मूलम् –॥
दोष-धातु-मला मूलं सदा देहस्य तं चलः।उत्साहोच्छ्वास-निश्वास-चेष्टा-वेग-प्रवर्तनैः ॥ १ ॥
पदच्छेद: ।
दोष-धातु-मला: मूलं सदा देहस्य तं चलः ।उत्साह-उच्छ्वास-निश्वास-चेष्टा-वेग-प्रवर्तनैः ॥ १ ॥

मूलम् –॥
सम्यग्-गत्या च धातूनाम् अक्षाणां पाटवेन च । अनुगृह्णात्य् अ-विकृतः पित्तं पक्त्य्-ऊष्म-दर्शनैः ॥ २ ॥
पदच्छेद: ।
सम्यग्-गत्या च धातूनाम् अक्षाणां पाटवेन च ।अनुगृह्णाति अ-विकृतः पित्तं पक्ति-ऊष्म-दर्शनैः ॥ २ ॥

मूलम् –॥
क्षुत्-तृड्-रुचि-प्रभा-मेधा-धी-शौर्य-तनु-मार्दवैः ।श्लेष्मा स्थिर-त्व-स्निग्ध-त्व-संधि-बन्ध-क्षमा-आदिभिः ॥ ३ ॥
पदच्छेद: ।
क्षुत्-तृड्-रुचि-प्रभा-मेधा-धी-शौर्य-तनु-मार्दवैः ।श्लेष्मा स्थिर-त्व-स्निग्ध-त्व-संधि-बन्ध-क्षमा-आदिभिः ॥ ३ ॥

मूलम् –॥
प्रीणनं जीवनं लेपः स्नेहो धारण-पूरणे । गर्भोत्पादश् च धातूनां श्रेष्ठं कर्म क्रमात् स्मृतम् ॥ ४ ॥
पदच्छेद: ।
प्रीणनं जीवनं लेपः स्नेह: धारण-पूरणे । गर्भोत्पाद: च धातूनां श्रेष्ठं कर्म क्रमात् स्मृतम् ॥ ४ ॥

मूलम् –॥
अवष्टम्भः पुरीषस्य मूत्रस्य क्लेद-वाहनम् ।
स्वेदस्य क्लेद-विधृतिर् वृद्धस् तु कुरुते ऽनिलः ॥ ५ ॥
११.५cv स्वेदस्य केश-विधृतिर् ११.५dv वृद्धश् च कुरुते ऽनिलः
पदच्छेद: ।
अवष्टम्भः पुरीषस्य मूत्रस्य क्लेद-वाहनम् स्वेदस्य क्लेद-विधृति: वृद्ध: तु कुरुते अनिलः ॥ ५ ॥

मूलम् –॥
कार्श्य-कार्ष्ण्योष्ण-काम-त्व-कम्पानाह-शकृद्-ग्रहान् ।
बल-निद्रेन्द्रिय-भ्रंश-प्रलाप-भ्रम-दीन-ताः ॥ ६ ॥
११.६av कार्श्य-कार्ष्ण्योष्ण-कामि-त्व-
पदच्छेद: ।
कार्श्य-कार्ष्ण्य-उष्ण-कामत्व-कम्प-आनाह-शकृद्-ग्रहान् ।बल-निद्रा-इन्द्रिय-भ्रंश-प्रलाप-भ्रम-दीन-ताः ॥ ६ ॥

मूलम् –॥
पीत-विण्-मूत्र-नेत्र-त्वक्-क्षुत्-तृड्-दाहाल्प-निद्र-ताः ।
पित्तं श्लेष्माग्नि-सदन-प्रसेकालस्य-गौरवम् ॥ ७ ॥
पदच्छेद: ।
पीत-विट्-मूत्र-नेत्र-त्वक्-क्षुत्-तृड्-दाह-अल्प-निद्रताः ।पित्तं श्लेष्मा अग्नि-सदन-प्रसेक-आलस्य-गौरवम् ॥ ७ ॥

