१६ त्वय्यायत्तम् ...
त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै
प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः।
सद्यःसीरोत्कषणसुरभि क्षेत्रमारूह्य मालं
किंचित् पश्चात् व्रज लखुगतिर्भूय एवोत्तरेण॥
अन्वयः- त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञै प्रीतिस्निग्धैः जनपदवधूलोचनैः पीयमानः सद्यःसीरोत्कषणसुरभि मालं क्षेत्रमारूह्य लखुगतिर्भूय पश्चात् किंचित् उत्तरेण एव व्रज