मूलम् –
इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारां अपि गां निशम्य।स्वार्थोपपत्तिं प्रति दुर्बलाशस्तं इत्यवोचद्वरतन्तुशिष्यः।।५.१२।।

पदच्छेदः
इति अर्घ्यपात्र–अनुमति–व्ययस्य रघोः उदाराम् अपि गां निशम्य।स्वार्थ–उपपत्तिं प्रति दुर्बलाशः तम् इति अवोचद् वरतन्तुशिष्यः॥१२॥ अन्वयः
अर्घ्यपात्र–अनुमति–व्ययस्य रघोः इति उदाराम् अपि गां निशम्य।स्वार्थ–उपपत्तिं प्रति दुर्बलाशः वरतन्तुशिष्यः तम् इति अवोचत्॥१२

सरलार्थः
अर्घ्यपात्रतः यस्य व्ययस्य अनुमानं भवति,तस्य रघुराजस्य एतादृशीम् औदार्यपूर्णम् अपि वाणीं श्रुत्वा स्वस्य कार्यविषये यस्य आशा शिथिला जाता सः कौत्सः तं रघुम् एवम् उक्तवान्।१२

सन्धिः
समासः
मल्लिनाथटीका
रघुवंशे पञ्चमः सर्गः

"https://sa.wikibooks.org/w/index.php?title=१२_इत्यर्घ्यपात्रा_...&oldid=6037" इत्यस्माद् प्रतिप्राप्तम्