मूलम् –॥
श्वैत्य-शैत्य-श्लथाङ्ग-त्वं श्वास-कासाति-निद्र-ताः ।
रसो ऽपि श्लेष्म-वद् रक्तं विसर्प-प्लीह-विद्रधीन् ॥ ८ ॥
पदच्छेद: ।
श्वैत्य-शैत्य-श्लथ-अङ्गत्वं श्वास-कास-अति-निद्रताः।रस: अपि श्लेष्मवद् रक्तं विसर्प-प्लीह-विद्रधीन् ॥ ८ ॥

मूलम् –॥
कुष्ठ-वातास्र-पित्तास्र-गुल्मोप-कुश-कामलाः ।
व्यङ्गाग्नि-नाश-संमोह-रक्त-त्वङ्-नेत्र-मूत्र-ताः ॥ ९ ॥
११.९cv व्यङ्गाग्नि-साद-संमोह पदच्छेद: ।
कुष्ठ-वातास्र-पित्तास्र-गुल्म-उप-कुश-कामलाः ।व्यङ्ग-अग्नि-नाश-संमोह-रक्त-त्वङ्-नेत्र-मूत्रताः ॥ ९ ॥

मूलम् –॥
मांसं गण्डार्बुद-ग्रन्थि-गण्डोरूदर-वृद्धि-ताः ।कण्ठादिष्व् अधि-मांसं च तद्-वन् मेदस् तथा श्रमम्॥ १० ॥
११.१०bv -गण्डोरूदर-वृद्ध-ताः
पदच्छेद: ।
मांसं गण्ड-अर्बुद-ग्रन्थि-गण्ड-ऊरु-उदर-वृद्धिताः।कण्ठादिषु अधिमांसं च तद्वत् मेद: तथा श्रमम् ॥ १० ॥

मूलम्
अल्पे ऽपि चेष्टिते श्वासं स्फिक्-स्तनोदर-लम्बनम् ।अस्थ्य् अध्य्-अस्थ्य् अधि-दन्तांश् च मज्जा नेत्राङ्ग-गौरवम् ॥ ११ ॥
११.१३cv मूत्रं तु वस्तेर् निस्तोदं
पदच्छेद: ।
अल्पे अपि चेष्टिते श्वासं स्फिक्-स्तन-उदर-लम्बनम् ।अस्थि अधि-अस्थि अधि-दन्तान् च मज्जा नेत्र-अङ्ग-गौरवम् ॥ ११ ॥

मूलम् –
पर्वसु स्थूल-मूलानि कुर्यात् कृच्छ्राण्य् अरूंषि च । अति-स्त्री-काम-तां वृद्धं शुक्तं शुक्राश्मरीम् अपि ॥ १२ ॥

पदच्छेद: ।
पर्वसु स्थूल-मूलानि कुर्यात् कृच्छ्राणि अरूंषि च ।अति-स्त्री-कामतां वृद्धं शुक्रं शुक्र-अश्मरीम् अपि ॥ १२ ॥

मूलम् –॥
कुक्षाव् आध्मानम् आटोपं गौरवं वेदनां शकृत् ।मूत्रं तु वस्ति-निस्तोदं कृते ऽप्य् अ-कृत-संज्ञ-ताम् ॥ १३ ॥
पदच्छेद: ।
कुक्षौ आध्मानम् आटोपं गौरवं वेदनां शकृत् ।मूत्रं तु वस्ति-निस्तोदं कृते अपि अ-कृत-संज्ञताम् ॥ १३ ॥

मूलम् –॥
स्वेदो ऽति-स्वेद-दौर्गन्ध्य-कण्डूर् एवं च लक्षयेत् । दूषिकादीन् अपि मलान् बाहुल्य-गुरु-तादिभिः ॥ १४ ॥
पदच्छेद: ।
स्वेद: अति-स्वेद-दौर्गन्ध्य-कण्डू: एवं च लक्षयेत्।दूषिका-आदीन् अपि मलान् बाहुल्य-गुरुता-आदिभिः ॥ १४ ॥

मूलम् –॥
लिङ्गं क्षीणे ऽनिले ऽङ्गस्य सादो ऽल्पं भाषितेहितम् ।संज्ञा-मोहस् तथा श्लेष्म-वृद्ध्य्-उक्तामय-संभवः ॥ १५ ॥
पदच्छेद: ।
लिङ्गं क्षीणे अनिले अङ्गस्य साद: अल्पं भाषित-ईहितम् ।संज्ञामोह: तथा श्लेष्म-वृद्धि-उक्त-आमय-संभवः ॥ १५ ॥

