अध्याय 04 सम्पाद्यताम्

वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् । निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ १ ॥
पदच्छेद:-
वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् । निद्रा-कास-श्रम-श्वास-जृम्भा-अश्रु-च्छर्दि-रेतसाम् ॥ १ ॥

अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः । वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥ २ ॥
पदच्छेद:-
अधो-वातस्य रोधेन गुल्म-उदावर्त-रुक्-क्लमाः । वात-मूत्र-शकृत्-सङ्ग-दृष्टि-अग्नि-वध-हृद्-गदाः ॥ २ ॥

स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च । पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ २+१ ॥
पदच्छेद:-
स्नेह-स्वेद-विधि: तत्र वर्तय: भोजनानि च । पानानि वस्तय: च एव शस्तं वातानुलोमनम् ॥ २+१ ॥

शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः । ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥ ३ ॥ पदच्छेद:-
शकृतः पिण्डिका-उद्वेष्ट-प्रतिश्याय-शिरो-रुजः । ऊर्ध्व-वायुः परीकर्तो हृदयस्य-उपरोधनम् ॥ ३ ॥

४.३cv ऊर्ध्वं वायुः परीकर्तो
मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः । अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ४ ॥
पदच्छेद:-
मुखेन विट्-प्रवृत्ति: च पूर्वोक्ता: च आमयाः स्मृताः । अङ्ग-भङ्ग-अश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ४ ॥

मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् । वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥ ५ ॥
पदच्छेद:-
मूत्रस्य रोधात् पूर्वे च प्राय: रोगा: तद्-औषधम् । वरति-अभ्यङ्ग-अवगाहा: च स्वेदनं वस्ति-कर्म च ॥ ५ ॥

अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु । मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ६ ॥
पदच्छेद:-
अन्न-पानं च विड्-भेदि विड्-रोध-उत्थेषु यक्ष्मसु । मूत्रजेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ६ ॥
४.६cv मूत्र-जेषु च पानं तु ४.६cv मूत्र-जेषु प्रयुञ्जीत ४.६dv सर्पिषश्चावपीडकम्

जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् । अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥ ७ ॥
पदच्छेद:-
जीर्णान्तिकं च उत्तमया मात्रया योजना-द्वयम् । अवपीडकम् एतत् च संज्ञितं धारणात् पुनः ॥ ७ ॥

उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥ ८ ॥
पदच्छेद:-
उद्गारस्य अरुचिः कम्प: विबन्ध: हृदय-उरसोः । आध्मान-कास-हिध्मा: च हिध्मा-वत् तत्र भेषजम् ॥ ८ ॥

शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः । तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥ ९ ॥
पदच्छेद:-
शिर:-अर्ति-इन्द्रिय-दौर्बल्य-मन्या-स्तम्भ-अर्दितं क्षुतेः । तीक्ष्ण-धूम-अञ्जन-आघ्राण-नावन-अर्कविलोकनैः ॥ ९ ॥

प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् । शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ १० ॥
पदच्छेद:-
प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् । शोष-अङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ १० ॥

तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः । अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ ११ ॥
पदच्छेद:-
तृष्णाया: निग्रहात् तत्र शीतः सर्व: विधि: हितः । अङ्ग-भङ्ग-अरुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ ११ ॥
४.११dv -कार्श्य-शूल-श्रम-भ्रमाः

तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् । निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥ १२ ॥
पदच्छेद:-
तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् । निद्राया मोह-मूर्ध-अक्षि-गौरव-आलस्य-जृम्भिकाः ॥ १२ ॥
४.१२av वैवर्ण्यं च क्षुधस् तत्र ४.१२bv स्निग्धोष्णं लघु भोजनम्

अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च । कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥ १३ ॥
पदच्छेद:-
अङ्गमर्द: च तत्र इष्टः स्वप्नः संवाहनानि च । कासस्य रोधात् तद्-वृद्धिः श्वास-अरुचि-हृद्-आमयाः ॥ १३ ॥

शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः । गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ १४ ॥
पदच्छेद:-

शोष: हिध्मा च कार्य: अत्र कासहा सुतरां विधिः । गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ १४ ॥
४.१४dv श्रम-श्वासा-विधारणात्

हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः । जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥ १५ ॥
पदच्छेद:-
हितं विश्रमणं तत्र वातघ्न: च क्रिया-क्रमः । जृम्भायाः क्षववत् रोगाः सर्व: च अनिलजित् विधिः ॥ १५ ॥
४.१५च्च् जृम्भायाः क्षुति-वद् रोगाः

पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः । स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥ १६ ॥v
पदच्छेद:-
पीनस-अक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः । सगुल्मा: बाष्पत: तत्र स्वप्न: मद्यं प्रियाः कथाः ॥ १६ ॥

विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः । स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥ १७ ॥
पदच्छेद:-
विसर्प-कोठ-कुष्ठ-अक्षि-कण्डू-पाण्डु-आमय-ज्वराः । सकास-श्वास-हृल्लास-व्यङ्ग-श्वयथव: वमेः ॥ १७ ॥

गण्डूष-धूमानाहारा: रूक्षं भुक्त्वा तद्-उद्वमः । व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥ १८ ॥
पदच्छेद:-
गण्डूष-धूम-अनाहारा: रूक्षं भुक्त्वा तद्-उद्वमः । व्यायामः स्रुति: अस्रस्य शस्तं च अत्र विरेचनम् ॥ १८ ॥
४.१८av गण्डूष-धूमान्-आहारं ४.१८av गण्डूष-धूमान्-आहारान् ४.१८ रूक्षं भुक्त्वा तद् उद्वमेत् ४.१८bv रूक्षान् भुक्त्वा तद् उद्वमेत्

