१४द्विविधोपक्रमणीय:
अध्याय 14
सम्पाद्यताम्उपक्रम्यस्य हि द्वि-त्वाद् द्वि-धैवोपक्रमो मतः ।
एकः संतर्पणस् तत्र द्वितीयश् चापतर्पणः ॥ १ ॥
पदच्छेद:-
उपक्रम्यस्य हि द्वि-त्वाद् द्वि-धा एव उपक्रमो मतः।एकः संतर्पण: तत्र द्वितीय: च अपतर्पणः ॥ १ ॥
बृंहणो लङ्घनश् चेति तत्-पर्यायाव् उदाहृतौ ।
बृंहणं यद् बृहत्-त्वाय लङ्घनं लाघवाय यत् ॥ २ ॥
पदच्छेद:-
बृंहण: लङ्घन: च इति तत्-पर्यायौ उदाहृतौ ।बृंहणं यद् बृहत्-त्वाय लङ्घनं लाघवाय यत् ॥ २ ॥
देहस्य भवतः प्रायो भौमापम् इतरच् च ते ।
स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ ३ ॥
पदच्छेद:-
देहस्य भवतः प्राय: भौम-आपम् इतरत् च ते । स्नेहनं रूक्षणं कर्म स्वेदनं स्तम्भनं च यत् ॥ ३ ॥
भूतानां तद् अपि द्वैध्याद् द्वितयं नातिवर्तते ।
शोधनं शमनं चेति द्वि-धा तत्रापि लङ्घनम् ॥ ४ ॥
पदच्छेद:-
भूतानां तद् अपि द्वैध्याद् द्वितयं न अतिवर्तते ।शोधनं शमनं च इति द्वि-धा तत्र अपि लङ्घनम् ॥ ४ ॥
यद् ईरयेद् बहिर् दोषान् पञ्च-धा शोधनं च तत् ।
निरूहो वमनं काय-शिरो-रेको ऽस्र-विस्रुतिः ॥ ५ ॥
पदच्छेद:-
यद् ईरयेद् बहिर् दोषान् पञ्च-धा शोधनं च तत् ।निरूह: वमनं काय-शिरो-रेक: अस्र-विस्रुतिः ॥ ५ ॥
न शोधयति यद् दोषान् समान् नोदीरयत्य् अपि ।
समी-करोति विषमान् शमनं तच् च सप्त-धा ॥ ६ ॥
पदच्छेद:-
न शोधयति यद् दोषान् समान् न उदीरयति अपि ।समी-करोति विषमान् शमनं तत् च सप्त-धा ॥ ६ ॥
पाचनं दीपनं क्षुत्-तृड्-व्यायामातप-मारुताः ।
बृंहणं शमनं त्व् एव वायोः पित्तानिलस्य च ॥ ७ ॥
पदच्छेद:-
पाचनं दीपनं क्षुत्-तृड्-व्यायाम-आतप-मारुताः ।बृंहणं शमनं तु एव वायोः पित्त-अनिलस्य च ॥ ७ ॥
बृंहयेद् व्याधि-भैषज्य-मद्य-स्त्री-शोक-कर्शितान् ।
भाराध्वोरः-क्षत-क्षीण-रूक्ष-दुर्-बल-वातलान् ॥ ८ ॥
पदच्छेद:-
बृंहयेद् व्याधि-भैषज्य-मद्य-स्त्री-शोक-कर्शितान् ।भार-अध्व-उरः-क्षत-क्षीण-रूक्ष-दुर्-बल-वातलान् ॥ ८ ॥
गर्भिणी-सूतिका-बाल-वृद्धान् ग्रीष्मे ऽपरान् अपि ।
मांस-क्षीर-सिता-सर्पिर्-मधुर-स्निग्ध-वस्तिभिः ॥ ९ ॥
पदच्छेद:-
गर्भिणी-सूतिका-बाल-वृद्धान् ग्रीष्मे अपरान् अपि ।मांस-क्षीर-सिता-सर्पिर्-मधुर-स्निग्ध-वस्तिभिः ॥ ९ ॥
स्वप्न-शय्या-सुखाभ्यङ्ग-स्नान-निर्वृति-हर्षणैः ।
मेहाम-दोषाति-स्निग्ध-ज्वरोरु-स्तम्भ-कुष्ठिनः ॥ १० ॥
पदच्छेद:-
स्वप्न-शय्या-सुख-अभ्यङ्ग-स्नान-निर्वृति-हर्षणैः ।मेह-आम-दोष-अति-स्निग्ध-ज्वर-ऊरुस्तम्भ-कुष्ठिनः ॥ १० ॥