मूलम् –॥
पित्ते मन्दो ऽनलः शीतं प्रभा-हानिः कफे भ्रमः ।श्लेष्माशयानां शून्य-त्वं हृद्-द्रवः श्लथ-संधि-ता ॥ १६ ॥
११.१६dv हृद्-गदः श्लथ-संधि-ता
पदच्छेद: ।
पित्ते मन्द: अनलः शीतं प्रभा-हानिः कफे भ्रमः ।श्लेष्म-आशयानां शून्यत्वं हृद्-द्रवः श्लथसंधिता ॥ १६ ॥

मूलम् –॥
रसे रौक्ष्यं श्रमः शोषो ग्लानिः शब्दा-सहिष्णु-ता । रक्ते ऽम्ल-शिशिर-प्रीति-सिरा-शैथिल्य-रूक्ष-ताः ॥ १७ ॥
पदच्छेद: ।
रसे रौक्ष्यं श्रमः शोष: ग्लानिः शब्द-असहिष्णुता ।रक्ते अम्ल-शिशिर-प्रीति-सिरा-शैथिल्य-रूक्षताः ॥ १७ ॥

मूलम् –॥
मांसे ऽक्ष-ग्लानि-गण्ड-स्फिक्-शुष्क-ता-संधि-वेदनाः।मेदसि स्वपनं कट्याः प्लीह्नो वृद्धिः कृशाङ्ग-ता ॥ १८ ॥
पदच्छेद: ।
मांसे अक्ष-ग्लानि-गण्ड-स्फिक्-शुष्कता-संधि-वेदनाः ।मेदसि स्वपनं कट्याः प्लीह्न: वृद्धिः कृशाङ्ग-ता ॥ १८ ॥

मूलम् –॥
अस्थ्न्य् अस्थि-तोदः सदनं दन्त-केश-नखादिषु ।अस्थ्नां मज्जनि सौषिर्यं भ्रमस् तिमिर-दर्शनम् ॥ १९ ॥
११.१९av अस्थ्न्य् अस्थि-तोदः सदनं
पदच्छेद: ।
अस्थ्नि अस्थि-तोदः सदनं दन्त-केश-नख-आदिषु ।अस्थ्नां मज्जनि सौषिर्यं भ्रम: तिमिर-दर्शनम् ॥ १९ ॥

मूलम् –॥
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा ।तोदो ऽत्य्-अर्थं वृषणयोर् मेढ्रं धूमायतीव च ॥ २० ॥
पदच्छेद: ।
शुक्रे चिरात् प्रसिच्येत शुक्रं शोणितम् एव वा ।तोद: अत्यर्थं वृषणयो: मेढ्रं धूमायति इव च ॥ २० ॥

मूलम् –॥
पुरीषे वायुर् अन्त्राणि स-शब्दो वेष्टयन्न् इव ।कुक्षौ भ्रमति यात्य् ऊर्ध्वं हृत्-पार्श्वे पीडयन् भृशम् ॥ २१ ॥
११.२१cv कुक्षिं भ्रमति यात्य् ऊर्ध्वं
पदच्छेद: ।
पुरीषे वायु: अन्त्राणि स-शब्द: वेष्टयन् इव ।कुक्षौ भ्रमति याति ऊर्ध्वं हृत्-पार्श्वे पीडयन् भृशम् ॥ २१ ॥

मूलम् –॥
मूत्रे ऽल्पं मूत्रयेत् कृच्छ्राद् वि-वर्णं सास्रम् एव वा ।स्वेदे रोम-च्युतिः स्तब्ध-रोम-ता स्फुटनं त्वचः ॥ २२ ॥
पदच्छेद: ।
मूत्रे अल्पं मूत्रयेत् कृच्छ्राद् विवर्णं सास्रम् एव वा ।स्वेदे रोम-च्युतिः स्तब्ध-रोमता स्फुटनं त्वचः ॥ २२ ॥

मूलम् –॥
मलानाम् अति-सूक्ष्माणां दुर्-लक्ष्यं लक्षयेत् क्षयम् ।स्व-मलायन-संशोष-तोद-शून्य-त्व-लाघवैः ॥ २३ ॥
पदच्छेद: ।
मलानाम् अति-सूक्ष्माणां दुर्-लक्ष्यं लक्षयेत् क्षयम् ।स्व-मलायन-संशोष-तोद-शून्यत्व-लाघवैः ॥ २३ ॥

