०७ क्रियानिमित्तेष्वपि ...

मूलम्
क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु ।तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणामनघा प्रसूतिः।।५.७।।

पदच्छेदः<br> क्रियानिमित्तेषु अपि वत्सलत्वाद् अभग्नकामा मुनिभिः कुशेषुः।तद्– अङ्क –शय्या–च्युत–नाभिनाला कच्चित् मृगीणाम् अनघा प्रसूतिः॥

अन्वयः
क्रियानिमित्तेषु अपि कुशेषुः मुनिभिः वत्सलत्वाद् अभग्नकामा तद्– अङ्क –शय्या–च्युत–नाभिनाला मृगीणां प्रसूतिः अनघा कच्चित्॥

सरलार्थः
आश्रममृगविषये मुनीनां मनसि नितरां स्नेहभावः वर्तते। मृगीणां प्रसवः तेषाम् अङ्के भवति। अनन्तरम् अपि दशरात्रं यावात् अन्यप्राणिभ्यः रक्षार्थं मुनयः मृगशावकान् सततम् अङ्के धारयन्ति। अनुष्ठानार्थम् आनीतम् अपि कुशतृणं ते मृगशावकेभ्यः यच्छन्ति। एतादृशी मुनिप्रिया मृगसन्ततिः निर्विघ्ना अस्ति वा?

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः