मूलम् –
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्। वनाय पीतप्रतिबद्धवत्साम् यशोधनो धेनुमृषेर्मुमोच ।।२.१।।

पदच्छेदः
अथ प्रजानाम् अधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् वनाय पीतप्रतिबद्धवत्साम् यशोधनः धेनुम् ऋषेः मुमोच॥।

अन्वयः
अथ प्रभाते यशोधनः प्रजानाम् अधिपः जायाप्रतिग्राहितगन्धमाल्याम् पीतप्रतिबद्धवत्साम् ऋषेः धेनुम् वनाय मुमोच ॥।

सरलार्थः
ततः यशस्वी राजा दिलीपः उषसि पत्न्या सुगन्धपुस्पहारैः अलन्कृताम् पानानन्तरम् चालितपुत्राम् वसिष्टगाम् विपिने भोजनार्थम् त्यक्तवान्।।

सन्धिः -

प्रजानाम्+ अधिपः-प्रजानामधिपः   धेनुम् + ऋषेः+ मुमोच-धेनुमृषेर्मुमॉच 

समासः –
प्रभाते वनाय यशोधनः १ जायया प्रतिग्राहितः गन्धमाल्यम् यया-जायाप्रतिग्राहितगन्धमाल्याम् ।। ()
२ पीतः तदनन्तरम् बद्धः वत्सः यस्य, ताम्- पीतप्रतिबद्धवत्साम्- । ।()

मल्लिनाथटीका -

०२ नन्दिनीवरप्रदानम्

"https://sa.wikibooks.org/w/index.php?title=०१_अथ_प्रजानामधिपः_…&oldid=6587" इत्यस्माद् प्रतिप्राप्तम्