मूलम् –॥
दोषादीनां यथा-स्वं च विद्याद् वृद्धि-क्षयौ भिषक् ।क्षयेण विपरीतानां गुणानां वर्धनेन च ॥ २४ ॥
पदच्छेद: ।
दोषादीनां यथास्वं च विद्याद् वृद्धि-क्षयौ भिषक् ।क्षयेण विपरीतानां गुणानां वर्धनेन च ॥ २४ ॥

मूलम् –॥
वृद्धिं मलानां सङ्गाच् च क्षयं चाति-विसर्गतः ।मलोचित-त्वाद् देहस्य क्षयो वृद्धेस् तु पीडनः ॥ २५ ॥
पदच्छेद: ।
वृद्धिं मलानां सङ्गात् च क्षयं च अति-विसर्गतः ।मल-उचितत्वाद् देहस्य क्षय: वृद्धे: तु पीडनः ॥ २५ ॥

मूलम् –॥
तत्रास्थनि स्थितो वायुः पित्तं तु स्वेद-रक्तयोः ।श्लेष्मा शेषेषु तेनैषाम् आश्रयाश्रयिणां मिथः ॥ २६ ॥
पदच्छेद: ।
तत्र-अस्थनि स्थित: वायुः पित्तं तु स्वेद-रक्तयोः ।श्लेष्मा शेषेषु तेन एषाम् आश्रय-आश्रयिणां मिथः ॥ २६ ॥

मूलम् –॥
यद् एकस्य तद् अन्यस्य वर्धन-क्षपणौषधम् ।अस्थि-मारुतयोर् नैवं प्रायो वृद्धिर् हि तर्पणात् ॥ २७ ॥
पदच्छेद: ।
यद् एकस्य तद् अन्यस्य वर्धन-क्षपण-औषधम् ।अस्थि-मारुतयो: न एवं प्राय: वृद्धि:हि तर्पणात् ॥ २७ ॥

मूलम् –॥
श्लेष्मणानुगता तस्मात् संक्षयस् तद्-विपर्ययात् ।वायुनानुगतो ऽस्माच् च वृद्धि-क्षय-समुद्भवान् ॥ २८ ॥
पदच्छेद: ।
श्लेष्मणा अनुगता तस्मात् संक्षय: तद्-विपर्ययात् ।वायुना अनुगत: अस्मात् च वृद्धि-क्षय-समुद्भवान् ॥ २८ ॥

मूलम् –॥
विकारान् साधयेच् छीघ्रं क्रमाल् लङ्घन-बृंहणैः ।वायोर् अन्य-त्र तज्-जांस् तु तैर् एवोत्क्रम-योजितैः ॥ २९ ॥
पदच्छेद: ।
विकारान् साधयेत् शीघ्रं क्रमात् लङ्घन-बृंहणैः ।वायो: अन्यत्र तज्जान् तु तै:एव उत्क्रम-योजितैः ॥ २९ ॥

मूलम् –॥
विशेषाद् रक्त-वृद्ध्य्-उत्थान् रक्त-स्रुति-विरेचनैः ।मांस-वृद्धि-भवान् रोगान् शस्त्र-क्षाराग्नि-कर्मभिः ॥ ३० ॥
पदच्छेद: ।
विशेषाद् रक्त-वृद्धि-उत्थान् रक्त-स्रुति-विरेचनैः ।मांस-वृद्धि-भवान् रोगान् शस्त्र-क्षार-अग्नि-कर्मभिः ॥ ३० ॥

मूलम् –॥
स्थौल्य-कार्श्योपचारेण मेदो-जान् अस्थि-संक्षयात् ।जातान् क्षीर-घृतैस् तिक्त-संयुतैर् वस्तिभिस् तथा ॥ ३१ ॥
११.३१dv -संयुक्तैर् वस्तिभिस् तथा
पदच्छेद: ।
स्थौल्य-कार्श्य-उपचारेण मेदो-जान् अस्थि-संक्षयात् ।जातान् क्षीर-घृतै: तिक्त-संयुतै: वस्तिभि: तथा ॥ ३१ ॥

