मूलम्-
तमर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी । विशांपतिर्विष्टरभाजमारात्कृताञ्जलिः कृत्यविदित्युवाच।। ५.३।।

पदच्छेदः -
तम् अर्चयित्वा विधिवद् विधिज्ञः तपोधनं मानधन–अग्रयायी।विशांपतिः विष्टरभाजम् आरात् कृत–अञ्जलिः कृत्यविद्–इति उवाच॥३॥

अन्वयः
विधिज्ञः मानधन–अग्रयायी, कृत्यविद् ,विशांपतिः विष्टरभाजं तमं तपोधनं विधिवद् अर्चयित्वा, आरात् कृत–अञ्जलिः इति उवाच॥

सरलार्थः
राजा अतिथिसत्कारं जानाति स्म।स्वाभिमानी,कार्यज्ञः राजा आसने उपविष्टं तपस्विनं पूजितवान्।तस्य समिपे स्थित्वा,करद्वयस्य अञ्जलिं कृत्वा राजा तम् उक्तवान्–

सन्धिः
समासः
मल्लिनाथटीका

रघुवंशे पञ्चमः सर्गः 
"https://sa.wikibooks.org/w/index.php?title=०३_तं_अर्चयित्वा..&oldid=6027" इत्यस्माद् प्रतिप्राप्तम्