स्पष्टीकुरुत – पाणिन्याचार्यस्य उभयं सम्मतम्।

स्पष्टीकुरुत – पाणिन्याचार्यस्य उभयं सम्मतम्।

सन्दर्भः-
पाणिनिदर्शने ‘शब्दस्य जातौ सङ्केतः वर्तते अथवा व्यक्तौ’ इति चर्चा कृता।उभयोः पक्षयोः स्थापनाद् अनन्तरम् ‘पाणिनेः उभौ पक्षौ मान्यौ’ इति निर्णयः अस्मिन् वचने उक्तः।

पाणिनेः कृतौ कानिचन सूत्राणि जातौ सङ्केतं मत्त्वा रचितानि दृश्यन्ते।कानिचन सूत्राणि व्यक्तौ (द्रव्ये) सङ्केतं मत्त्वा रचितानि दृश्यन्ते।अतः पाणिनेः उभे मते मान्ये इति निर्णयः भवति।
तत्र जातौ सङ्केतं मत्त्वा कृतं सूत्रम् –
जात्याख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम्।(अष्टा.१.२.५८)
जातेः आख्यानं करणीयं चेत् एकस्मिन् अपि बहुवचनं विकल्पेन भवति इति आशयः।अत्र शब्दस्य अर्थः जातिः इति गृहीतम्।

व्यक्तौ सङ्केतं मत्त्वा कृतं सूत्रम् –
सरूपाणाम् एकशेष एकविभक्तौ।(अष्टा.१.२.६४)
एकविभक्तौ यानि सरूपाणि, तेषाम् एकः एव शिष्यते।
यथा बाल-बाल-औ।
अत्र द्वयोः बालशब्दयोः एकः एव बालशब्दः अवशिष्यते ‘बाल-औ’ इति।
अत्र ‘शब्दस्य अर्थः व्यक्तिः’ इति एव ग्रहीतव्यम्।जातिः इति अर्थः गृहीतः चेत् प्रथमे विद्यमानं बालत्वं तथा द्वितीये विद्यमानं बालत्वम् इति अनयोः सरूपत्वं न भवति।तयोः बालयोः बालत्वजातिः एका एव।बालशब्देन बालव्यक्तिः गृह्यते चेदेव तयोः सरूपत्वं सम्भवति।

परस्परविरुद्धे इमे मते।तथापि पाणिनिः उभयोः ग्रहणं कथं कृतवान् इति आशङ्कायाः उत्तरं दत्तम् -
व्याकरणस्य सर्वपार्षदत्वात्
व्याकरणे सर्वेषां मतानाम् आदरः क्रियते अतः उभयोः ग्रहणे न विरोधः।

सर्वदर्शनसङ्ग्रह-प्रश्नोत्तराणि     सर्वदर्शनसङ्ग्रहे पाणिनिदर्शनम्