१३ सर्वत्र नो ...
मूलम् –
सर्वत्र नो वार्त्तं अवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानां ।सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा।।५.१३।।
पदच्छेदः
राजन् सर्वत्र नः वार्तम् अवेहि त्वयि नाथे प्रजानाम् अशुभं कुतः?सूर्ये तपति तमिस्ना लोकस्य दृष्टेः आवरणस्य कथं कल्पेत?॥१३॥
अन्वयः
राजन् सर्वत्र नः वार्तम् अवेहि त्वयि नाथे प्रजानाम् अशुभं कुतः?सूर्ये तपति तमिस्ना लोकस्य दृष्टेः आवरणस्य कथं कल्पेत?।१३
सरलार्थः
हे राजन्, सर्वत्र अस्माकं कुशलम् अस्ति इति जानीहि। त्वं पालकः अस्ति चेत् प्रजानाम् अकल्याणं कथं सम्भवति? यदा सूर्यः प्रकाशते तदा अन्धकारः जनानां नेत्रस्य आवरणं कर्तुं कथं समर्थः भवेत्?१३
सन्धिः
समासः
मल्लिनाथटीका