मूलम् –॥
मज्ज-शुक्रोद्भवान् रोगान् भोजनैः स्वादु-तिक्तकैः ।वृद्धं शुक्रं व्यवायाद्यैर् यच् चान्यच् छुक्र-शोषिकम् ॥ ३१+१ ॥
११.३१+१av प्रत्य्-अनीकौषधं मज्ज- ११.३१+१bv -शुक्र-वृद्धि-क्षये हितम्
पदच्छेद: ।
मज्ज-शुक्र-उद्भवान् रोगान् भोजनैः स्वादु-तिक्तकैः ।वृद्धं शुक्रं व्यवायाद्यै: यत् च अन्यत् शुक्र-शोषिकम् ॥ ३१+१ ॥

मूलम् –॥
विड्-वृद्धि-जान् अतीसार-क्रियया विट्-क्षयोद्भवान् ।मेषाज-मध्य-कुल्माष-यव-माष-द्वयादिभिः ॥ ३२ ॥
पदच्छेद: ।
विड्-वृद्धि-जान् अतीसार-क्रियया विट्-क्षय-उद्भवान् ।मेष-अज-मध्य-कुल्माष-यव-माष-द्वयादिभिः ॥ ३२ ॥

मूलम् –॥
मूत्र-वृद्धि-क्षयोत्थांश् च मेह-कृच्छ्र-चिकित्सया ।व्यायामाभ्यञ्जन-स्वेद-मद्यैः स्वेद-क्षयोद्भवान् ॥ ३३ ॥
११.३३av मूत्र-वृद्धि-क्षयोत्थांस् तु
पदच्छेद: ।
मूत्र-वृद्धि-क्षय-उत्थान् च मेह-कृच्छ्र-चिकित्सया ।व्यायाम-अभ्यञ्जन-स्वेद-मद्यैः स्वेद-क्षय-उद्भवान् ॥ ३३ ॥

मूलम् –॥
स्व-स्थान-स्थस्य कायाग्नेर् अंशा धातुषु संश्रिताः । तेषां सादाति-दीप्तिभ्यां धातु-वृद्धि-क्षयोद्भवः ॥ ३४ ॥

पदच्छेद: ।
स्व-स्थान-स्थस्य कायाग्ने: अंशा: धातुषु संश्रिताः ।तेषां साद-अति-दीप्तिभ्यां धातु-वृद्धि-क्षयोद्भवः ॥ ३४ ॥

मूलम् –॥
पूर्वो धातुः परं कुर्याद् वृद्धः क्षीणश् च तद्-विधम् ।दोषा दुष्टा रसैर् धातून् दूषयन्त्य् उभये मलान् ॥ ३५ ॥
पदच्छेद: ।
पूर्व: धातुः परं कुर्याद् वृद्धः क्षीण: च तद्-विधम् ।दोषा: दुष्टा: रसै: धातून् दूषयन्ति उभये मलान् ॥ ३५ ॥

मूलम् –॥
अधो द्वे सप्त शिरसि खानि स्वेद-वहानि च ।मला मलायनानि स्युर् यथा-स्वं तेष्व् अतो गदाः ॥ ३६ ॥
पदच्छेद: ।
अध: द्वे सप्त शिरसि खानि स्वेद-वहानि च ।मला: मलायनानि स्यु: यथा-स्वं तेषु अत: गदाः ॥ ३६ ॥

मूलम् –॥
ओजस् तु तेजो धातूनां शुक्रान्तानां परं स्मृतम् ।हृदय-स्थम् अपि व्यापि देह-स्थिति-निबन्धनम् ॥ ३७ ॥
पदच्छेद: ।
ओज: तु तेज: धातूनां शुक्र-अन्तानां परं स्मृतम् ।हृदय-स्थम् अपि व्यापि देह-स्थिति-निबन्धनम् ॥ ३७ ॥

मूलम् –॥
स्निग्धं सोमात्मकं शुद्धम् ईषल्-लोहित-पीतकम् ।यन्-नाशे नियतं नाशो यस्मिंस् तिष्ठति तिष्ठति ॥ ३८ ॥
पदच्छेद: ।
स्निग्धं सोमात्मकं शुद्धम् ईषत्-लोहित-पीतकम् ।यत्-नाशे नियतं नाश: यस्मिन् तिष्ठति तिष्ठति ॥ ३८ ॥

