मूलम्
निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितॄणाम् ।तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चित् ५.८।।

पदच्छेदः
निर्वर्त्यते यैः नियम-अभिषेकः येभ्यः निवाप–अञ्जलयः पितॄणाम्।तानि उञ्छ–षष्ठ–अङ्कित–सैकतानि शिवानि वः तीर्थजलानि कच्चित्॥८॥

अन्वयः
यैः नियम-अभिषेकः निर्वर्त्यते, येभ्यः पितृणां निवाप–अञ्जलयः(निर्वर्त्यन्ते ),उञ्छ–षष्ठ–अङ्कित–सैकतानि तानि वः तीर्थजलानि शिवानि कच्चित्॥

सरलार्थः
आश्रमस्य समीपे जलाशयः विद्यते। तत्रत्य–जलेन आश्रमजनानां प्रतिदिनं स्नानं भवति। तस्माद् जलाशयाद् जलं स्वीकृत्य मुनयः पितृतर्पणं कुर्वन्ति। तस्य तीरे धान्यराशिः अस्ति। मुनयः यद् धान्यं वनात् सङ्कलयन्ति,तस्य षष्ठं भागं नृपाय अर्पयन्ति। धान्यस्य सः षष्ठभागः पलिने राशिः पेण रचितः।तस्य जलाशयस्य जलं स्नानतर्पणयोग्यम् अस्ति वा?

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः  
"https://sa.wikibooks.org/w/index.php?title=०८_निर्वत्यते_यैः...&oldid=6032" इत्यस्माद् प्रतिप्राप्तम्