(अपेक्षया) प्रशंसनीयः(भवति)।१६

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=१६_स्थाने_भवान्_...&oldid=6041" इत्यस्माद् प्रतिप्राप्तम्