मूलम्
हरिस्ते साहस्रं कमल बलिमाधाय पदयोः।
यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्।।
गतो भक्त्युद्रेकः परिणतिमसौ चक्रवपुषः।
त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्।। १९।।

पदच्छेदः-
हरिः ते साहस्रं कमल-बलिम् आधाय पदयोः।यद् एक-ऊने तस्मिन् निजम् उदहरत् नेत्रकमलम्।।
गतः भक्त्युद्रेकः परिणतिम् असौ चक्रवपुषा।त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम्।। १९।।

अन्वयः-
त्रिपुरहर, हरिः पदयोः ते साहस्रं कमल-बलिम् आधाय तस्मिन् एक-ऊने निजम् नेत्रकमलम् यद् उदहरत् ।असौ भक्त्युद्रेकः चक्रवपुषा परिणतिम् गतः सन् त्रयाणां जगताम् रक्षायै जागर्ति । १९।।

सरलार्थः-
तव पदयोः सहस्रकमलार्पणस्य सङ्कल्पं विष्णु: कृतवान्।तत्र एकं कमलम् ऊनम् अस्ति इति यदा विष्णुना दृष्टं तदा स्वस्य नेत्रकमलम् उत्कृत्य सः समर्पितवान्।यः असौ भक्त्यतिशयः सः सुदर्शनचक्ररूपेण परिणतिं गतः।अधुना सः भक्त्यतिशयः त्रिभुवनस्य रक्षार्थंम् अवहितः अस्ति॥१९

  शिवस्तोत्राणि    शिवमहिम्न: स्तोत्रं सपदच्छेदान्वयार्थम्
"https://sa.wikibooks.org/w/index.php?title=हरिस्ते...&oldid=6174" इत्यस्माद् प्रतिप्राप्तम्