स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते । शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ १९ ॥
पदच्छेद:-
स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते । शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ १९ ॥
४.१९bv अभ्यङ्गार्थे च शस्यते

हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः । ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥ २० ॥
पदच्छेद:-
हृद्-व्यथा-मूत्र-सङ्ग-अङ्ग-भङ्ग-वृद्धि-अश्म-षण्ढताः । ताम्र-चूड-सुरा-शालि-बस्ति-अभ्यङ्ग-अवगाहनम् ॥ २० ॥

वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः । तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ २१ ॥
पदच्छेद:-
वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः । तृट्-शूल-आर्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ २१ ॥

रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः । निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥
पदच्छेद:-
रोगाः सर्वे अपि जायन्ते वेग-उदीरण-धारणैः । निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥

ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति । अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥ २३ ॥
पदच्छेद:-
तत: च अनेकधा प्रायः पवन: यत् प्रकुप्यति । अन्न-पान-औषधं तस्य युञ्जीत अत: अनुलोमनम् ॥ २३ ॥

धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च । लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥ २४ ॥
पदच्छेद:-
धारयेत् तु सदा वेगान् हितैषी प्रेत्य च इह च । लोभ-ईर्ष्या-द्वेष-मात्सर्य-राग-आदीनां जित-इन्द्रियः ॥ २४ ॥

यतेत च यथा-कालं मलानां शोधनं प्रति । अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ २५ ॥
पदच्छेद:-
यतेत च यथा-कालं मलानां शोधनं प्रति । अति-अर्थ-संचिता: ते हि क्रुद्धाः स्यु: जीवित-च्छिदः ॥ २५ ॥

दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः । ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ २६ ॥
पदच्छेद:-
दोषाः कदाचित् कुप्यन्ति जिता: लङ्घन-पाचनैः । ये तु संशोधनैः शुद्धा: न तेषां पुन: उद्भवः ॥ २६ ॥
४.२६cv ये तु संशोधनैः शुद्धास् ४.२६dv तेषां न पुनर्-उद्भवःच

यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् । रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥ २७ ॥
पदच्छेद:-
यथा-क्रमं यथा-योगम् अत: ऊर्ध्वं प्रयोजयेत् । रसायनानि सिद्धानि वृष्य-योगान् च कालवित् ॥ २७ ॥
४.२७av यथा-क्रमं यथा-योग्यम्

भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् । शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥ २८ ॥
पदच्छेद:-
भेषज-क्षपिते पथ्यम् आहारै: बृंहणं क्रमात् । शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृत-आदिभिः ॥ २८ ॥
४.२८dv -मुद्ग-मांस-रसादिभिः

हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः । साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-बस्तिभिः ॥ २९ ॥
पदच्छेद:-
हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः । स-अभ्यङ्ग-उद्वर्तन-स्नान-निरूह-स्नेह-बस्तिभिः ॥ २९ ॥

तथा स लभते शर्म सर्व-पावक-पाटवम् । धी-वर्णेन्द्रिय-वैमल्यं वृषतां दैर्घ्यम् आयुषः ॥ ३० ॥
पदच्छेद:-
तथा स लभते शर्म सर्व-पावक-पाटवम् । धी-वर्ण-इन्द्रिय-वैमल्यं वृषतां दैर्घ्यम् आयुषः ॥ ३० ॥

ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः । राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥ ३१ ॥
पदच्छेद:-
ये भूत-विष-वायु-अग्नि-क्षत-भङ्ग-आदि-संभवाः । राग-द्वेष-भय-आद्या: च ते स्यु: आगन्तव: गदाः ॥ ३१ ॥
४.३१cv काम-क्रोध-भायाद्याश्

त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः । देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥ ३२ ॥
पदच्छेद:-
त्यागः प्रज्ञापराधानाम् इन्द्रिय-उपशमः स्मृतिः । देश-काल-आत्म-विज्ञानं सद्-वृत्तस्य-अनुवर्तनम् ॥ ३२ ॥

अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् । भूताद्यस्पर्शनोपायो निर्दिष्टश्च पृथक् पृथक् ॥ ३३ ॥
पदच्छेद:-
अथर्व-विहिता शान्तिः प्रतिकूल-ग्रह-अर्चनम् । भूतादि-अस्पर्शन-उपाय: निर्दिष्ट: च पृथक् पृथक् ॥ ३३ ॥

अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः । निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥
पदच्छेद:-
अन्-उत्पत्त्यै समासेन विधि: एष: प्रदर्शितः । निज-आगन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥
४.३४av अन्-उत्पत्तौ समासेन

शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले । घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥ ३५ ॥
पदच्छेद:-
शीत-उद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्मजम् अभ्र-काले । घन-अत्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतुजान् न जातु ॥ ३५ ॥

नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः । दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥ ३६ ॥

पदच्छेद:-
नित्यं हित-आहार-विहार-सेवी समीक्ष्य-कारी विषयेषु अ-सक्तः । दाता समः सत्य-परः क्षमा-वान् आप्त-उपसेवी च भवति अ-रोगः ॥ ३६ ॥

वर्ग:  सूत्रस्थान- पदच्छेदान्वयार्थसहितम्
"https://sa.wikibooks.org/w/index.php?title=०४रोगानुत्पादनीय:&oldid=5167" इत्यस्माद् प्रतिप्राप्तम्