मूलम् –
निवर्त्य राजा दयिताम् दयालुः ताम् सौरभेयिम् सुरभिर्यशोभिः। पयोधरीभूतचतुस्समुद्राम् जुगोप गोरूपधरामिवोर्वीम्॥ ।।५.३।।

पदच्छेदः

निवर्त्य राजा दयिताम् दयालुः ताम् सौरभेयिम् सुरभिः यशोभिः पयोधरीभूतचतुस्समुद्राम् जुगोप गोरूपधराम् इव उर्वीम् ॥।
अन्वयः

दयालुः राजा दयिताम् निवर्त्य यशोभिः सुरभिः ताम् सौरभेयिम् पयोधरीभूतचतुस्समुद्राम् गोरूपधराम् उर्वीम् इव जुगोप ॥।
सरलार्थः
कृपालुः पार्थिवः ताम् पत्निम् निवर्त्य कीर्त्या कामधेनु तुल्याम् ताम् गाम् पयोधरिभूतार्णवाम् धेन्वाकृतियुक्ताम् धराम् इव पालयामास ।।

सन्धिः -
सुरभिः यशोभिः-सुरभिर्यशोभिः ।ससजुषोः रुः।
गोरूपधराम् इव उर्वीम्-गोरूपधरामिवोर्वीम्।आद् गुणः ।(

समासः –

मल्लिनाथटीका -


 ०२ नन्दिनीवरप्रदानम् 
"https://sa.wikibooks.org/w/index.php?title=०३_निवर्त्य_राजा..&oldid=6584" इत्यस्माद् प्रतिप्राप्तम्