स्फोटस्य सिद्धिं कुरुत।

स्फोटस्य सिद्धिं कुरुत
लक्षणप्रमाणाभ्यां वस्तुसिद्धिः भवति ।वैयाकरणाः स्फोटस्य लक्षणं तथा प्रमाणम् उपस्थाप्य तस्य सद्भावं साधयन्ति।तदेवम् -
स्फोटलक्षणम्-
वर्णातिरिक्तो वर्णाभिव्यङ्ग्यः अर्थप्रत्यायकः नित्यः शब्दः स्फोटः।

स्फोटसद्भावे प्रत्यक्षप्रमाणम् -
गौः इति पदं शृण्वन् जनः ‘अहं गौः इति पदं श्रुतवान्’ इति वदति।“अहं वर्णान् श्रुतवान्’ इति न वदति।अहं पदं श्रुतवान् इति अनुव्यवसायात् पदश्रवणम् अनुमीयते न वर्णश्रवणम्।पदश्रवणम् इति प्रत्यक्षप्रमाणं स्फोटसिद्धौ।

स्फोटसिद्धौ अर्थापत्तिप्रमाणम्
गौः इति पदं श्रुत्वा अर्थस्य प्रतीतिः भवति।सा वर्णेभ्यः न भवति।अतः वर्णातिरिक्तः कश्चित् अर्थप्रत्यायकः पदार्थः अङ्गीकार्यः।अन्यथा अर्थज्ञानस्य उपपत्तिः एव न भवति। अर्थज्ञानं वर्णेभ्यः एव भवति इति वचनं न युक्तम्।एकः एकः व्यस्तः वर्णः अर्थबोधने असमर्थः।एकः व्यस्तः वर्णः अर्थं बोधयति चेत् अन्येषां वर्णानाम् आनर्थक्यं भवति। समस्ताः वर्णाः अर्थं बोधयन्ति इति अपि न शक्यम्।वर्णाः उत्पन्नाः क्षणेन नष्टाः भवन्ति।तेषां समूहः न सम्भवति। ‘क्षणिकानां वर्णानां समूहः साक्षात् न सम्भवति चेत् समूहं कल्पयामः’ इति अपि वचनं न योग्यं यतो हि अनेन अन्योन्याश्रयदोषः आपतति।वर्णानां समूहरूपस्य कल्पना किमर्थम् ? एते वर्णाः एकम् अर्थं वदन्ति इति साधयितुम्।एते वर्णाः एकम् अर्थं वदन्ति इति कुतः ज्ञायते? वर्णसमूहरूपात् पदात्।एषः अन्योन्याश्रयदोषः।

पदत्वसिद्धौ सत्याम् अर्थबोधः ----- अर्थबोधः भवति अतः वर्णसमूहरूपस्य पदस्य कल्पना
अतः कल्पितसमूहः इत्यपि विकल्पः न सम्भवति।

व्यस्ताश्च समस्ताश्च वर्णाः इति विकल्पः न सम्भवति।
एवं व्यस्ताः वर्णाः अर्थं न बोधयन्ति,
समस्ताः वर्णाः न सम्भवन्ति,
कल्पितस्य वर्णसमूहस्य अर्थबोधकत्वम् अन्योन्याश्रयदोषग्रस्तं,
व्यस्तसमस्ताः वर्णाः न सम्भवन्ति इति एकः अपि विकल्पः न सम्भवति।
अर्थज्ञानं वर्णेभ्यो न भवति चेत् अन्यः कश्चित् अर्थप्रत्यायकः हेतुः अभ्युपगन्तव्यः।सः एव स्फोटः।
एवं लक्षणप्रमाणाभ्यां वैयाकरणैः स्फोटसद्भावः साध्यते।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्र्लहे पाणिनिदर्शनम्