विसर्प-विद्रधि-प्लीह-शिरः-कण्ठाक्षि-रोगिणः ।
स्थूलांश् च लङ्घयेन् नित्यं शिशिरे त्व् अपरान् अपि ॥ ११ ॥
पदच्छेद:-
विसर्प-विद्रधि-प्लीह-शिरः-कण्ठ-अक्षि-रोगिणः ।स्थूलान् च लङ्घयेत् नित्यं शिशिरे तु अपरान् अपि ॥ ११ ॥
तत्र संशोधनैः स्थौल्य-बल-पित्त-कफाधिकान् ।
आम-दोष-ज्वर-च्छर्दिर्-अतीसार-हृद्-आमयैः ॥ १२ ॥
पदच्छेद:-
तत्र संशोधनैः स्थौल्य-बल-पित्त-कफ-अधिकान् ।आम-दोष-ज्वर-च्छर्दिर्-अतीसार-हृद्-आमयैः ॥ १२ ॥
विबन्ध-गौरवोद्गार-हृल्-लासादिभिर् आतुरान् ।
मध्य-स्थौल्यादिकान् प्रायः पूर्वं पाचन-दीपनैः ॥ १३ ॥
पदच्छेद:-
विबन्ध-गौरव-उद्गार-हृल्लास-आदिभि: आतुरान् ।मध्य-स्थौल्य-आदिकान् प्रायः पूर्वं पाचन-दीपनैः ॥ १३ ॥
एभिर् एवामयैर् आर्तान् हीन-स्थौल्य-बलाधिकान् ।
क्षुत्-तृष्णा-निग्रहैर् दोषैस् त्व् आर्तान् मध्य-बलैर् दृढान् ॥ १४ ॥
१४.१४cv क्षुत्-तृष्णा-निग्रहैर् दोषैर् १४.१४cv क्षुत्-तृष्णा-निग्रहैर् दोषैश्
१४.१४dv चार्तान् मध्य-बलैर् दृढान्
पदच्छेद:-
एभि: एव आमयै: आर्तान् हीन-स्थौल्य-बलाधिकान् ।क्षुत्-तृष्णा-निग्रहै: दोषै: तु आर्तान् मध्य-बलै: दृढान् ॥ १४ ॥
समीरणातपायासैः किम् उताल्प-बलैर् नरान् ।
न बृंहयेल् लङ्घनीयान् बृंह्यांस् तु मृदु लङ्घयेत् ॥ १५ ॥
पदच्छेद:-
समीरण-आतप-आयासैः किम् उत अल्प-बलै: नरान् ।न बृंहयेद् लङ्घनीयान् बृंह्यान् तु मृदु लङ्घयेत् ॥ १५ ॥
युक्त्या वा देश-कालादि-बलतस् तान् उपाचरेत् ।
बृंहिते स्याद् बलं पुष्टिस् तत्-साध्यामय-संक्षयः ॥ १६ ॥
पदच्छेद:-
युक्त्या वा देश-काल-आदि-बलत: तान् उपाचरेत् ।बृंहिते स्याद् बलं पुष्टि: तत्-साध्य-आमय-संक्षयः ॥ १६ ॥
वि-मलेन्द्रिय-ता सर्गो मलानां लाघवं रुचिः ।
क्षुत्-तृट्-सहोदयः शुद्ध-हृदयोद्गार-कण्ठ-ता ॥ १७ ॥
व्याधि-मार्दवम् उत्साहस् तन्द्रा-नाशश् च लङ्घिते ।
अन्-अपेक्षित-मात्रादि-सेविते कुरुतस् तु ते ॥ १८ ॥
अति-स्थौल्याति-कार्श्यादीन् वक्ष्यन्ते ते च सौषधाः ।
रूपं तैर् एव च ज्ञेयम् अति-बृंहित-लङ्घिते ॥ १९ ॥
१४.१९cv रूपं तैर् एव विज्ञेयम्
अति-स्थौल्यापची-मेह-ज्वरोदर-भगन्दरान् ।
कास-संन्यास-कृच्छ्राम-कुष्ठादीन् अति-दारुणान् ॥ २० ॥
तत्र मेदो-ऽनिल-श्लेष्म-नाशनं सर्वम् इष्यते ।
कुलत्थ-जूर्ण-श्यामाक-यव-मुद्ग-मधूदकम् ॥ २१ ॥
मस्तु-दण्डाहतारिष्ट-चिन्ता-शोधन-जागरम् ।
मधुना त्रि-फलां लिह्याद् गुडूचीम् अभयां घनम् ॥ २२ ॥