मूलम् –॥
निष्पद्यन्ते यतो भावा विविधा देह-संश्रयाः ।ओजः क्षीयेत कोप-क्षुद्-ध्यान-शोक-श्रमादिभिः ॥ ३९ ॥
पदच्छेद: ।
निष्पद्यन्ते यत: भावा: विविधा: देह-संश्रयाः ।ओजः क्षीयेत कोप-क्षुद्-ध्यान-शोक-श्रम-आदिभिः ॥ ३९ ॥

मूलम् –॥
बिभेति दुर्-बलो ऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः ।दुश्-छायो दुर्-मना रूक्षो भवेत् क्षामश् च तत्-क्षये ॥ ४० ॥
११.४०cv वि-च्छायो दुर्-मना रूक्षो ११.४०dv भवेत् क्षामश् च तत्-क्षयात्
पदच्छेद: ।
बिभेति दुर्-बल: अभीक्ष्णं ध्यायति व्यथित-इन्द्रियः ।दुश्-छाय: दुर्-मना: रूक्ष: भवेत् क्षाम: च तत्-क्षये ॥ ४० ॥

मूलम् –॥
जीवनीयौषध-क्षीर-रसाद्यास् तत्र भेषजम् ।ओजो-वृद्धौ हि देहस्य तुष्टि-पुष्टि-बलोदयः ॥ ४१ ॥
११.४१cv ओजो-वृद्धौ च देहस्य ११.४१cv ओजो-वृद्धौ तु देहस्य ११.४१dvतुष्टि-पुष्टि-बलोदयाः
पदच्छेद: ।
जीवनीय-औषध-क्षीर-रसाद्या: तत्र भेषजम् ।ओजो-वृद्धौ हि देहस्य तुष्टि-पुष्टि-बल-उदयः ॥ ४१ ॥

मूलम् –॥
यद् अन्नं द्वेष्टि यद् अपि प्रार्थयेता-विरोधि तु ।तत् तत् त्यजन् समश्नंश् च तौ तौ वृद्धि-क्षयौ जयेत् ॥ ४२ ॥
११.४२cv तत् तत् त्यजन् समश्नन् वा
पदच्छेद: ।
यद् अन्नं द्वेष्टि यद् अपि प्रार्थयेत अविरोधि तु ।तत् तत् त्यजन् समश्नन् च तौ तौ वृद्धि-क्षयौ जयेत् ॥ ४२ ॥

मूलम् –॥
कुर्वते हि रुचिं दोषा विपरीत-समानयोः ।वृद्धाः क्षीणाश् च भूयिष्ठं लक्षयन्त्य् अ-बुधास् तु न ॥ ४३ ॥
११.४३av कुर्वन्ति हि रुचिं दोषा
पदच्छेद: ।
कुर्वते हि रुचिं दोषा: विपरीत-समानयोः ।वृद्धाः क्षीणा: च भूयिष्ठं लक्षयन्ति अबुधा: तु न ॥ ४३ ॥

मूलम् –॥
यथा-बलं यथा-स्वं च दोषा वृद्धा वितन्वते ।रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥ ४४ ॥
पदच्छेद: ।
यथा-बलं यथा-स्वं च दोषा: वृद्धा: वितन्वते ।रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ॥ ४४ ॥

मूलम् –॥
य एव देहस्य समा विवृद्ध्यै त एव दोषा विषमा वधाय ।यस्माद् अतस् ते हित-चर्ययैव क्षयाद् विवृद्धेर् इव रक्षणीयाः ॥ ४५ ॥
११.४५dv क्षयाद् विवृद्धेर् अपि रक्षणीयाः
पदच्छेद: ।
ये एव देहस्य समा: विवृद्ध्यै ते एव दोषा: विषमा: वधाय ।यस्माद् अत: ते हित-चर्यया एव क्षयाद् विवृद्धे: इव रक्षणीयाः ॥ ४५ ॥

वर्ग:  सूत्रस्थान- पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=११दोषादिविज्ञानीय:&oldid=5262" इत्यस्माद् प्रतिप्राप्तम्