मूलम्
कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि ।आपाद्यते न व्ययं अन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तथ्।।५.५

पदच्छेदः
कायेन वाचा मनसा अपि शश्वत् यत् सम्भृतं वासवधैर्यलोपि ।आपाद्यते न व्ययम् अन्तरायैः कच्चित् महर्षेः त्रिविधं तपः तत्॥५॥

अन्वयः
कायेन वाचा मनसा अपि वासवधैर्यलोपि यत् तपः शश्वत् सम्भृतं,महर्षेः त्रिविधं तत् (तपः),अन्तरायैः,व्ययम् न आपाद्यते कञ्चित्॥

सरलार्थः
महर्षिः वरतन्तुः कायिकं वाचिकं मानसं च तपः निरन्तरं कृतवान्।‘ मम इन्द्रपदम् एषः तापस हरति किम् ‘ इति चिन्तया इन्द्रस्य अपि धैर्यं गलितम्। तत् त्रिविधं तपः विघ्नैः न नश्यति खलु?

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः  
"https://sa.wikibooks.org/w/index.php?title=०५_कायेन_वाचा...&oldid=6029" इत्यस्माद् प्रतिप्राप्तम्