०२ तस्मिन्नद्रौ...
2. तस्मिन् अद्रौ कतिचिदबलाविप्रयुक्तः स कामि
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥
अन्वयः अबलाविप्रयुक्तः स कामि तस्मिन् अद्रौ कतिचित् मासान् नीत्वा कनकवलयभ्रंशरिक्तप्रकोष्ठः आषाढस्य प्रथमदिवसे आश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं मेघम् ददर्श॥