०२ स मृन्मये...
मूलम् -
स मृण्मये वीत–हिरण्मयत्वात् पात्रे निधायार्घ्यमनर्घशीलः।श्रुत–प्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिमातिथेयः॥२॥।।५.२ ।।
पदच्छेदः
सः मृण्मये वीत–हिरण्मयत्वात् पात्रे निधाय अर्घ्यम् अनर्घशीलः।श्रुत–प्रकाशं यशसा प्रकाशः प्रति उज्जगाम अतिथिम् आतिथेयः॥२॥
अन्वयः
अनर्घशीलः यशसा प्रकाशः आतिथेयः सः वीत–हिरण्मयत्वात्,मृण्मये पात्रे अर्घ्यम् निधाय, श्रुत–प्रकाशम् अतिथिं प्रति उज्जगाम॥
सरलार्थः
रघुराजस्य स्वभावः विशिष्टः आसीत्। सः अतिथिनां सत्कारं करोति स्म। सः स्वकीर्त्या प्रसिद्धः आसीत्। यज्ञे सर्वं सुवर्णं दत्तम्,अतःमृत्तिकापात्रे पूजासाहित्यं स्वीकृत्य सः ज्ञानेन शोभमानम् अतिथिं कौत्सं प्रति गतवान् ।
सन्धिः –
समासः –
मल्लिनाथटीका –
रघुवंशे पञ्चमः सर्गः ।