मूलम्-
अप्यग्रणीर्मन्त्रकृतामृषीणां कुशाग्रबुद्धे कुशली गुरुस्ते ।यतस्त्वया ज्ञानमशेषमाप्तं लोकेन चैतन्यमिवोष्णरश्मेः।।५.४।।

पदच्छेदः
अपि अग्रणी मन्त्रकृताम् ऋषीणां कुशाग्रबुद्धे कुशली गुरुः ते।यतः त्वया ज्ञानम् अशेषम् आप्तं लोकेन चैत्यनम् इव उष्णरश्मेः॥४॥

अन्वयः
हे, कुशाग्रबुद्धे, लोकेन उष्णरश्मेः चैत्यनम् इव,त्वया यतः अशेषं ज्ञानम् आप्तं, (सः) मन्त्रकृताम् ऋषीणां अग्रणः ते गुरुः कुशली अपि ?

सरलार्थः
हे सूक्ष्मबुद्धे कौत्स विश्वं सूर्यात् चैतन्यं लभते। तथा एव त्वं वरतन्तोः ज्ञानं प्राप्तवान्। मन्त्राणां रचनां ये ये मुनयः कृतवन्तः,तेषु तव गुरुः अग्रेसरः।सः स्वस्थः किम्

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः  
"https://sa.wikibooks.org/w/index.php?title=०४_अप्यग्रणीः...&oldid=6028" इत्यस्माद् प्रतिप्राप्तम्