रसाञ्जनस्य महतः पञ्च-मूलस्य गुग्गुलोः ।
शिला-जतु-प्रयोगश् च साग्निमन्थ-रसो हितः ॥ २३ ॥
१४.२३cv शिलाह्वस्य प्रयोगश् च
विडङ्गं नागरं क्षारः काल-लोह-रजो मधु ।
यवामलक-चूर्णं च योगो ऽति-स्थौल्य-दोष-जित् ॥ २४ ॥
व्योष-कट्वी-वरा-शिग्रु-विडङ्गातिविषा-स्थिराः ।
हिङ्गु-सौवर्चलाजाजी-यवानी-धान्य-चित्रकाः ॥ २५ ॥
निशे बृहत्यौ हपुषा पाठा मूलं च केम्बुकात् ।
एषां चूर्णं मधु घृतं तैलं च सदृशांशकम् ॥ २६ ॥
१४.२६dv तैलं च सदृशांशिकम्
सक्तुभिः षो-डश-गुणैर् युक्तं पीतं निहन्ति तत् ।
अति-स्थौल्यादिकान् सर्वान् रोगान् अन्यांश् च तद्-विधान् ॥ २७ ॥
हृद्-रोग-कामला-श्वित्र-श्वास-कास-गल-ग्रहान् ।
बुद्धि-मेधा-स्मृति-करं संनस्याग्नेश् च दीपनम् ॥ २८ ॥
अति-कार्श्यं भ्रमः कासस् तृष्णाधिक्यम् अ-रोचकः ।
स्नेहाग्नि-निद्रा-दृक्-श्रोत्र-शुक्रौजः-क्षुत्-स्वर-क्षयः ॥ २९ ॥
१४.२९av अति-कार्श्यं भ्रमः श्वास- १४.२९bv -तृष्णाधिक्यम् अ-रोचकः
वस्ति-हृन्-मूर्ध-जङ्घोरु-त्रिक-पार्श्व-रुजा ज्वरः ।
प्रलापोर्ध्वानिल-ग्लानि-च्छर्दि-पर्वास्थि-भेदनम् ॥ ३० ॥
१४.३०dv -च्छर्दिः-पर्वास्थि-भेदनम्
वर्चो-मूत्र-ग्रहाद्याश् च जायन्ते ऽति-विलङ्घनात् ।
कार्श्यम् एव वरं स्थौल्यान् न हि स्थूलस्य भेषजम् ॥ ३१ ॥
१४.३१av विण्-मूत्रादि-ग्रहाद्याश् च १४.३१dv न हि स्थौल्यस्य भेषजम्
बृंहणं लङ्घनं वालम् अति-मेदो-ऽग्नि-वात-जित् ।
मधुर-स्निग्ध-सौहित्यैर् यत् सौख्येन च नश्यति ॥ ३२ ॥
१४.३२av बृंहणं लङ्घनं नालम् १४.३२cv मधुर-स्नेह-सौहित्यैर्
१४.३२dv यत् सौख्येन विनश्यति
क्रशिमा स्थविमात्य्-अन्त-विपरीत-निषेवणैः ।
योजयेद् बृंहणं तत्र सर्वं पानान्न-भेषजम् ॥ ३३ ॥
अ-चिन्तया हर्षणेन ध्रुवं संतर्पणेन च ।
स्वप्न-प्रसङ्गाच् च कृशो वराह इव पुष्यति ॥ ३४ ॥
१४.३४av अ-चिन्तया प्रहर्षेण १४.३४cv स्वप्न-प्रसङ्गाच् च नरो
न हि मांस-समं किञ्-चिद् अन्यद् देह-बृहत्-त्व-कृत् ।
मांसाद-मांसं मांसेन संभृत-त्वाद् विशेषतः ॥ ३५ ॥
१४.३५dv संभृत-त्वाद् विशिष्यते १४.३५dv संभृत-त्वाद् बृहत्-त्व-कृत्
गुरु चा-तर्पणं स्थूले विपरीतं हितं कृशे ।
यव-गोधूमम् उभयोस् तद्-योग्याहित-कल्पनम् ॥ ३६ ॥
१४.३६dv तद्-योग्य-हित-कल्पनम् १४.३६dv ततो ग्राहित-कल्पनम्
दोष-गत्यातिरिच्यन्ते ग्राहि-भेद्य्-आदि-भेदतः ।
उपक्रमा न ते द्वि-त्वाद् भिन्ना अपि गदा इव ॥ ३७ ॥
१४.३७cv उपक्रमा न तु द्वि-त्वाद्
वर्ग: सूत्रस्थान- पदच्छेदान्वयार्थसहितम्